Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 54 / सर्गः ५४

Slōka 1 / श्लोक १

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।
वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।।।।

Slōka 2 / श्लोक २

किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् ।
यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।।।।

Slōka 3 / श्लोक ३

वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः ।
बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।।।।

Slōka 4 / श्लोक ४

दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् ।
अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः ।। 5.54.4 ।।।।

Slōka 5 / श्लोक ५

यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः ।
अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ।। 5.54.5 ।।।।

Slōka 6 / श्लोक ६

ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।
भवनाग्रेषु लङ्काया विचचार महाकपिः ।। 5.54.6 ।।।।

Slōka 7 / श्लोक ७

गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।। 5.54.7 ।।।।

Slōka 8 / श्लोक ८

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।। 5.54.8 ।।।।

Slōka 9 / श्लोक ९

ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।
मुमोच हनुमानग्निं कालानलशिखोपमम् ।। 5.54.9 ।।।।

Slōka 10 / श्लोक १०

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजाः सारणस्य च धीमतः ।तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।। 5.54.10 ।।।।

Slōka 11 / श्लोक ११

जम्बुमालेः सुमालेश्च ददाह भवनं ततः ।
। 5.54.11

Slōka 12 / श्लोक १२

।
।्य च महातेजाः सारणस्य च धीमतः ।रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.54.12 ।।।।

Slōka 13 / श्लोक १३

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः ।
विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ।। 5.54.13 ।।।।

Slōka 14 / श्लोक १४

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ।। 5.54.14 ।।।।

Slōka 15 / श्लोक १५

यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च ।
नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ।। 5.54.15 ।।।।

Slōka 16 / श्लोक १६

वर्जयित्वा महातेजा विभीषणगृहं प्रति ।
क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ।। 5.54.16 ।।।।

Slōka 17 / श्लोक १७

तेषु तेषु महार्हेषु भवनेषु महायशाः ।
गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ।। 5.54.17 ।।।।

Slōka 18 / श्लोक १८

सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् ।
आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ।। 5.54.18 ।।।।

Slōka 19 / श्लोक १९

ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते ।
मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ।। 5.54.19 ।।।।

Slōka 20 / श्लोक २०

प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् ।
ननाद हनुमान् वीरो युगान्तजलदो यथा ।। 5.54.20 ।।।।

Slōka 21 / श्लोक २१

श्वसनेन च संयोगादतिवेगो महाबलः ।
कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ।। 5.54.21 ।।।।

Slōka 22 / श्लोक २२

प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् ।
अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ।। 5.54.22 ।।।।

Slōka 23 / श्लोक २३

तानि काञ्चनजालानि मुक्तामणिमयानि च ।
भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ।। 5.54.23 ।।।।

Slōka 24 / श्लोक २४

तानि भग्नविमानानि निपेतुर्वसुधातले ।
भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ।। 5.54.24 ।।।।

Slōka 25 / श्लोक २५

संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् ।
स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम् ।नूनमेषो ऽग्निरायातः कपिरूपेण हा इति ।। 5.54.25 ।।।।

Slōka 26 / श्लोक २६

क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः ।
काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ।। 5.54.26 ।।।।

Slōka 27 / श्लोक २७

पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ।
। 5.54.27 ।।।।

Slōka 28 / श्लोक २८

वज्रविद्रुमवैदूर्यमुकारजतसंहितान् ।
विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः ।। 5.54.28 ।।।।

Slōka 29 / श्लोक २९

नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः ।
नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ।। 5.54.29 ।।।।

Slōka 30 / श्लोक ३०

क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः ।
क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे ।। 5.54.30 ।।।।

Slōka 31 / श्लोक ३१

हनूमता वेगवता वानरेण महात्मना ।
लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ।। 5.54.31 ।।।।

Slōka 32 / श्लोक ३२

ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमो ऽग्निः ।
प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ।। 5.54.32 ।।।।

Slōka 33 / श्लोक ३३

युगान्तकालानलतुल्यवेगः समारुतो ऽग्निर्ववृधे दिविस्पृक् ।
विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ।। 5.54.33 ।।।।

Slōka 34 / श्लोक ३४

आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् ।
शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ।। 5.54.34 ।।।।

Slōka 35 / श्लोक ३५

तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः ।
निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरे ऽभ्राः ।। 5.54.35 ।।।।

Slōka 36 / श्लोक ३६

वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणो ऽनिलो वा ।
रुद्रो ऽग्निरर्को धनदश्च सोमो न वानरो ऽयं स्वयमेव कालः ।। 5.54.36 ।।।।

Slōka 37 / श्लोक ३७

किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य ।
इहागतोवाग्रूपधारीरक्षोपसंहारकरः प्रकोपः ।। 5.54.37

Slōka 38 / श्लोक ३८

।
किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः ।अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ।। 5.54.38 ।।।।

Slōka 39 / श्लोक ३९

इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे ।
सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ।। 5.54.39 ।।।।

Slōka 40 / श्लोक ४०

ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा ।
सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ।। 5.54.40 ।।।।

Slōka 41 / श्लोक ४१

हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् ।
रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ।। 5.54.41 ।।।।

Slōka 42 / श्लोक ४२

हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा ।
हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ।। 5.54.42 ।।।।

Slōka 43 / श्लोक ४३

स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।
ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम् ।। 5.54.43 ।।।।

Slōka 44 / श्लोक ४४

भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे ।
दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ।। 5.54.44 ।।।।

Slōka 45 / श्लोक ४५

त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः ।
प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ।। 5.54.45 ।।।।

Slōka 46 / श्लोक ४६

स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।
विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ।। 5.54.46 ।।।।

Slōka 47 / श्लोक ४७

ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् ।
महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ।। 5.54.47 ।।।।

Slōka 48 / श्लोक ४८

भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे ।
दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ।। 5.54.48 ।।।।

Slōka 49 / श्लोक ४९

तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः ।। 5.54.49 ।।।।

Slōka 50 / श्लोक ५०

तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् ।
कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ।। 5.54.50 ।।।।

Slōka 51 / श्लोक ५१

देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः ।
भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ।। 5.54.51 ।।