अरण्यकाण्डम्
Chapter 51 / सर्गः ५१
Slōka 1 / श्लोक १
इति उक्तः क्रोध ताम्राक्षः तप्त कांचन कुण्डलः ।
राक्षसेन्द्रो अभिदुद्राव पतगेन्द्रम् अमर्षणः ॥३-५१-१॥
Slōka 2 / श्लोक २
स संप्रहारः तुमुलः तयोः तस्मिन् महा मृधे ।
बभूव वात उद्धतयोः मेघयोः गगने यथा ॥३-५१-२॥
Slōka 3 / श्लोक ३
तत् बभूव अद्भुतम् युद्धम् गृध्र राक्षसयोः तदा ।
सपक्षयोः माल्यवतोः महा पर्वतयोः इव ॥३-५१-३॥
Slōka 4 / श्लोक ४
ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः ।
अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः ॥३-५१-४॥
Slōka 5 / श्लोक ५
स तानि शर जालानि गृध्रः पत्ररथ ईश्वरः ।
जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे ॥३-५१-५॥
Slōka 6 / श्लोक ६
तस्य तीक्ष्ण नखाभ्याम् तु चरणाभ्याम् महाबलः ।
चकार बहुधा गात्रे व्रणान् पतग सत्तमः ॥३-५१-६॥
Slōka 7 / श्लोक ७
अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् ।
मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया ॥३-५१-७॥
Slōka 8 / श्लोक ८
स तैः बाणैः महावीर्यः पूर्ण मुक्तैः अजिह्म गैः ।
बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः ॥३-५१-८॥
Slōka 9 / श्लोक ९
स राक्षस रथे पश्यन् जानकीम् बाष्प लोचनाम् ।
अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत् ॥३-५१-९॥
Slōka 10 / श्लोक १०
ततो अस्य सशरम् चापम् मुक्ता मणि विभूषितम् ।
चरणाभ्याम् महातेजा बभंज पतगोत्तमः ॥३-५१-१०॥
Slōka 11 / श्लोक ११
ततो अन्यत् धनुः आदाय रावणः क्रोध मूर्च्छितः ।
ववर्ष शर वर्षाणि शतशो अथ सहस्रशः ॥३-५१-११॥
Slōka 12 / श्लोक १२
शरैः आवारितः तस्य संयुगे पतगेश्वरः ।
कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा ॥३-५१-१२॥
Slōka 13 / श्लोक १३
स तानि शर जालानि पक्षाभ्याम् तु विधूय ह ।
चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः ॥३-५१-१३॥
Slōka 14 / श्लोक १४
तत् च अग्नि सदृशम् दीप्तम् रावणस्य शरावरम् ।
पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः ॥३-५१-१४॥
Slōka 15 / श्लोक १५
कांचन उरः छदान् दिव्यान् पिशाच वदनान् खरान् ।
तान् च अस्य जव संपन्नान् जघान समरे बली ॥३-५१-१५॥
Slōka 16 / श्लोक १६
अथ त्रिवेणु संपन्नम् कामगम् पावक अर्चिषम् ।
मणि सोपान चित्र अंगम् बभंज च महारथम् ॥३-५१-१६॥
Slōka 17 / श्लोक १७
पूर्ण चन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह ।
पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥३-५१-१७॥
Slōka 18 / श्लोक १८
सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः ।
पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥३-५१-१८॥
Slōka 19 / श्लोक १९
स भग्न धन्वा विरथो हत अश्वो हत सारथिः ।
अंकेन आदाय वैदेहीम् पपात भुवि रावणः ॥३-५१-१९॥
Slōka 20 / श्लोक २०
दृष्ट्वा निपतितम् भूमौ रावणम् भग्न वाहनम् ।
साधु साधु इति भूतानि गृध्र राजम् अपूजयन् ॥३-५१-२०॥
Slōka 21 / श्लोक २१
परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि यूथपम् ।
उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः ॥३-५१-२१॥
Slōka 22 / श्लोक २२
तम् प्रहृष्टम् निधाय अंके रावणम् जनक आत्मजाम् ।
गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम् ॥३-५१-२२॥
Slōka 23 / श्लोक २३
गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् ।
समावार्यम् महातेजा जटायुः इदम् अब्रवीत् ॥३-५१-२३॥
Slōka 24 / श्लोक २४
वर्ज संस्पर्श बाणस्य भार्याम् रामस्य रावण ।
अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम् ॥३-५१-२४॥
Slōka 25 / श्लोक २५
स मित्र बन्धुः स अमात्यः स बलः स परिच्छदः ।
विष पानम् पिबसि एतत् पिपासित इव उदकम् ॥३-५१-२५॥
Slōka 26 / श्लोक २६
अनुबंधम् अजानंतः कर्मणाम् अविचक्षणाः ।
शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि ॥३-५१-२६॥
Slōka 27 / श्लोक २७
बद्धः त्वम् काल पाशेन क्व गतः तस्य मोक्ष्यसे ।
वधाय बडिशम् गृह्य स अमिषम् जलजो यथा ॥३-५१-२७॥
Slōka 28 / श्लोक २८
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ।
धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ ॥३-५१-२८॥
Slōka 29 / श्लोक २९
यथा त्वया कृतम् कर्म भीरुणा लोक गर्हितम् ।
तस्कर आचरितो मार्गो न एष वीर निषेवितः ॥३-५१-२९॥
Slōka 30 / श्लोक ३०
युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण ।
शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा ॥३-५१-३०॥
Slōka 31 / श्लोक ३१
परेत काले पुरुषो यत् कर्म प्रतिपद्यते ।
विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत् ॥३-५१-३१॥
Slōka 32 / श्लोक ३२
पाप अनुबंधो वै यस्य कर्मणः को नु तत् पुमान् ।
कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि ॥३-५१-३२॥
Slōka 33 / श्लोक ३३
एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः ।
निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान् ॥३-५१-३३॥
Slōka 34 / श्लोक ३४
तम् गृहीत्वा नखैः तीक्ष्णैः विददार समंततः ।
अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम् ॥३-५१-३४॥
Slōka 35 / श्लोक ३५
विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् ।
केशान् च उत्पाटयामास नख पक्ष मुख आयुधः ॥३-५१-३५॥
Slōka 36 / श्लोक ३६
स तथा गृध्र राजेन क्लिश्यमानो मुहुर् मुहुः ।
अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः ॥३-५१-३६॥
Slōka 37 / श्लोक ३७
संपरिष्वज्य वैदेहीम् वामेन अंकेन रावणः ।
तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः ॥३-५१-३७॥
Slōka 38 / श्लोक ३८
जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग अधिपः ।
वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः ॥३-५१-३८॥
Slōka 39 / श्लोक ३९
संच्छिन्न बाहोः सद्यो वै बाहवः सहसा अभवन् ।
विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः ॥३-५१-३९॥
Slōka 40 / श्लोक ४०
ततः क्रोद्धात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् ।
मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत् ॥३-५१-४०॥
Slōka 41 / श्लोक ४१
ततो मुहूर्तम् संग्रामो बभूव अतुल वीर्ययोः ।
राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च ॥३-५१-४१॥
Slōka 42 / श्लोक ४२
तस्य व्यायच्छमानस्य रामस्य अर्थे अथ रावणः ।
पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत् ॥३-५१-४२॥
Slōka 43 / श्लोक ४३
स छिन्न पक्षः सहसा रक्षसा रौद्र कर्मणा ।
निपपात महा गृध्रो धरण्याम् अल्प जीवितः ॥३-५१-४३॥
Slōka 44 / श्लोक ४४
तम् दृष्ट्वा पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।
अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता ॥३-५१-४४॥
Slōka 45 / श्लोक ४५
तम् नील जीमूत निकाश कल्पम्सुपाण्डुर उरस्कम् उदार वीर्यम् ।
ददर्श लंका अधिपतिः पृथिव्याम्जटायुषम् शान्तम् इव अग्नि दावम् ॥३-५१-४५॥
Slōka 46 / श्लोक ४६
ततः तु तम् पत्ररथम् मही तलेनिपातितम् रावण वेग मर्दितम् ।
पुनः च संगृह्य शशि प्रभ आननारुरोद सीता जनक आत्मजा तदा ॥३-५१-४६॥