Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 71 / सर्गः ७१

Slōka 1 / श्लोक १

ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् ।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ।। ७.७१.१ ॥

Slōka 2 / श्लोक २

ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च ।
जगाम हयमुख्यैश्च रथानां च शतेन सः ।। ७.७१.२ ॥

Slōka 3 / श्लोक ३

स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः ।
वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ।। ७.७१.३ ॥

Slōka 4 / श्लोक ४

सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः ।
पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ।। ७.७१.४ ॥

Slōka 5 / श्लोक ५

बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः ।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ।। ७.७१.५ ॥

Slōka 6 / श्लोक ६

उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् ।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ।। ७.७१.६ ॥

Slōka 7 / श्लोक ७

बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ।
लवणेन महाबाहो युध्यमाना महाबलाः ।। ७.७१.७ ॥

Slōka 8 / श्लोक ८

स त्वया निहतः पापो लीलया पुरुषर्षभ ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा ।। ७.७१.८ ॥

Slōka 9 / श्लोक ९

रावणस्य वधो घोरो यत्नेन महता कृतः ।
इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ।। ७.७१.९ ॥

Slōka 10 / श्लोक १०

प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते ।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ।। ७.७१.१० ॥

Slōka 11 / श्लोक ११

तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ ।
सभायां वासवस्याथ उपविष्टेन राघव ।। ७.७१.११ ॥

Slōka 12 / श्लोक १२

ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते ।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ।। ७.७१.१२ ॥

Slōka 13 / श्लोक १३

इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः ।
आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ।। ७.७१.१३ ॥

Slōka 14 / श्लोक १४

स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् ।
शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ।। ७.७१.१४ ॥

Slōka 15 / श्लोक १५

तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् ।
संस्कृतं लक्षणोपेतं समतालसमन्वितम् ।शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ।। ७.७१.१५ ॥

Slōka 16 / श्लोक १६

तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः ।
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ।। ७.७१.१६ ॥

Slōka 17 / श्लोक १७

स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः ।
तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ।। ७.७१.१७ ॥

Slōka 18 / श्लोक १८

पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् ।
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ।। ७.७१.१८ ॥

Slōka 19 / श्लोक १९

परस्परं च ये तत्र सैनिकाः सम्बभाषिरे ।
किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ।। ७.७१.१९ ॥

Slōka 20 / श्लोक २०

अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः ।
शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ।। ७.७१.२० ॥

Slōka 21 / श्लोक २१

विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् ।
साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ।। ७.७१.२१ ॥

Slōka 22 / श्लोक २२

शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् ।
सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ।। ७.७१.२२ ॥

Slōka 23 / श्लोक २३

आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः ।
न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ।। ७.७१.२३ ॥

Slōka 24 / श्लोक २४

एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः ।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ।। ७.७१.२४ ।।