अयोध्याकाण्डम्
Chapter 15 / सर्गः १५
Slōka 1 / श्लोक १
ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः ।
उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥२-१५-१॥
Slōka 2 / श्लोक २
अमात्या बल मुख्याः च मुख्या ये निगमस्य च ।
राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२-१५-२॥
Slōka 3 / श्लोक ३
उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि ।
अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥२-१५-३॥
Slōka 4 / श्लोक ४
कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्Rतम् ।
काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥२-१५-४॥
Slōka 5 / श्लोक ५
रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा ।
गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥२-१५-५॥
Slōka 6 / श्लोक ६
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ।
प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥२-१५-६॥
Slōka 7 / श्लोक ७
ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः ।
सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-७॥
Slōka 8 / श्लोक ८
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-८॥
Slōka 9 / श्लोक ९
वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ।
चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥२-१५-९॥
Slōka 10 / श्लोक १०
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।
चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥
Slōka 11 / श्लोक ११
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।
पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥२-१५-११॥
Slōka 12 / श्लोक १२
प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ।
अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥२-१५-१२॥
Slōka 13 / श्लोक १३
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे ।
इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥२-१५-१३॥
Slōka 14 / श्लोक १४
तथाजातीयमादाय राजपुत्राभिषेचन्म् ।
ते राजवचनात्तत्र समवेता महीपतिम् ॥२-१५-१४॥
Slōka 15 / श्लोक १५
अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् ।
न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१५॥
Slōka 16 / श्लोक १६
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।
इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥२-१५-१६॥
Slōka 17 / श्लोक १७
अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ।
रामः च सम्यग् आस्तीर्णो भास्वरा व्याघ्र चर्मणा ॥२-१५-१७॥
Slōka 18 / श्लोक १८
गन्गा यमुनयोह् पुण्यात् सम्गमात् आह्Rतम् जलम् ।
अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१८॥
Slōka 19 / श्लोक १९
राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् ।
इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१९॥
Slōka 20 / श्लोक २०
सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।
तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२-१५-२०॥
Slōka 21 / श्लोक २१
शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत ।
सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२-१५-२१॥
Slōka 22 / श्लोक २२
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२२॥
Slōka 23 / श्लोक २३
वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते ।
गता भगवती रात्रिरः शिवमुपस्थितम् ॥२-१५-२३॥
Slōka 24 / श्लोक २४
बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।
ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२-१५-२४॥
Slōka 25 / श्लोक २५
दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव ।
स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२५॥
Slōka 26 / श्लोक २६
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् ।
राममानय सूतेति यदस्यभिहितो/अनया ॥२-१५-२६॥
Slōka 27 / श्लोक २७
किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते ।
न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२७॥
Slōka 28 / श्लोक २८
इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२८॥
Slōka 29 / श्लोक २९
निर्जगम नृपावासान्मन्यमानः प्रियं महत् ।
प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२९॥
Slōka 30 / श्लोक ३०
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-३०॥
Slōka 31 / श्लोक ३१
अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् ।
ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥२-१५-३१॥
Slōka 32 / श्लोक ३२
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।
महाकवाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३२॥
Slōka 33 / श्लोक ३३
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥२-१५-३३॥
Slōka 34 / श्लोक ३४
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ।
मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥२-१५-३४॥
Slōka 35 / श्लोक ३५
गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा ।
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥२-१५-३५॥
Slōka 36 / श्लोक ३६
सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।
मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥२-१५-३६॥
Slōka 37 / श्लोक ३७
चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् ।
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३७॥
Slōka 38 / श्लोक ३८
मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह ।
उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥२-१५-३८॥
Slōka 39 / श्लोक ३९
उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।
रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥२-१५-३९॥
Slōka 40 / श्लोक ४०
महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।
नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥२-१५-४०॥
Slōka 41 / श्लोक ४१
स वाजियुक्तेन रथेन सारथि ।
र्नराकुलं राजकुलम् विराजयन् ।वरूथिना रामगृहाभिपातिना ।पुरस्य सर्वस्य मनांसि हर्शयन् ॥२-१५-४१॥
Slōka 42 / श्लोक ४२
ततस्समासाद्य महाधनं महत् ।
प्रहृष्टरोमा स बभूव सारथिः ।मृगैर्मयूरैश्च समाकुलोल्बणं ।गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४२॥
Slōka 43 / श्लोक ४३
स तत्र कैलासनिभाः स्वलंकृताः ।
प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।प्रियान् वरान् राममते स्थितान् बहून् ।व्यपोह्य शुद्धांतमुपस्थितो रथी ॥२-१५-४३॥
Slōka 44 / श्लोक ४४
स तत्र शुश्राव च हर्षयुक्ता ।
रामाभिषेकार्थकृता जनानां ।नरेम्द्रसूनोरभिमंगLआर्थाः ।सर्वस्य लोकस्य गिरः प्रहृष्टः ॥२-१५-४४॥
Slōka 45 / श्लोक ४५
महेंद्रसद्मप्रतिमं तु वेश्म ।
रामस्य रम्यं मृगमुच्चं ।विभ्राजमानं प्रभया सुमम्त्रः ॥२-१५-४५॥
Slōka 46 / श्लोक ४६
उपस्थितै रञ्जलिकारिभिश्च ।
सोपायनैर्जानपदैर्जनैश्च ।कोट्या परार्धैश्च विमुक्तयानैः ।समाकुलं द्वारपदम् ददर्श ॥२-१५-४६॥
Slōka 47 / श्लोक ४७
ततो महामेघमहीधराभं ।
प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।रामोपवाह्याम् रुचिरम् ददर्श ।शत्रुम्जयं नागमुदग्रकायम् ॥२-१५-४७॥
Slōka 48 / श्लोक ४८
स्वलंकृतान् सास्वरथान् सकुम्जरा ।
नमात्यमुखयाम्श्च ददर्श वल्लभान् ।व्यपोह्य सूतः सहितान्समंततः ।समृद्धमंतःपुर माविवेश ह ॥२-१५-४८॥
Slōka 49 / श्लोक ४९
ततोऽद्रिकूटाचलमेघसन्नि भं ।
महाविमानोपमवेश्मसंयुतम् ।अवार्यमाणः प्रविवेश सारथिः ।प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४९॥