अरण्यकाण्डम्
Chapter 64 / सर्गः ६४
Slōka 1 / श्लोक १
स दीनो दीनया वाचा लक्ष्मणम् वाक्यम् अब्रवीत् ।
शीघ्रम् लक्ष्मण जानीहि गत्वा गोदावरीम् नदीम् ॥३-६४-१॥
Slōka 2 / श्लोक २
अपि गोदावरीम् सीता पद्मानि आनयितुम् गता ।
एवम् उक्तः तु रामेण लक्ष्मणः पुनः एव हि ॥३-६४-२॥
Slōka 3 / श्लोक ३
नदीम् गोदावरीम् रम्याम् जगाम लघु विक्रमः ।
ताम् लक्ष्मणः तीर्थवतीम् विचित्वा रामम् अब्रवीत् ॥३-६४-३॥
Slōka 4 / श्लोक ४
नैनाम् पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।
कम् नु सा देशम् आपन्ना वैदेही क्लेश नाशिनी ॥३-६४-४॥
Slōka 5 / श्लोक ५
न हि तम् वेद्मि वै राम यत्र सा तनु मध्यमा ।
लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः ॥३-६४-५॥
Slōka 6 / श्लोक ६
रामः समभिचक्राम स्वयम् गोदावरीम् नदीम् ।
स ताम् उपस्थितो रामः क्व सीते इति एवम् अब्रवीत् ॥३-६४-६॥
Slōka 7 / श्लोक ७
भूतानि राक्षसेन्द्रेण वध अर्हेण हृताम् अपि ।
न ताम् शशंसू रामाय तथा गोदावरी नदी ॥३-६४-७॥
Slōka 8 / श्लोक ८
ततः प्रचोदिता भूतैः शंस च अस्मै प्रियाम् इति ।
न च सा हि अवदत् सीताम् पृष्टा रामेण शोचता ॥३-६४-८॥
Slōka 9 / श्लोक ९
रावणस्य च तत् रूपम् कर्माणि च दुरात्मनः ।
ध्यात्वा भयात् तु वैदेहीम् सा नदी न शशंस ह ॥३-६४-९॥
Slōka 10 / श्लोक १०
निराशः तु तया नद्या सीताया दर्शने कृतः ।
उवाच रामः सौमित्रिम् सीता दर्शन कर्शितः ॥३-६४-१०॥
Slōka 11 / श्लोक ११
एषा गोदावरी सौम्य किंचन् न प्रतिभाषते ।
किम् नु लक्ष्मण वक्ष्यामि समेत्य जनकम् वचः ॥३-६४-११॥
Slōka 12 / श्लोक १२
मातरम् चैव वैदेह्या विना ताम् अहम् अप्रियम् ।
या मे राज्य विहीनस्य वने वन्येन जीवतः ॥३-६४-१२॥
Slōka 13 / श्लोक १३
सर्वम् व्यपनयत् शोकम् वैदेही क्व नु सा गता ।
ज्ञाति वर्ग विहीनस्य राज पुत्रीम् अपश्यतः ॥३-६४-१३॥
Slōka 14 / श्लोक १४
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ।
मंदाकिनीम् जनस्थानम् इमम् प्रस्रवणम् गिरिम् ॥३-६४-१४॥
Slōka 15 / श्लोक १५
सर्वाणि अनुचरिष्यामि यदि सीता हि लभ्यते ।
एते महा मृगा वीर माम् ईक्षन्ते पुनः पुनः ॥३-६४-१५॥
Slōka 16 / श्लोक १६
वक्तु कामा इह हि मे इंगितानि अनुपलक्षये ।
तान् तु दृष्ट्वा नरव्याघ्र राघवः प्रत्युवाच ह ॥३-६४-१६॥
Slōka 17 / श्लोक १७
क्व सीत इति निरीक्षन् वै बाष्प संरुद्धया गिरा ।
एवम् उक्ता नरेन्द्रेण ते मृगाः सहसा उत्थिता ॥३-६४-१७॥
Slōka 18 / श्लोक १८
दक्षिण अभिमुखाः सर्वे दर्शयन्तो नभः स्थलम् ।
मैथिली ह्रियमाणा सा दिशम् याम् अभ्यपद्यत ॥३-६४-१८॥
Slōka 19 / श्लोक १९
तेन मार्गेण गच्छन्तो निरीक्षन्तो नराधिपम् ।
येन मार्गम् च भूमिम् च निरीक्षन्ते स्म ते मृगाः ॥३-६४-१९॥
Slōka 20 / श्लोक २०
पुनः नदन्तो गच्छन्ति लक्ष्मणेन उपलक्षिताः ।
तेषाम् वचन सर्वस्वम् लक्षयामास च इन्गितम् ॥३-६४-२०॥
Slōka 21 / श्लोक २१
उवाच लक्ष्मणो धीमान् ज्येष्ठम् भ्रातरम् आर्तवत् ।
क्व सीत इति त्वया पृष्टा यथा इमे सहसा उथिताः ॥३-६४-२१॥
Slōka 22 / श्लोक २२
दर्शयन्ति क्षितिम् चैव दक्षिणाम् च दिशम् मृगाः ।
सधु गच्छावहे देव दिशम् एताम् च नैर्ऋतीम् ॥३-६४-२२॥
Slōka 23 / श्लोक २३
यदि तस्य आगमः कश्चित् आर्या वा सा अथ लक्ष्यते ।
बाढम् इति एव काकुत्स्थः प्रस्थितो दक्षिणाम् दिशम् ॥३-६४-२३॥
Slōka 24 / श्लोक २४
लक्ष्मण अनुगत श्रीमान् वीक्ष्यमाणो वसुन्धराम् ।
एवम् संभाषमाणौ तौ अन्योन्यम् भ्रातरौ उभौ ॥३-६४-२४॥
Slōka 25 / श्लोक २५
वसुन्धरायाम् पतित पुष्प मार्गम् अपश्यताम् ।
पुष्प वृष्टिम् निपतिताम् दृष्ट्वा रामो मही तले ॥३-६४-२५॥
Slōka 26 / श्लोक २६
उवाच लक्ष्मणम् वीरो दुःखितो दुःखितम् वचः ।
अभिजानामि पुष्पाणि तानि इमानि इह लक्ष्मण ॥३-६४-२६॥
Slōka 27 / श्लोक २७
अपिनद्धानि वैदेह्या मया दत्तानि कानने ।
मन्ये सूर्यः च वायुः च मेदिनी च यशशिविनि ॥३-६४-२७॥
Slōka 28 / श्लोक २८
अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् ।
एवम् उक्त्वा महाबाहुः लक्ष्मणम् पुरुषर्षभम् ॥३-६४-२८॥
Slōka 29 / श्लोक २९
उवाच रामो धर्मात्मा गिरिम् प्रसवण आकुलम् ।
कच्चित् क्षिति भृताम् नाथ दृष्टा सर्वांग सुंदरीम् ॥३-६४-२९॥
Slōka 30 / श्लोक ३०
रामा रम्ये वनोद् देशे मया विरहिता त्वया ।
क्रुद्धो अब्रवीत् गिरिम् तत्र सिंहः क्षुद्र मृगम् यथा ॥३-६४-३०॥
Slōka 31 / श्लोक ३१
ताम् हेम वर्णाम् हेम अंगीम् सीताम् दर्शय पर्वत ।
यावत् सानूनि सर्वाणि न ते विध्वंसयामि अहम् ॥३-६४-३१॥
Slōka 32 / श्लोक ३२
एवम् उक्तः तु रामेण पर्वतो मैथिलीम् प्रति ।
दर्शयन् इव ताम् सीताम् न दर्शयत राघवे ॥३-६४-३२॥
Slōka 33 / श्लोक ३३
ततो दाशरथी राम उवाच शिलोच्चयम् ।
मम बाण अग्नि निर्दग्धो भस्मी भूतो भविष्यसि ॥३-६४-३३॥
Slōka 34 / श्लोक ३४
असेव्यः सततम् चैव निस्तृण द्रुम पल्लवः ।
इमाम् वा सरितम् च अद्य शोषयिष्यामि लक्ष्मण ॥३-६४-३४॥
Slōka 35 / श्लोक ३५
यदि न आख्याति मे सीताम् अद्य चन्द्र निभ आननाम् ।
एवम् प्ररुषितो रामो दिधक्षन् इव चक्षुषा ॥३-६४-३५॥
Slōka 36 / श्लोक ३६
ददर्श भूमौ निष्क्रांतम् राक्षसस्य पदम् महत् ।
त्रस्तया राम काङ्क्षिण्याः प्रधावन्त्या इतः ततः ॥३-६४-३६॥
Slōka 37 / श्लोक ३७
राक्षसेन अनुवृत्तया वैदेह्या च पादानि तु ।
स समीक्ष्य परिक्रान्तम् सीताया राक्षसस्य च ॥३-६४-३७॥
Slōka 38 / श्लोक ३८
भंगम् धनुः च तूणी च विकीर्णाम् बहुधा रथम् ।
संभ्रांत हृदयो रामः शशंस भ्रातरम् प्रियम् ॥३-६४-३८॥
Slōka 39 / श्लोक ३९
पश्य लक्ष्मण वैदेह्याः कीर्णाम् कनक बिन्दवः ।
भूषणानाम् हि सौमित्रे माल्यानि विविधानि च ॥३-६४-३९॥
Slōka 40 / श्लोक ४०
तप्त बिन्दु निकाशैः च चित्रैः क्षतज बिन्दुभिः ।
आवृतम् पश्य सौमित्रे सर्वतो धरणी तलम् ॥३-६४-४०॥
Slōka 41 / श्लोक ४१
मन्ये लक्ष्मण वैदेही राक्षसैः काम रूपिभिः ।
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥३-६४-४१॥
Slōka 42 / श्लोक ४२
तस्या निमित्तम् वैदेह्या द्वयोः विवदमानयोः ।
बभूव युद्धम् सौमित्रे घोरम् राक्षसयोः इह ॥३-६४-४२॥
Slōka 43 / श्लोक ४३
मुक्ता मणि चितम् च इदम् तपनीय विभूषितम् ।
धरण्याम् पतितम् सौम्य कस्य भग्नम् महत् धनुः ॥३-६४-४३॥
Slōka 44 / श्लोक ४४
राक्षसानाम् इदम् वस्त सुराणाम् अधवा अपि ।
तरुण आदित्य संकाशम् वैदूर्य गुलिका चितम् ॥३-६४-४४॥
Slōka 45 / श्लोक ४५
विशीर्णम् पतितम् भूमौ कवचम् कस्य कांचनम् ।
छत्रम् शत शलाकम् च दिव्य माल्य उपशोभितम् ॥३-६४-४५॥
Slōka 46 / श्लोक ४६
भग्न दण्डम् इदम् कस्य भूमौ सौम्य निपातितम् ।
कान्चन उरः छदाः च इमे पिशाच वदनाः खराः ॥३-६४-४६॥
Slōka 47 / श्लोक ४७
भीम रूपा महाकायाः कस्य वा निहता रणे ।
दीप्त पावक संकाशो द्युतिमान् समर ध्वजः ॥३-६४-४७॥
Slōka 48 / श्लोक ४८
अपविद्धः च भग्नः च कस्य सांग्रामिको रथः ।
रथ अक्ष मात्रा विशिखाः तपनीय विभूषणाः ॥३-६४-४८॥
Slōka 49 / श्लोक ४९
कस्य इमे निहता बाणाः प्रकीर्णा घोर दर्शनः ।
शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥३-६४-४९॥
Slōka 50 / श्लोक ५०
प्रतोद अभीशु हस्तो अयम् कस्य वा सारथिः हतः ।
पदवी पुरुषस्य एषा व्यक्तम् कस्य अपि राक्षसः ॥३-६४-५०॥
Slōka 51 / श्लोक ५१
वैरम् शत गुणम् पश्य मम तैः जीवित अंतकम् ।
सुघोर हृदयैः सौम्य राक्षसैः काम रूपिभिः ॥३-६४-५१॥
Slōka 52 / श्लोक ५२
हृता मृता वा सीता हि भक्षिता वा तपस्विनी ।
न धर्मः त्रायते सीताम् ह्रियमाणाम् महावने ॥३-६४-५२॥
Slōka 53 / श्लोक ५३
भक्षितायाम् हि वैदेह्याम् हृतायाम् अपि लक्ष्मण ।
के हि लोके प्रियम् कर्तुम् शक्ताः सौम्य मम ईश्वराः ॥३-६४-५३॥
Slōka 54 / श्लोक ५४
कर्तारम् अपि लोकानाम् शूरम् करुण वेदिनम् ।
अज्ञानात् अवमन्येरन् सर्व भूतानि लक्ष्मण ॥३-६४-५४॥
Slōka 55 / श्लोक ५५
मृदुम् लोक हिते युक्तम् दांतम् करुण वेदिनम् ।
निर्वीर्य इति मन्यन्ते नूनम् माम् त्रिदश ईश्वराः ॥३-६४-५५॥
Slōka 56 / श्लोक ५६
माम् प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण ।
अद्य एव सर्व भूतानाम् रक्षसाम् अभवाय च ॥३-६४-५६॥
Slōka 57 / श्लोक ५७
संहृत्य एव शशि ज्योत्स्नाम् महान् सूर्य इव उदितः ।
संहृत्य एव गुणान् सर्वान् मम तेजः प्रकाश्ते ॥३-६४-५७॥
Slōka 58 / श्लोक ५८
न एव यक्षा न गंधर्वा न पिशाचा न राक्षसाः ।
किन्नरा वा मनुष्या वा सुखम् प्राप्स्यन्ति लक्ष्मण ॥३-६४-५८॥
Slōka 59 / श्लोक ५९
मम अस्त्र बाण संपूर्णम् आकाशम् पश्य लक्ष्मण ।
असंपातम् करिष्यामि हि अद्य त्रैलोक्य चारिणाम् ॥३-६४-५९॥
Slōka 60 / श्लोक ६०
संनिरुद्धग्रहगणमावारितनिशाकरम् ।
विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्।यद्व -संनिरुद्ध ग्रह गणम् आवारित निशा करम् ।विप्रनष्ट अनल मरुत् भास्कर द्युति संवृतम् ॥३-६४-६०॥
Slōka 61 / श्लोक ६१
विनिर्मथितशैलाग्रम्शुष्यमाणजलाअशयम् ।
ध्वस्तद्रुमलतागुल्मम्विप्रणाशितसागरम्।यद्वा -विनिर्मथित शैल अग्रम् शुष्यमाण जल आशयम् ।ध्वस्त द्रुम लता गुल्मम् विप्रणाशित सागरम् ॥३-६४-६१॥
Slōka 62 / श्लोक ६२
त्रै लोक्यम् तु करिष्यामि संयुक्तम् काल कर्मणा ।
न ते कुशलिनीम् सीताम् प्रदास्यन्ति मम ईश्वराः ॥३-६४-६२॥
Slōka 63 / श्लोक ६३
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ।
न आकाशम् उत्पतिष्यन्ति सर्व भूतानि लक्ष्मण ॥३-६४-६३॥
Slōka 64 / श्लोक ६४
मम चाप गुण उन्मुक्तैः बाण जालैः निरंतरम् ।
मर्दितम् मम नाराचैः ध्वस्त भ्रांत मृग द्विजम् ॥३-६४-६४॥
Slōka 65 / श्लोक ६५
समाकुलम् अमर्यादम् जगत् पश्य अद्य लक्ष्मण ।
आकर्णपूर्णैरिषुभिर्जीवलोकंदुरावरैः।यद्वा -आकर्ण पूर्णैर् इषुभिर् जीव लोकम् दुरावरैः ॥३-६४-६५॥
Slōka 66 / श्लोक ६६
करिष्ये मैथिली हेतोः अपिशाचम् अराक्षसम् ।
मम रोष प्रयुक्तानाम् विशिखानाम् बलम् सुराः ॥३-६४-६६॥
Slōka 67 / श्लोक ६७
द्रक्ष्यन्ति अद्य विमुक्तानाम् अमर्षात् दूर गामिनाम् ।
न एव देवा न दैतेया न पिशाचा न राक्षसाः ॥३-६४-६७॥
Slōka 68 / श्लोक ६८
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ।
देव दानव यक्षाणाम् लोका ये रक्षसाम् अपि ॥३-६४-६८॥
Slōka 69 / श्लोक ६९
बहुधानिपतिष्यन्तिबाणोघैश्शकलीकृताः ।
यद्वा -बहुधा नि पतिष्यन्ति बाण ओघैः शकली कृताः ।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्यसायकैः।यद्वा -निर् मर्यादान् इमान् लोकान् करिष्यामि अद्य सायकैः ॥३-६४-६९॥
Slōka 70 / श्लोक ७०
हृताम् मृताम् वा सौमित्रे न दास्यन्ति मम ईश्वराः ।
तथा रूपम् हि वैदेहीम् न दास्यन्ति यदि प्रियाम् ॥३-६४-७०॥
Slōka 71 / श्लोक ७१
नाशयामि जगत् सर्वम् त्रैलोक्यम् स चर अचरम् ।
यावत् दर्शनम् अस्या वै तापयामि च सायकैः ॥३-६४-७१॥
Slōka 72 / श्लोक ७२
इति उक्त्वा क्रोध ताम्र अक्षः स्फुरमाण ओष्ट संपुटः ।
वल्कल अजिनम् आबद्ध्य जटा भारम् बन्धयत् ॥३-६४-७२॥
Slōka 73 / श्लोक ७३
तस्य क्रुद्धस्य रामस्य तथा अभूतस्य धीमतः ।
त्रि पुरम् जग्नुषः पूर्वम् रुद्रस्य इव बभौ तनुः ॥३-६४-७३॥
Slōka 74 / श्लोक ७४
लक्ष्मणात् अथ च आदाय रामो निष्पीड्य कार्मुकम् ।
शरम् आदाय संदीप्तम् घोरम् अशी विष उपमम् ॥३-६४-७४॥
Slōka 75 / श्लोक ७५
संदधे धनुषि श्रीमान् रामः पर पुरंजयः ।
युग अन्त अग्निः इव क्रुद्धः इदम् वचनम् अब्रवीत् ॥३-६४-७५॥
Slōka 76 / श्लोक ७६
यथा जरा यथा मृत्युः यथा कालो यथा विधिः ।
नित्यम् न प्रतिहन्यन्ते सर्व भूतेषु लक्ष्मण ।तथा अहम् क्रोध संयुक्तो न निवार्यो अस्मि असंशयम् ॥३-६४-७६॥
Slōka 77 / श्लोक ७७
पुरा इव मे चारु दतीम् अनिन्दिताम्दिशन्ति सीताम् यदि न अद्य मैथिलीम् ।
सदेव गन्धर्व मनुष्य पन्नगम्जगत् स शैलम् परिवर्तयामि अहम् ॥३-६४-७७॥