युद्धकाण्डम्
Chapter 18 / सर्गः १८
Slōka 1 / श्लोक १
राघवेन अभये दत्ते सम्नतो रावण अनुजः ।
विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥।।
Slōka 2 / श्लोक २
खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।
स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥।।
Slōka 3 / श्लोक ३
पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।
अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥।।
Slōka 4 / श्लोक ४
धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।
अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥।।
Slōka 5 / श्लोक ५
भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।
परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥।।
Slōka 6 / श्लोक ६
भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।
तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥।।
Slōka 7 / श्लोक ७
वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।
आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥।।
Slōka 8 / श्लोक ८
एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥।।
Slōka 9 / श्लोक ९
अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।
राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥।।
Slōka 10 / श्लोक १०
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥।।
Slōka 11 / श्लोक ११
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥।।
Slōka 12 / श्लोक १२
बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥।।
Slōka 13 / श्लोक १३
सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥।।
Slōka 14 / श्लोक १४
महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।
अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥।।
Slōka 15 / श्लोक १५
दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।
माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥।।
Slōka 16 / श्लोक १६
स तैस्तु सहितो राजा लोकपालानयोधयत् ।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥।।
Slōka 17 / श्लोक १७
विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।
अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥।।
Slōka 18 / श्लोक १८
यानि कर्मापदानानि रावणस्य विभीषण ।
अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥।।
Slōka 19 / श्लोक १९
अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।
राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥।।
Slōka 20 / श्लोक २०
रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।
पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥।।
Slōka 21 / श्लोक २१
अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।
अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥।।
Slōka 22 / श्लोक २२
श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।
शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥।।
Slōka 23 / श्लोक २३
राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।
करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥।।
Slōka 24 / श्लोक २४
इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।
अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥।।
Slōka 25 / श्लोक २५
तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।
राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥।।
Slōka 26 / श्लोक २६
एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।
मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥।।
Slōka 27 / श्लोक २७
तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।
प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥।।
Slōka 28 / श्लोक २८
अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।
कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥।।
Slōka 29 / श्लोक २९
सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।
उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥।।
Slōka 30 / श्लोक ३०
तराम तरसा सर्वे ससैन्या वरुण आलयम् ।
एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥।।
Slōka 31 / श्लोक ३१
समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।
खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥।।
Slōka 32 / श्लोक ३२
कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥।।
Slōka 33 / श्लोक ३३
आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥।।
Slōka 34 / श्लोक ३४
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।
प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥।।
Slōka 35 / श्लोक ३५
स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।
सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥।।
Slōka 36 / श्लोक ३६
विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।
सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥।।
Slōka 37 / श्लोक ३७
उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।
एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥।।
Slōka 38 / श्लोक ३८
समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।
किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥।।
Slōka 39 / श्लोक ३९
विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।
अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥।।
Slōka 40 / श्लोक ४०
लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।
विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥।।
Slōka 41 / श्लोक ४१
अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।
यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥।।
Slōka 42 / श्लोक ४२
एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।
सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥