Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 36 / सर्गः ३६

Slōka 1 / श्लोक १

भूय एव महातेजा हनुमान् मारुतात्मजः ।
अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ।। ५.३६.१।।।।

Slōka 2 / श्लोक २

वानरो ऽहं महाभागे दूतो रामस्य धीमतः ।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।। ५.३६.२।।।।

Slōka 3 / श्लोक ३

प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना ।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ।। ५.३६.३।।।।

Slōka 4 / श्लोक ४

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।
भर्तारमिव सम्प्राप्ता जानकी मुदिता ऽभवत् ।। ५.३६.४।।।।

Slōka 5 / श्लोक ५

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।। ५.३६.५।।।।

Slōka 6 / श्लोक ६

ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता ।
परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम् ।। ५.३६.६।।।।

Slōka 7 / श्लोक ७

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम ।
येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम् ।। ५.३६.७।।।।

Slōka 8 / श्लोक ८

शतयोजनविस्तीर्णः सागरो मकरालयः ।
विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः ।। ५.३६.८।।।।

Slōka 9 / श्लोक ९

नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ ।
यस्य ते नास्ति संत्रासो रावणान्नापि सम्भ्रमः ।। ५.३६.९।।।।

Slōka 10 / श्लोक १०

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् ।
यद्यपि प्रेषितस्तेन रामेण विदितात्मना ।। ५.३६.१०।।।।

Slōka 11 / श्लोक ११

प्रेषयिष्यति दुर्धषो रामो न ह्यपरीक्षितम् ।
पराक्रममविज्ञाय मत्सकाशं विशेषतः ।। ५.३६.११।।।।

Slōka 12 / श्लोक १२

दिष्ट्या च कुशली रामो धर्मात्मा सत्यसङ्गरः ।
लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ।। ५.३६.१२।।।।

Slōka 13 / श्लोक १३

कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम् ।
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ।। ५.३६.१३।।।।

Slōka 14 / श्लोक १४

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे ।
ममैव तु न दुःखानामस्ति मन्ये विपर्ययः ।। ५.३६.१४।।।।

Slōka 15 / श्लोक १५

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। ५.३६.१५।।।।

Slōka 16 / श्लोक १६

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति ।
कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः ।। ५.३६.१६।।।।

Slōka 17 / श्लोक १७

द्विविधं त्रिविधोपायमुपायमपि सेवते ।
विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परन्तपः ।। ५.३६.१७।।।।

Slōka 18 / श्लोक १८

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते ।
कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः ।। ५.३६.१८।।।।

Slōka 19 / श्लोक १९

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः ।
कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते ।। ५.३६.१९।।।।

Slōka 20 / श्लोक २०

कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः ।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ।। ५.३६.२०।।।।

Slōka 21 / श्लोक २१

सुखानामुचितो नित्यमसुखानामनूचितः ।
दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। ५.३६.२१।।।।

Slōka 22 / श्लोक २२

कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च ।
अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य च ।। ५.३६.२२।।।।

Slōka 23 / श्लोक २३

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।
कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ।। ५.३६.२३।।।।

Slōka 24 / श्लोक २४

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।
ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। ५.३६.२४।।।।

Slōka 25 / श्लोक २५

वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति ।
मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। ५.३६.२५।।।।

Slōka 26 / श्लोक २६

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।
अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति ।। ५.३६.२६।।।।

Slōka 27 / श्लोक २७

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे ।
द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ।। ५.३६.२७।।।।

Slōka 28 / श्लोक २८

कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।
मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ।। ५.३६.२८।।।।

Slōka 29 / श्लोक २९

धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।
नासीद्व्यथा यस्य न भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति ।। ५.३६.२९।।।।

Slōka 30 / श्लोक ३०

न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।
तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य ।। ५.३६.३०।।।।

Slōka 31 / श्लोक ३१

इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।
श्रोतुं पुनस्तस्य वचो ऽभिरामं रामार्थयुक्तं विरराम रामा ।। ५.३६.३१।।।।

Slōka 32 / श्लोक ३२

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ।। ५.३६.३२।।।।

Slōka 33 / श्लोक ३३

न त्वामिहस्थां जानीते रामः कमललोचने ।
तेन त्वां नानयत्याशु शचीमिव पुरन्दरः ।। ५.३६.३३।।।।

Slōka 34 / श्लोक ३४

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। ५.३६.३४।।।।

Slōka 35 / श्लोक ३५

विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम् ।
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। ५.३६.३५।।।।

Slōka 36 / श्लोक ३६

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः।
स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। ५.३६.३६।।।।

Slōka 37 / श्लोक ३७

तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।
न शर्म लभते रामः सिंहार्दित इव द्विपः ।। ५.३६.३७।।।।

Slōka 38 / श्लोक ३८

मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।
दर्दुरेण च ते देवि शपे मूलफलेन च ।। ५.३६.३८।।।।

Slōka 39 / श्लोक ३९

यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम् ।
मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ।। ५.३६.३९।।।।

Slōka 40 / श्लोक ४०

क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ ।
शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि ।। ५.३६.४०।।।।

Slōka 41 / श्लोक ४१

न मांसं राघवो भुङ्क्ते न चापि मधु सेवते ।
वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ।। ५.३६.४१।।।।

Slōka 42 / श्लोक ४२

नैव दंशान्न मशकान् न कीटान्न सरीसृपान् ।
राघवो ऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना ।। ५.३६.४२।।।।

Slōka 43 / श्लोक ४३

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः ।
नान्यच्चिन्तयते किञ्चित् स तु कामवशं गतः ।। ५.३६.४३।।।।

Slōka 44 / श्लोक ४४

अनिद्रः सततं रामः सुप्तो ऽपि च नरोत्तमः ।
सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते ।। ५.३६.४४।।।।

Slōka 45 / श्लोक ४५

दृष्ट्वा फलं वा पुष्पं वा यद्वा ऽन्यत् सुमनोहरम् ।
बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते ।। ५.३६.४५।।।।

Slōka 46 / श्लोक ४६

स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः ।
दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः ।। ५.३६.४६।।।।

Slōka 47 / श्लोक ४७

सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका ।
शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव ।। ५.३६.४७।।