Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 48 / सर्गः ४८

Slōka 1 / श्लोक १

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।
परं विषादमागम्य वैदेही निपपात ह ।। ७.४८.१ ॥

Slōka 2 / श्लोक २

सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा ।
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। ७.४८.२ ॥

Slōka 3 / श्लोक ३

मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।
धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ।। ७.४८.३ ॥

Slōka 4 / श्लोक ४

किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।
या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ।। ७.४८.४ ॥

Slōka 5 / श्लोक ५

पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी ।
अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। ७.४८.५ ॥

Slōka 6 / श्लोक ६

सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। ७.४८.६ ॥

Slōka 7 / श्लोक ७

किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।
कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। ७.४८.७ ॥

Slōka 8 / श्लोक ८

न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।
त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ।। ७.४८.८ ॥

Slōka 9 / श्लोक ९

यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् ।
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ।। ७.४८.९ ॥

Slōka 10 / श्लोक १०

श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।
शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ।। ७.४८.१० ॥

Slōka 11 / श्लोक ११

शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।
वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ।। ७.४८.११ ॥

Slōka 12 / श्लोक १२

जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।
भक्त्या च परया युक्ता हिता च तव नित्यशः ।। ७.४८.१२ ॥

Slōka 13 / श्लोक १३

अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।
यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।मया च परिहर्तव्यं त्वं हि मे परमा गतिः ।। ७.४८.१३ ॥

Slōka 14 / श्लोक १४

वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः ।
यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।। ७.४८.१४ ॥

Slōka 15 / श्लोक १५

परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ।
। ७.४८.१५ ॥

Slōka 16 / श्लोक १६

यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ।
अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।। ७.४८.१६ ॥

Slōka 17 / श्लोक १७

यथापवादं पौराणां तथैव रघुनन्दन ।
पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।। ७.४८.१७ ॥

Slōka 18 / श्लोक १८

प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ।
इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः ।निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ।। ७.४८.१८ ॥

Slōka 19 / श्लोक १९

एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।
शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ।। ७.४८.१९ ॥

Slōka 20 / श्लोक २०

प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।
ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। ७.४८.२० ॥

Slōka 21 / श्लोक २१

दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे ।
कथमत्र हि पश्यामि रामेण रहितां वने ।। ७.४८.२१ ॥

Slōka 22 / श्लोक २२

इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।
आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ।। ७.४८.२२ ॥

Slōka 23 / श्लोक २३

स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।
सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ।। ७.४८.२३ ॥

Slōka 24 / श्लोक २४

मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।
चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ।। ७.४८.२४ ॥

Slōka 25 / श्लोक २५

दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः ।
निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ।। ७.४८.२५ ॥

Slōka 26 / श्लोक २६

सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।
रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ।। ७.४८.२६ ।।