किष्किन्धाकाण्डम्डम्
Chapter 61 / सर्गः ६१
Slōka 1 / श्लोक १
Slōka 1
ततः तत् दारुणम् कर्म दुष्करम् साहसात् कृतम् ।
आचचक्षे मुनेः सर्वम् सूर्य अनुगमनम् तथा ॥४-६१-१॥
Slōka 2 / श्लोक २
Slōka 2
भगवन् व्रण युक्तत्वात् लज्जया च अकुल इन्द्रियः ।
परिश्रान्तो न शक्नोमि वचनम् परिभाषितुम् ॥४-६१-२॥
Slōka 3 / श्लोक ३
Slōka 3
अहम् चैव जटायुः च संघर्षात् दर्प मोहितौ ।
आकाशम् पतितौ दूरात् जिज्ञासन्तौ पराक्रमम् ॥४-६१-३॥
Slōka 4 / श्लोक ४
Slōka 4
कैलास शिखरे बद्ध्वा मुनीनाम् अग्रतः पणम् ।
रविः स्यात् अनुयातव्यो यावत् अस्तम् महागिरिम् ॥४-६१-४॥
Slōka 5 / श्लोक ५
Slōka 5
अपि आवाम् युगपत् प्राप्तौ अपश्याव मही तले ।
रथ चक्र प्रमाणानि नगराणि पृथक् पृथक् ॥४-६१-५॥
Slōka 6 / श्लोक ६
Slōka 6
क्वचित् वादित्र घोषः च क्वचित् भूषण निःस्वनः ।
गायन्तीः स्म अंगना बह्वीः पश्यावो रक्त वाससः ॥४-६१-६॥
Slōka 7 / श्लोक ७
Slōka 7
तूर्णम् उत्पत्य च आकाशम् आदित्य पथम् आस्थितौ ।
आवाम् आलोकयावः तत् वनम् शाद्वल संस्थितम् ॥४-६१-७॥
Slōka 8 / श्लोक ८
Slōka 8
उपलैः इव संछन्ना दृश्यते भूः शिल उच्चयैः ।
आपगाभिः च संवीता सूत्रैः इव वसुंधरा ॥४-६१-८॥
Slōka 9 / श्लोक ९
Slōka 9
हिमवान् चैव विन्ध्यः च मेरुः च सुमहान् गिरिः ।
भू तले संप्रकाशन्ते नागा इव जल आशये ॥४-६१-९॥
Slōka 10 / श्लोक १०
Slōka 10
तीव्रः स्वेदः च खेदः च भयम् च आसीत् तदा अवयोः ।
समाविशत मोहः च ततो मूर्च्छा च दारुणा ॥४-६१-१०॥
Slōka 11 / श्लोक ११
Slōka 11
न च दिक् ज्ञायते याम्या न आग्नेयी न च वारुणी ।
युग अन्ते नियतो लोको हतो दग्ध इव अग्निना ॥४-६१-११॥
Slōka 12 / श्लोक १२
Slōka 12
मनः च मे हतम् भूयः चक्षुः प्राप्य तु संश्रयम् ।
यत्नेन महता हि अस्मिन् मनः संधाय चक्षुषी ॥४-६१-१२॥
Slōka 13 / श्लोक १३
Slōka 13
यत्नेन महता भूयो भास्करः प्रतिलोकितः ।
तुल्यः पृथ्वी प्रमाणेन भास्करः प्रतिभाति नौ ॥४-६१-१३॥
Slōka 14 / श्लोक १४
Slōka 14
जटायुः माम् अनापृच्छ्य निपपात महीम् ततः ।
तम् दृष्ट्वा तूर्णम् आकाशात् आत्मानम् मुक्तवान् अहम् ॥४-६१-१४॥
Slōka 15 / श्लोक १५
Slōka 15
पक्षभ्याम् च मया गुप्तो जटायुः न प्रदह्यत ।
प्रमादात् तत्र निर्दग्धः पतन् वायु पथात् अहम् ॥४-६१-१५॥
Slōka 16 / श्लोक १६
Slōka 16
आशन्के तम् निपतितम् जनस्थाने जटायुषम् ।
अहम् तु पतितो विन्ध्ये दग्ध पक्षो जडी कृतः ॥४-६१-१६॥
Slōka 17 / श्लोक १७
Slōka 17
राज्यात् हीनो भ्रात्रा च पक्षाभ्याम् विक्रमेण च ।
सर्वथा मर्तुम् एव इच्छन् पतिष्ये शिखरात् गिरेः ॥४-६१-१७॥