Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 15 / सर्गः १५

Slōka 1 / श्लोक १

स वीक्षमाणः तत्रस्थो मार्गमाणः च मैथिलीम् ।
अवेक्षमाणः च महीम् सर्वाम् ताम् अन्ववैक्षत ॥५-१५-१॥

Slōka 2 / श्लोक २

सन्तान कलताभिः च पादपैर् उपशोभिताम् ।
दिव्य गन्ध रस उपेताम् सर्वतः समलम्कृताम् ॥५-१५-२॥

Slōka 3 / श्लोक ३

ताम् स नन्दन सम्काशाम् मृग पक्षिभिर् आवृताम् ।
हर्म्य प्रासाद सम्बाधाम् कोकिल आकुल निह्स्वनाम् ॥५-१५-३॥

Slōka 4 / श्लोक ४

कान्चन उत्पल पद्माभिः वापीभिः उपशोभिताम् ।
बह्व आसन कुथा उपेताम् बहु भूमि गृह आयुताम् ॥५-१५-४॥

Slōka 5 / श्लोक ५

सर्व ऋतु कुसुमैः रम्यैः फलवद्भिः च पादपैः ।
पुष्पितानाम् अशोकानाम् श्रिया सूर्य उदय प्रभाम् ॥५-१५-५॥

Slōka 6 / श्लोक ६

प्रदीप्ताम् इव तत्रस्थो मारुतिः समुदैक्षत ।
निष्पत्र शाखाम् विहगैः क्रियमाणाम् इव असकृत् ॥५-१५-६॥

Slōka 7 / श्लोक ७

विनिष्पतद्भिः शतशः चित्रैः पुष्प अवतम्सकैः ।
आमूल पुष्प निचितैर् अशोकैः शोक नाशनैः ॥५-१५-७॥

Slōka 8 / श्लोक ८

पुष्प भार अतिभारैः च स्पृशद्भिर् इव मेदिनीम् ।
कर्णिकारैः कुसुमितैः किम्शुकैः च सुपुष्पितैः ॥५-१५-८॥

Slōka 9 / श्लोक ९

स देशः प्रभया तेषाम् प्रदीप्त इव सर्वतः ।
पुम्नागाः सप्त पर्णाः च चम्पक उद्दालकाः तथा ॥५-१५-९॥

Slōka 10 / श्लोक १०

विवृद्ध मूला बहवः शोभन्ते स्म सुपुष्पिताः ।
शात कुम्भ निभाः केचित् केचिद् अग्नि शिख उपमाः ॥५-१५-१०॥

Slōka 11 / श्लोक ११

नील अन्जन निभाः केचित् तत्र अशोकाः सहस्रशः ।
नन्दनम् विविध उद्यानम् चित्रम् चैत्ररथम् यथा ॥५-१५-११॥

Slōka 12 / श्लोक १२

अतिवृत्तम् इव अचिन्त्यम् दिव्यम् रम्यम् श्रिया वृतम् ।
द्वितीयम् इव च आकाशम् पुष्प ज्योतिर् गण आयुतम् ॥५-१५-१२॥

Slōka 13 / श्लोक १३

पुष्प रत्न शतैः चित्रम् पन्चमम् सागरम् यथा ।
सर्व ऋतु पुष्पैर् निचितम् पादपैर् मधु गन्धिभिः  ॥५-१५-१३॥

Slōka 14 / श्लोक १४

नाना निनादैः उद्यानम् रम्यम् मृग गणैर् द्विजैः ।
अनेक गन्ध प्रवहम् पुण्य गन्धम् मनो रमम् ॥५-१५-१४॥

Slōka 15 / श्लोक १५

शैल इन्द्रम् इव गन्ध आढ्यम् द्वितीयम् गन्ध मादनम् ।
अशोक वनिकायाम् तु तस्याम् वानर पुम्गवः ॥५-१५-१५॥

Slōka 16 / श्लोक १६

स ददर्श अविदूरस्थम् चैत्य प्रासादम् ऊर्जितम् ।
मध्ये स्तम्भ सहस्रेण स्थितम् कैलास पाण्डुरम् ॥५-१५-१६॥

Slōka 17 / श्लोक १७

प्रवाल कृत सोपानम् तप्त कान्चन वेदिकम् ।
मुष्णन्तम् इव चक्षूम्षि द्योतमानम् इव श्रिया ॥५-१५-१७॥

Slōka 18 / श्लोक १८

विमलम् प्राम्शु भावत्वाद् उल्लिखन्तम् इव अम्बरम् ।
ततो मलिन सम्वीताम् राक्षसीभिः समावृताम्  ॥५-१५-१८॥

Slōka 19 / श्लोक १९

उपवास कृशाम् दीनाम् निह्श्वसन्तीम् पुनः पुनः ।
ददर्श शुक्ल पक्ष आदौ चन्द्र रेखाम् इव अमलाम् ॥५-१५-१९॥

Slōka 20 / श्लोक २०

मन्द प्रख्यायमानेन रूपेण रुचिर प्रभाम् ।
पिनद्धाम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-२०॥

Slōka 21 / श्लोक २१

पीतेन एकेन सम्वीताम् क्लिष्टेन उत्तम वाससा ।
सपन्काम् अनलम्काराम् विपद्माम् इव पद्मिनीम् ॥५-१५-२१॥

Slōka 22 / श्लोक २२

व्रीडिताम् दुह्ख सम्तप्ताम् परिम्लानाम् तपस्विनीम् ।
ग्रहेण अन्गारकेण एव पीडिताम् इव रोहिणीम् ॥५-१५-२२॥

Slōka 23 / श्लोक २३

अश्रु पूर्ण मुखीम् दीनाम् कृशाम् अननशेन च ।
शोक ध्यान पराम् दीनाम् नित्यम् दुह्ख परायणाम् ॥५-१५-२३॥

Slōka 24 / श्लोक २४

प्रियम् जनम् अपश्यन्तीम् पश्यन्तीम् राक्षसी गणम् ।
स्व गणेन मृगीम् हीनाम् श्व गण अभिवृताम् इव ॥५-१५-२४॥

Slōka 25 / श्लोक २५

नील नाग आभया वेण्या जघनम् गतया एकया ।
नीलया नीरदापाये वनराज्या महीमिव ॥५-१५-२५॥

Slōka 26 / श्लोक २६

सुख अर्हाम् दुह्ख सम्तप्ताम् व्यसनानाम् अकोदिवाम् ।
ताम् समीक्ष्य विशाल अक्षीम् अधिकम् मलिनाम् कृशाम् ॥५-१५-२६॥

Slōka 27 / श्लोक २७

तर्कयाम् आस सीता इति कारणैः उपपादिभिः ।
ह्रियमाणा तदा तेन रक्षसा काम रूपिणा ॥५-१५-२७॥

Slōka 28 / श्लोक २८

यथा रूपा हि दृष्टा वै तथा रूपा इयम् अन्गना ।
पूर्ण चन्द्र आननाम् सुभ्रूम् चारु वृत्त पयो धराम् ॥५-१५-२८॥

Slōka 29 / श्लोक २९

कुर्वन्तीम् प्रभया देवीम् सर्वा वितिमिरा दिशः ।
ताम् नील केशीम् बिम्ब ओष्ठीम् सुमध्याम् सुप्रतिष्ठिताम् ॥५-१५-२९॥

Slōka 30 / श्लोक ३०

सीताम् पद्म पलाश अक्षीम् मन्मथस्य रतिम् यथा ।
इष्टाम् सर्वस्य जगतः पूर्ण चन्द्र प्रभाम् इव ॥५-१५-३०॥

Slōka 31 / श्लोक ३१

भूमौ सुतनुम् आसीनाम् नियताम् इव तापसीम् ।
निःश्वास बहुलाम् भीरुम् भुजग इन्द्र वधूम् इव ॥५-१५-३१॥

Slōka 32 / श्लोक ३२

शोक जालेन महता विततेन न राजतीम् ।
सम्सक्ताम् धूम जालेन शिखाम् इव विभावसोः ॥५-१५-३२॥

Slōka 33 / श्लोक ३३

ताम् स्मृतीम् इव सम्दिघ्दाम् ऋद्धिम् निपतिताम् इव ।
विहताम् इव च श्रद्धाम् आशाम् प्रतिहताम् इव ॥५-१५-३३॥

Slōka 34 / श्लोक ३४

स उपसर्गाम् यथा सिद्धिम् बुद्धिम् सकलुषाम् इव ।
अभूतेन अपवादेन कीर्तिम् निपतिताम् इव ॥५-१५-३४॥

Slōka 35 / श्लोक ३५

राम उपरोध व्यथिताम् रक्षो हरण कर्शिताम् ।
अबलाम् मृग शाव अक्षीम् वीक्षमाणाम् ततः ततः ॥५-१५-३५॥

Slōka 36 / श्लोक ३६

बाष्प अम्बु प्रतिपूर्णेन कृष्ण वक्त्र अक्षि पक्ष्मणा ।
वदनेन अप्रसन्नेन निह्श्वसन्तीम् पुनः पुनः ॥५-१५-३६॥

Slōka 37 / श्लोक ३७

मल पन्क धराम् दीनाम् मण्डन अर्हाम् अमण्डिताम् ।
प्रभाम् नक्षत्र राजस्य काल मेघैः इव आवृताम् ॥५-१५-३७॥

Slōka 38 / श्लोक ३८

तस्य सम्दिदिहे बुद्धिः मुहुः सीताम् निरीक्ष्य तु ।
आम्नायानाम् अयोगेन विद्याम् प्रशिथिलाम् इव ॥५-१५-३८॥

Slōka 39 / श्लोक ३९

दुह्खेन बुबुधे सीताम् हनुमान् अनलम्कृताम् ।
सम्स्कारेण यथा हीनाम् वाचम् अर्थ अन्तरम् गताम् ॥५-१५-३९॥

Slōka 40 / श्लोक ४०

ताम् समीक्ष्य विशाल अक्षीम् राज पुत्रीम् अनिन्दिताम् ।
तर्कयाम् आस सीता इति कारणैः उपपादयन् ॥५-१५-४०॥

Slōka 41 / श्लोक ४१

वैदेह्या यानि च अन्गेषु तदा रामो अन्वकीर्तयत् ।
तानि आभरण जालानि गात्र शोभीनि अलक्षयत् ॥५-१५-४१॥

Slōka 42 / श्लोक ४२

सुकृतौ कर्ण वेष्टौ च श्व दम्ष्ट्रौ च सुसम्स्थितौ ।
मणि विद्रुम चित्राणि हस्तेष्व् आभरणानि च ॥५-१५-४२॥

Slōka 43 / श्लोक ४३

श्यामानि चिर युक्तत्वात् तथा सम्स्थानवन्ति च ।
तानि एव एतानि मन्ये अहम् यानि रामो अन्वकीर्तयत् ॥५-१५-४३॥

Slōka 44 / श्लोक ४४

तत्र यानि अवहीनानि तानि अहम् न उपलक्षये ।
यानि अस्या न अवहीनानि तानि इमानि न सम्शयः ॥५-१५-४४॥

Slōka 45 / श्लोक ४५

पीतम् कनक पट्ट आभम् स्रस्तम् तद् वसनम् शुभम् ।
उत्तरीयम् नग आसक्तम् तदा दृष्टम् प्लवम् गमैः ॥५-१५-४५॥

Slōka 46 / श्लोक ४६

भूषणानि च मुख्यानि दृष्टानि धरणी तले ।
अनया एव अपविद्धानि स्वनवन्ति महान्ति च ॥५-१५-४६॥

Slōka 47 / श्लोक ४७

इदम् चिर गृहीतत्वाद् वसनम् क्लिष्टवत्तरम् ।
तथा हि नूनम् तद् वर्णम् तथा श्रीमद् यथा इतरत् ॥५-१५-४७॥

Slōka 48 / श्लोक ४८

इयम् कनक वर्ण अन्गी रामस्य महिषी प्रिया ।
प्रनष्टा अपि सती यस्य मनसो न प्रणश्यति ॥५-१५-४८॥

Slōka 49 / श्लोक ४९

इयम् सा यत् कृते रामः चतुर्भिः परितप्यते ।
कारुण्येन आनृशम्स्येन शोकेन मदनेन च ॥५-१५-४९॥

Slōka 50 / श्लोक ५०

स्त्री प्रनष्टा इति कारुण्याद् आश्रिता इति आनृशम्स्यतः ।
पत्नी नष्टा इति शोकेन प्रियेति मदनेन च ॥५-१५-५०॥

Slōka 51 / श्लोक ५१

अस्या देव्या यथा रूपम् अन्ग प्रत्यन्ग सौष्ठवम् ।
रामस्य च यथा रूपम् तस्य इयम् असित ईक्षणा ॥५-१५-५१॥

Slōka 52 / श्लोक ५२

अस्या देव्या मनः तस्मिमः तस्य च अस्याम् प्रतिष्ठितम् ।
तेन इयम् स च धर्म आत्मा मुहूर्तम् अपि जीवति ॥५-१५-५२॥

Slōka 53 / श्लोक ५३

दुष्करम् कुरुते रामो इमाम् मत्त काशिनीम् ।
सीताम् विना महा बाहुः मुहूर्तम् अपि जीवति ॥५-१५-५३॥

Slōka 54 / श्लोक ५४

एवम् सीताम् तदा दृष्ट्वा हृष्टः पवन सम्भवः ।
जगाम मनसा रामम् प्रशशम्स च तम् प्रभुम् ॥५-१५-५४॥