उत्तरकाण्डम्डम्
Chapter 55 / सर्गः ५५
Slōka 1 / श्लोक १
एष ते नृगशापस्य विस्तरो ऽभिहितो मया ।
यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ।। ७.५५.१ ॥
Slōka 2 / श्लोक २
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ।। ७.५५.२ ॥
Slōka 3 / श्लोक ३
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।
कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ।। ७.५५.३ ॥
Slōka 4 / श्लोक ४
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।
पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ।। ७.५५.४ ॥
Slōka 5 / श्लोक ५
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् ।
निवेशयामास तदा अभ्याशे गौतमस्य तु ।। ७.५५.५ ॥
Slōka 6 / श्लोक ६
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।
निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ।। ७.५५.६ ॥
Slōka 7 / श्लोक ७
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।
यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ।। ७.५५.७ ॥
Slōka 8 / श्लोक ८
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।
वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ।। ७.५५.८ ॥
Slōka 9 / श्लोक ९
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।
अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ।। ७.५५.९ ॥
Slōka 10 / श्लोक १०
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।
वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ।। ७.५५.१० ॥
Slōka 11 / श्लोक ११
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।
वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ।। ७.५५.११ ॥
Slōka 12 / श्लोक १२
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः ।
अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः ।पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ।। ७.५५.१२ ॥
Slōka 13 / श्लोक १३
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः ।
सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ।। ७.५५.१३ ॥
Slōka 14 / श्लोक १४
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।
कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ।। ७.५५.१४ ॥
Slōka 15 / श्लोक १५
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।
तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ।। ७.५५.१५ ॥
Slōka 16 / श्लोक १६
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।
अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ।। ७.५५.१६ ॥
Slōka 17 / श्लोक १७
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।
चेतनेन विनाभूतो देहस्तव भविष्यति ।। ७.५५.१७ ॥
Slōka 18 / श्लोक १८
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।
ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ।। ७.५५.१८ ॥
Slōka 19 / श्लोक १९
अजानतः शयानस्य क्रोधेन कलुषीकृतः ।
मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। ७.५५.१९ ॥
Slōka 20 / श्लोक २०
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।
देहः सुरुचिरप्रख्यो भविष्यति न संशयः ।। ७.५५.२० ॥
Slōka 21 / श्लोक २१
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।
सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ।। ७.५५.२१ ।।