उत्तरकाण्डम्डम्
Chapter 7 / सर्गः ७
Slōka 1 / श्लोक १
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। ७.७.१ ॥
Slōka 2 / श्लोक २
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः ।
वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ।। ७.७.२ ॥
Slōka 3 / श्लोक ३
शलभा इव केदारं मशका इव पर्वतम् ।
यथामृतघटं दंशा मकरा इव चार्णवम् ।। ७.७.३ ॥
Slōka 4 / श्लोक ४
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।
हरिं विशन्ति स्म शरा लोका इव विपर्यये ।। ७.७.४ ॥
Slōka 5 / श्लोक ५
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः ।
अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ।। ७.७.५ ॥
Slōka 6 / श्लोक ६
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।
निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ।। ७.७.६ ॥
Slōka 7 / श्लोक ७
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः ।
शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ।। ७.७.७ ॥
Slōka 8 / श्लोक ८
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ।
चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ।। ७.७.८ ॥
Slōka 9 / श्लोक ९
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् ।
पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ।। ७.७.९ ॥
Slōka 10 / श्लोक १०
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।
ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ।। ७.७.१० ॥
Slōka 11 / श्लोक ११
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् ।
मृगराज इवारण्ये समदानिव कुञ्जरान् ।। ७.७.११ ॥
Slōka 12 / श्लोक १२
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।
स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ।। ७.७.१२ ॥
Slōka 13 / श्लोक १३
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ।। ७.७.१३ ॥
Slōka 14 / श्लोक १४
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः ।
निपेतू राक्षसा भूमौ शैला वज्रहता इव ।। ७.७.१४ ॥
Slōka 15 / श्लोक १५
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।
असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। ७.७.१५ ॥
Slōka 16 / श्लोक १६
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा ।
राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ।। ७.७.१६ ॥
Slōka 17 / श्लोक १७
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।
रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ।। ७.७.१७ ॥
Slōka 18 / श्लोक १८
सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।
पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ।। ७.७.१८ ॥
Slōka 19 / श्लोक १९
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।
निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ।। ७.७.१९ ॥
Slōka 20 / श्लोक २०
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।
द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ।। ७.७.२० ॥
Slōka 21 / श्लोक २१
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा ।
मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ।। ७.७.२१ ॥
Slōka 22 / श्लोक २२
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।
द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ।। ७.७.२२ ॥
Slōka 23 / श्लोक २३
राक्षसानां सहस्राणि निहत्य मधुसूदनः ।
वारिजं पूरयामास तोयदं सुरराडिव ।। ७.७.२३ ॥
Slōka 24 / श्लोक २४
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।
ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ।। ७.७.२४ ॥
Slōka 25 / श्लोक २५
प्रभग्ने राक्षसबले नारायणशराहते ।
सुमाली शरवर्षेण निववार रणे हरिम् ।। ७.७.२५ ॥
Slōka 26 / श्लोक २६
स तु तं छादयामास नीहार इव भास्करम् ।
राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ।। ७.७.२६ ॥
Slōka 27 / श्लोक २७
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः ।
महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ।। ७.७.२७ ॥
Slōka 28 / श्लोक २८
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।
ररास राक्षसो हर्षात्सतडित्तोयदो यथा ।। ७.७.२८ ॥
Slōka 29 / श्लोक २९
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।
चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ।। ७.७.२९ ॥
Slōka 30 / श्लोक ३०
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।
इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ।। ७.७.३० ॥
Slōka 31 / श्लोक ३१
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे ।
हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।। ७.७.३१ ॥
Slōka 32 / श्लोक ३२
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ।
मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ।। ७.७.३२ ॥
Slōka 33 / श्लोक ३३
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः ।
चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ।। ७.७.३३ ॥
Slōka 34 / श्लोक ३४
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः ।
मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ।। ७.७.३४ ॥
Slōka 35 / श्लोक ३५
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।
पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ।। ७.७.३५ ॥
Slōka 36 / श्लोक ३६
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।
मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। ७.७.३६ ॥
Slōka 37 / श्लोक ३७
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः ।
आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ।। ७.७.३७ ॥
Slōka 38 / श्लोक ३८
गदया गरुडेशानमीशानमिव चान्तकः ।
ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ।। ७.७.३८ ॥
Slōka 39 / श्लोक ३९
गदयाभिहतस्तेन मालिना गरुडो भृशम् ।
रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ।। ७.७.३९ ॥
Slōka 40 / श्लोक ४०
पराङ्मुखे कृते देवे मालिना गरुडेन वै ।
उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ।। ७.७.४० ॥
Slōka 41 / श्लोक ४१
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।
। ७.७.४१ ॥
Slōka 42 / श्लोक ४२
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः ।
पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ।। ७.७.४२ ॥
Slōka 43 / श्लोक ४३
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।
कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ।। ७.७.४३ ॥
Slōka 44 / श्लोक ४४
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् ।
पपात रुधिरोद्गारि पुरा राहुशिरो यथा ।। ७.७.४४ ॥
Slōka 45 / श्लोक ४५
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः ।
सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ।। ७.७.४५ ॥
Slōka 46 / श्लोक ४६
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।
सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ।। ७.७.४६ ॥
Slōka 47 / श्लोक ४७
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा ।
राक्षसान्द्रावयामास पक्षवातेन कोपितः ।। ७.७.४७ ॥
Slōka 48 / श्लोक ४८
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः ।
लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ।। ७.७.४८ ॥
Slōka 49 / श्लोक ४९
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः ।
निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ।। ७.७.४९ ॥
Slōka 50 / श्लोक ५०
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ।
नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ।। ७.७.५० ॥
Slōka 51 / श्लोक ५१
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।
विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ।। ७.७.५१ ॥
Slōka 52 / श्लोक ५२
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।
रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ।। ७.७.५२ ॥
Slōka 53 / श्लोक ५३
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।
धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ।। ७.७.५३ ॥
Slōka 54 / श्लोक ५४
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः ।
अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ।। ७.७.५४ ॥
Slōka 55 / श्लोक ५५
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।
निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ।। ७.७.५५ ।।