Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 21 / सर्गः २१

Slōka 1 / श्लोक १

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।
सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ।। ५.२१.१।।।।

Slōka 2 / श्लोक २

निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।
राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ।। ५.२१.२।।।।

Slōka 3 / श्लोक ३

ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ।
परं परुषया वाचा वैदेहीम् इदमब्रुवन् ।। ५.२१.३।।।।

Slōka 4 / श्लोक ४

पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः ।
दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ।। ५.२१.४।।।।

Slōka 5 / श्लोक ५

ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् ।
आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ।। ५.२१.५।।।।

Slōka 6 / श्लोक ६

प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ।। ५.२१.६।।।।

Slōka 7 / श्लोक ७

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ।। ५.२१.७।।।।

Slōka 8 / श्लोक ८

तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ।। ५.२१.८।।।।

Slōka 9 / श्लोक ९

ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ।
विवृत्य नयने कोपान्मार्जारसदृशेक्षणा ।। ५.२१.९।।।।

Slōka 10 / श्लोक १०

येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।। ५.२१.१०।।।।

Slōka 11 / श्लोक ११

वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः ।
बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे ।। ५.२१.११।।।।

Slōka 12 / श्लोक १२

प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ।
सर्वासां च महाभागां त्वामुपैष्यति रावणः ।। ५.२१.१२।।।।

Slōka 13 / श्लोक १३

समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ।
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ।। ५.२१.१३।।।।

Slōka 14 / श्लोक १४

असकृद्देवता युद्धे नागगन्धर्वदानवाः ।
निर्जिताः समरे येन स ते पार्श्वमुपागतः ।। ५.२१.१४।।।।

Slōka 15 / श्लोक १५

तस्य सर्वसमृद्धस्या रावणस्य महात्मनः ।
किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे ।। ५.२१.१५।।।।

Slōka 16 / श्लोक १६

यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।
न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ।। ५.२१.१६।।।।

Slōka 17 / श्लोक १७

पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।
शैलाश्च सुभ्रु पानीयं जलदाश् च यदेच्छति ।। ५.२१.१७।।।।

Slōka 18 / श्लोक १८

तस्य नैरृतराजस्य राजराजस्य भामिनि ।
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ।। ५.२१.१८।।।।

Slōka 19 / श्लोक १९

साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।
गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ।। ५.२१.१९।।