उत्तरकाण्डम्डम्
Chapter 3 / सर्गः ३
Slōka 1 / श्लोक १
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।
अचिरेणैव कालेन पितेव तपसि स्थितः ।। ७.३.१ ॥
Slōka 2 / श्लोक २
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।
सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ।। ७.३.२ ॥
Slōka 3 / श्लोक ३
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।
ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ।। ७.३.३ ॥
Slōka 4 / श्लोक ४
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।
प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ।। ७.३.४ ॥
Slōka 5 / श्लोक ५
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।
स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ।। ७.३.५ ॥
Slōka 6 / श्लोक ६
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ।
तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ।। ७.३.६ ॥
Slōka 7 / श्लोक ७
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।
नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ।। ७.३.७ ॥
Slōka 8 / श्लोक ८
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव ।
तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ।। ७.३.८ ॥
Slōka 9 / श्लोक ९
स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।
अवर्धताहुतिहुतो महातेजा यथानलः ।। ७.३.९ ॥
Slōka 10 / श्लोक १०
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।
चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ।। ७.३.१० ॥
Slōka 11 / श्लोक ११
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ।। ७.३.११ ॥
Slōka 12 / श्लोक १२
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।
जलाशी मारुताहारो निराहारस्तथैव च ।। ७.३.१२ ॥
Slōka 13 / श्लोक १३
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ।। ७.३.१३ ॥
Slōka 14 / श्लोक १४
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।
परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत ।वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ।। ७.३.१४ ॥
Slōka 15 / श्लोक १५
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।
भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ।। ७.३.१५ ॥
Slōka 16 / श्लोक १६
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।
ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ।। ७.३.१६ ॥
Slōka 17 / श्लोक १७
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ।
। ७.३.१७ ॥
Slōka 18 / श्लोक १८
यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।
तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ।। ७.३.१८ ॥
Slōka 19 / श्लोक १९
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ।। ७.३.१९ ॥
Slōka 20 / श्लोक २०
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् ।
कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ।। ७.३.२० ॥
Slōka 21 / श्लोक २१
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ।
। ७.३.२१ ॥
Slōka 22 / श्लोक २२
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् ।
वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ।निवासनं न मे देवो विदधे स प्रजापतिः ।। ७.३.२२ ॥
Slōka 23 / श्लोक २३
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् ।
तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ।। ७.३.२३ ॥
Slōka 24 / श्लोक २४
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ।
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ।। ७.३.२४ ॥
Slōka 25 / श्लोक २५
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ।
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ।। ७.३.२५ ॥
Slōka 26 / श्लोक २६
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ।। ७.३.२६ ॥
Slōka 27 / श्लोक २७
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।
तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ।। ७.३.२७ ॥
Slōka 28 / श्लोक २८
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।
रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ।। ७.३.२८ ॥
Slōka 29 / श्लोक २९
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ।। ७.३.२९ ॥
Slōka 30 / श्लोक ३०
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते ।
स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ।। ७.३.३० ॥
Slōka 31 / श्लोक ३१
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् ।
एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ।। ७.३.३१ ॥
Slōka 32 / श्लोक ३२
निवासयामास तदा लङ्कां पर्वतमूर्धनि ।
नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ।। ७.३.३२ ॥
Slōka 33 / श्लोक ३३
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ।
। ७.३.३३ ॥
Slōka 34 / श्लोक ३४
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।
समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ।। ७.३.३४ ॥
Slōka 35 / श्लोक ३५
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।
अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ।। ७.३.३५ ॥
Slōka 36 / श्लोक ३६
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः ।
गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ।। ७.३.३६ ।।