किष्किन्धाकाण्डम्डम्
Chapter 28 / सर्गः २८
Slōka 1 / श्लोक १
Slōka 1
स तदा वालिनम् हत्वा सुग्रीवम् अभिषिच्य च ।
वसन् माल्यवतः पृष्टे रामो लक्ष्मणम् अब्रवीत् ॥४-२८-१॥
Slōka 2 / श्लोक २
Slōka 2
अयम् स कालः संप्राप्तः समयो अद्य जल आगमः ।
संपश्य त्वम् नभो मेघैः संवृतम् गिरि संनिभैः ॥४-२८-२॥
Slōka 3 / श्लोक ३
Slōka 3
नव मास धृतम् गर्भम् भास्करस्य गभस्तिभिः ।
पीत्वा रसम् समुद्राणाम् द्यौः प्रसूते रसायनम् ॥४-२८-३॥
Slōka 4 / श्लोक ४
Slōka 4
शक्यम् अंबरम् आरुह्य मेघ सोपान पंक्तिभिः ।
कुटज अर्जुन मालाभिः अलंकर्तुम् दिवाकरम् ॥४-२८-४॥
Slōka 5 / श्लोक ५
Slōka 5
संध्या राग उत्थितैः ताम्रैः अंतेषु अधिक पाण्डुरैः ।
स्निग्धैः अभ्र पट च्छेदैः बद्ध व्रणम् इव अंबरम् ॥४-२८-५॥
Slōka 6 / श्लोक ६
Slōka 6
मन्द मारुत निःश्वासम् संध्या चंदन रंजितम् ।
आपाण्डु जलदम् भाति काम आतुरम् इव अंबरम् ॥४-२८-६॥
Slōka 7 / श्लोक ७
Slōka 7
एषा घर्म परिक्लिष्टा नव वारि परिप्लुता ।
सीता इव शोक संतप्ता मही बाष्पम् विमुंचति ॥४-२८-७॥
Slōka 8 / श्लोक ८
Slōka 8
मेघ उदर विनिर्मुक्ताः कर्पूर दल शीतलाः ।
शक्यम् अंजलिभिः पातुम् वाताः केतकि गन्धिनः ॥४-२८-८॥
Slōka 9 / श्लोक ९
Slōka 9
एष फुल्ल अर्जुनः शैलः केतकैः अधिवासितः ।
सुग्रीव इव शान्त अरिः धाराभिः अभिषिच्यते ॥४-२८-९॥
Slōka 10 / श्लोक १०
Slōka 10
मेघ कृष्ण अजिन धरा धारा यज्ञ उपवीतिनः ।
मारुत आपूरित गुहाः प्राधीता इव पर्वताः ॥४-२८-१०॥
Slōka 11 / श्लोक ११
Slōka 11
कशाभिः इव हैमीभिः विद्युद्भिः इव ताडितम् ।
अन्तः स्तनित निर्घोषम् सवेदनम् इव अंबरम् ॥४-२८-११॥
Slōka 12 / श्लोक १२
Slōka 12
नील मेघ आश्रिता विद्युत् स्फुरंती प्रतिभाति मे ।
स्फुरंती रावणस्य अंके वैदेही इव तपस्विनी ॥४-२८-१२॥
Slōka 13 / श्लोक १३
Slōka 13
इमाः ता मन्मथवताम् हिताः प्रतिहता दिशः ।
अनुलिप्ता इव घनैः नष्ट ग्रह निशा कराः ॥४-२८-१३॥
Slōka 14 / श्लोक १४
Slōka 14
क्वचित् बाष्प अभिसंरुद्धान् वर्ष आगम समुत्सुकान् ।
कुटजान् पश्य सौमित्रे पुष्टितान् गिरि सानुषु ।मम शोक अभिभूतस्य काम सम्दीपनान् स्थितान् ॥४-२८-१४॥
Slōka 15 / श्लोक १५
Slōka 15
रजः प्रशांतम् स हिमो अद्य वायुःनिदाघ दोष प्रसराः प्रशांताः ।
स्थिता हि यात्रा वसुधा अधिपानाम्प्रवासिनो यांति नराः स्व देशान् ॥४-२८-१५॥
Slōka 16 / श्लोक १६
Slōka 16
संप्रस्थिता मानस वास लुब्धाःप्रिय अन्विताः संप्रति चक्रवाकः ।
अभीक्ष्ण वर्ष उदक विक्षतेषुयानानि मार्गेषु न संपतन्ति ॥४-२८-१६॥
Slōka 17 / श्लोक १७
Slōka 17
क्वचित् प्रकाशम् क्वचिद् अप्रकाशम्नभः प्रकीर्णा अंबु धरम् विभाति ।
क्वचित् क्वचित् पर्वत संनिरुद्धम्रूपम् यथा शान्त महार्णवस्य ॥४-२८-१७॥
Slōka 18 / श्लोक १८
Slōka 18
व्यामिश्रितम् सर्ज कदंब पुष्पैःनवम् जलम् पर्वत धातु ताम्रम् ।
मयूर केकाभिः अनुप्रयातम्शैल अपगाः शीघ्रतरम् वहन्ति ॥४-२८-१८॥
Slōka 19 / श्लोक १९
Slōka 19
रस आकुलम् षट्पद संनिकाशम्प्रभुज्यते जंबु फलम् प्रकामम् ।
अनेक वर्णम् पवन अवधूतम्भूमौ पतति आम्र फलम् विपक्वम् ॥४-२८-१९॥
Slōka 20 / श्लोक २०
Slōka 20
विद्युत् पताकाः स बलाक मालाःशैलेन्द्र कूट आकृति संनिकाशाः ।
गर्जन्ति मेघाः समुदीर्ण नादामत्त गजेन्द्रा इव संयुगस्थाः ॥४-२८-२०॥
Slōka 21 / श्लोक २१
Slōka 21
वर्ष उदक आअप्यायित शाद्वलानिप्रवृत्त नृत्त उत्सव बर्हिणानि ।
वनानि निर्वृष्ट बलाहकानिपश्य अपराह्णेषु अधिकम् विभान्ति ॥४-२८-२१॥
Slōka 22 / श्लोक २२
Slōka 22
सम् उद् वहन्तः सलिल अति भारम्बलाकिनो वारि धरा नदन्तः ।
महत्सु शृंगेषु मही धराणाम्विश्रम्य विश्रम्य पुनः प्रयान्ति ॥४-२८-२२॥
Slōka 23 / श्लोक २३
Slōka 23
मेघ अभिकामा परिसंपतन्तीसम्मोदिता भाति बलाक पंक्तिः ।
वात अवधूता वर पौण्डरीकीलंब इव माला रुचिर अंबरस्य ॥४-२८-२३॥
Slōka 24 / श्लोक २४
Slōka 24
बाल इन्द्रगोप्ता अंतर चित्रितेनविभाति भूमिः नव शाद्वलेन ।
गात्र अनुपृक्तेन शुक प्रभेणनारी इव लाक्ष उक्षित कंबलेन ॥४-२८-२४॥
Slōka 25 / श्लोक २५
Slōka 25
निद्रा शनैः केशवम् अभ्युपैतिद्रुतम् नदी सागरम् अभ्युपैति ।
हृष्टा बलाका घनम् अभ्युपैतिकान्ता स कामा प्रियम् अभ्युपैति ॥४-२८-२५॥
Slōka 26 / श्लोक २६
Slōka 26
जाता वनान्ताः शिखि सुप्रनृत्ताजाताः कदंबाः स कदंब शाखाः ।
जाता वृषा गोषु समान कामाजाता मही सस्य वन अभिरामा ॥४-२८-२६॥
Slōka 27 / श्लोक २७
Slōka 27
वहन्ति वर्षन्ति नदन्ति भान्तिध्यायन्ति नृत्यन्ति समाश्वसन्ति ।
नद्यो घना मत्त गजा वन अन्ताःप्रिया विहीनाः शिखिनः प्लवंगाः ॥४-२८-२७॥
Slōka 28 / श्लोक २८
Slōka 28
प्रहर्षिताः केतक पुष्प गन्धम्आघ्राय मत्ता वन निर्झरेषु ।
प्रपात शब्द आकुलिता गजेन्द्राःसार्धम् मयूरैः स मदा नदन्ति ॥४-२८-२८॥
Slōka 29 / श्लोक २९
Slōka 29
धारा निपातैः अभिहन्यमानाःकदंब शाखासु विलंबमानाः ।
क्षण अर्जितम् पुष्प रस अवगाढम्शनैर् मदम् षट् चरणाः त्यजन्ति ॥४-२८-२९॥
Slōka 30 / श्लोक ३०
Slōka 30
अंगार चूर्ण उत्कर संनिकाशैःफलैः सुपर्याप्त रसैः समृद्धैः ।
जंबू द्रुमाणाम् प्रविभान्ति शाखानिपीयमाना इव षट्पद ओघैः ॥४-२८-३०॥
Slōka 31 / श्लोक ३१
Slōka 31
तडित् पताकाभिः अलंकृतानाम्उदीर्ण गंभीर महा रवाणाम् ।
विभान्ति रूपाणि बलाहकानाम्रण उत्सुकानाम् इव वारणानाम् ॥४-२८-३१॥
Slōka 32 / श्लोक ३२
Slōka 32
मार्ग अनुगः शैल वन अनुसारीसंप्रस्थितो मेघ रवम् निशम्य ।
युद्ध अभिकामः प्रतिनाद शन्कीमत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥४-२८-३२॥
Slōka 33 / श्लोक ३३
Slōka 33
क्वचित् प्रगीता इव षट्पद ओघैःक्वचित् प्रवृत्ता इव नील कण्ठैः ।
क्वचित् प्रमत्ता इव वारण इन्द्रैःविभाति अनेक आश्रयिणो वनान्ता ॥४-२८-३३॥
Slōka 34 / श्लोक ३४
Slōka 34
कदंब सर्जा अर्जुन कंदल आढ्यावनान्त भूमि मधु वारि पूर्णा ।
मयूर मत्ता अभिरुत प्रवृत्तैःअपान भूमि प्रतिमा विभाति ॥४-२८-३४॥
Slōka 35 / श्लोक ३५
Slōka 35
मुक्ता समाभम् सलिलम् पतत् वैसुनिर्मलम् पत्र पुटेषु लग्नम् ।
हृष्टा विवर्ण च्छदना विहंगाःसुरेन्द्र दत्तम् तृषिताः पिबन्ति ॥४-२८-३५॥
Slōka 36 / श्लोक ३६
Slōka 36
षत्पद तंत्री मधुर अभिधानम्प्लवंगम् उदीरित कण्ठ तालम् ।
आविष्कृतम् मेघ मृदंग नादैःवनेषु संगीतम् इव प्रवृत्तम् ॥४-२८-३६॥
Slōka 37 / श्लोक ३७
Slōka 37
क्वचित् प्रनृत्तैः क्वचित् उन् नदद्भिःक्वचित् च वृक्ष अग्र निषण्ण कायैः ।
व्यालंब बर्ह आभरणैः मयूरैःवनेषु संगितम् इव प्रवृत्तम् ॥४-२८-३७॥
Slōka 38 / श्लोक ३८
Slōka 38
स्वनैः घनानाम् प्लवगाः प्रबुद्धाविहाय निद्राम् चिर संनिरुद्धाम् ।
अनेक रूपा आकृति वर्ण नादानव अंबु धारा अभिहता नदन्ति ॥४-२८-३८॥
Slōka 39 / श्लोक ३९
Slōka 39
नद्यः समुद्वाहित चक्रवाकातटानि शीर्णानि अपवाहयित्वा ।
दृप्ता नव प्राभृत पूर्ण भोगाद्रुतम् स्व भर्तारम् उपोप यान्ति ॥४-२८-३९॥
Slōka 40 / श्लोक ४०
Slōka 40
नीलेषु नीला नव वारि पूर्णामेघेषु मेघाः प्रविभान्ति सक्ताः ।
दवाग्नि दग्धेषु दवाग्नि दग्धाःशैलेषु शैला इव बद्ध मूलाः ॥४-२८-४०॥
Slōka 41 / श्लोक ४१
Slōka 41
प्रमत्त संनाददित बर्हिणानिस शक्रगोप अकुल शाद्वलानि ।
चरन्ति नीप अर्जुन वासितानिगजाः सुरम्याणि वन अन्तराणि ॥४-२८-४१॥
Slōka 42 / श्लोक ४२
Slōka 42
नव अंबु धार आहत केसराणिद्रुतम् परित्यज्य सरोरुहाणि ।
कदंब पुष्पाणि स केसराणिनवानि हृष्टा भ्रमराः पिबन्ति ॥४-२८-४२॥
Slōka 43 / श्लोक ४३
Slōka 43
मत्ता गजेन्द्रा मुदिता गवेन्द्रावनेषु विक्रांततरा मृगेन्द्राः ।
रम्या नगेन्द्रा निभृता नरेन्द्राःप्रक्रीडितो वारि धरैः सुरेन्द्रः ॥४-२८-४३॥
Slōka 44 / श्लोक ४४
Slōka 44
मेघाः समुद् भूत समुद्र नादामहाजल ओघैः गगन अवलंबाः ।
नदीः तटाकानि सरांसि वापिःमहीम् च कृत्स्नाम् अपवाहयन्ति ॥४-२८-४४॥
Slōka 45 / श्लोक ४५
Slōka 45
वर्ष प्रवेगा विपुला पतन्तिप्रवान्ति वाताः समुदीर्ण वेगाः ।
प्रनष्ट कूलाः प्रवहन्ति शीघ्रम्नद्यो जलम् विप्रतिपन्न मार्गाः ॥४-२८-४५॥
Slōka 46 / श्लोक ४६
Slōka 46
नरैः नरेन्द्रा इव पर्वतेन्द्राःसुरेन्द्र नीतैः पवन उपनीतैः ।
घन अंबु कुम्भैः अभिषिच्यमानारूपम् श्रियम् स्वाम् इव दर्शयन्ति ॥४-२८-४६॥
Slōka 47 / श्लोक ४७
Slōka 47
घन उपगूढम् गगनम् न तारान भास्करो दर्शनम् अभ्युपैति ।
नवैः जल ओघैः धरणी वितृप्तातमो विलिप्ता न दिशः प्रकाशाः ॥४-२८-४७॥
Slōka 48 / श्लोक ४८
Slōka 48
महान्ति कूटानि मही धराणाम्धारा विधौतानि अधिकम् विभान्ति ।
महा प्रमाणैः विपुलैः प्रपातैःमुक्त कलापैः इव लंबमानैः ॥४-२८-४८॥
Slōka 49 / श्लोक ४९
Slōka 49
शैलोपल प्रस्खलमान वेगाःशैलोत्तमानाम् विपुलाः प्रपाताः ।
गुहासु संनादित बर्हिणासुहारा विकीर्यन्त इव अवभान्ति ॥४-२८-४९॥
Slōka 50 / श्लोक ५०
Slōka 50
शीघ्र प्रवेगा विपुलाः प्रपातानिर्धौत शृंग उपतला गिरीणाम् ।
मुक्ता कलाप प्रतिमाः पतन्तोमहा गुह उस्त्संग तलैः ध्रियन्ते ॥४-२८-५०॥
Slōka 51 / श्लोक ५१
Slōka 51
सुरताम् अर्द विच्छिन्नाः स्वर्ग स्त्री हार मौक्तिकाः ।
पतन्ति च अतुलाः दिक्षु तोय धाराः समन्ततः ॥४-२८-५१॥
Slōka 52 / श्लोक ५२
Slōka 52
विलीयमानैः विहगैः निमीलद्भिः च पंकजैः ।
विकसन्त्या च मालत्या गतो अस्तम् ज्ञायते रविः ॥४-२८-५२॥
Slōka 53 / श्लोक ५३
Slōka 53
वृत्ता यात्रा नरेन्द्राणाम् सेना पथि एव वर्तते ।
वैराणि चैव मार्गाः च सलिलेन समीकृताः ॥४-२८-५३॥
Slōka 54 / श्लोक ५४
Slōka 54
मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानाम् विवक्षताम् ।
अयम् अध्याय समयः सामगानाम् उपस्थितः ॥४-२८-५४॥
Slōka 55 / श्लोक ५५
Slōka 55
निवृत्त कर्म आयतनो नूनम् संचित संचयः ।
आषाढीम् अभ्युपगतो भरतः कोसल अधिपः ॥४-२८-५५॥
Slōka 56 / श्लोक ५६
Slōka 56
नूनम् आपूर्यमाणायाः सरय्वा वधते रयः ।
माम् समीक्ष्य समायान्तम् अयोध्याया इव स्वनः ॥४-२८-५६॥
Slōka 57 / श्लोक ५७
Slōka 57
इमाः स्फीत गुणा वर्षाः सुग्रीवः सुखम् अश्नुते ।
विजित अरिः स दारः च राज्ये महति च स्थितः ॥४-२८-५७॥
Slōka 58 / श्लोक ५८
Slōka 58
अहम् तु हृत दारः च राज्यात् च महतः च्युतः ।
नदी कूलम् इव क्लिन्नम् अवसीदामि लक्ष्मण ॥४-२८-५८॥
Slōka 59 / श्लोक ५९
Slōka 59
शोकः च मम विस्तीर्णो वर्षाः च भृश दुर्गमाः ।
रावणः च महान् शत्रुः अपारम् प्रतिभाति मे ॥४-२८-५९॥
Slōka 60 / श्लोक ६०
Slōka 60
अयात्राम् चैव दृष्ट्वा इमाम् मार्गाम् च भृश दुर्गमान् ।
प्रणते चैव सुग्रीवे न मया किंचित् ईरितम् ॥४-२८-६०॥
Slōka 61 / श्लोक ६१
Slōka 61
अपि च अति परिक्लिष्टम् चिरात् दारैः समागतम् ।
आत्म कार्य गरीयस्त्वात् वक्तुम् न इच्छामि वानरम् ॥४-२८-६१॥
Slōka 62 / श्लोक ६२
Slōka 62
स्वयम् एव हि विश्रम्य ज्ञात्वा कालम् उपागतम् ।
उपकारम् च सुग्रीवो वेत्स्यते न अत्र संशयः ॥४-२८-६२॥
Slōka 63 / श्लोक ६३
Slōka 63
तस्मात् काल प्रतीक्षो अहम् स्थितो अस्मि शुभ लक्षण ।
सुग्रीवस्य नदीनाम् च प्रसादम् अभिकांक्षयन् ॥४-२८-६३॥
Slōka 64 / श्लोक ६४
Slōka 64
उपकारेण वीरो हि प्रतिकारेण युज्यते ।
अकृतज्ञो अप्रतिकृतो हन्ति सत्त्ववताम् मनः ॥४-२८-६४॥
Slōka 65 / श्लोक ६५
Slōka 65
अथ एवम् उक्तः प्रणिधाय लक्ष्मणःकृत अंजलिः तत् प्रतिपूज्य भाषितम् ।
उवाच रामम् स्वभिराम दर्शनम्प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२८-६५॥
Slōka 66 / श्लोक ६६
Slōka 66
यत् उक्तम् एतत् तव सर्वम् ईप्सितम्नर इन्द्र कर्ता नचिरा हरि ईश्वरः ।
शरत् प्रतीक्षः क्षमताम् इमम् भवान्जल प्रपातम् रिपु निग्रहे धृतः ॥४-२८-६६॥