सुन्दरकाण्डम्
Chapter 52 / सर्गः ५२
Slōka 1 / श्लोक १
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।
आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः ।। ५.५२.१।।।।
Slōka 2 / श्लोक २
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।
निवेदितवतो दौत्यं नानुमेने विभीषणः ।। ५.५२.२।।।।
Slōka 3 / श्लोक ३
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।
विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः ।। ५.५२.३।।।।
Slōka 4 / श्लोक ४
निश्चितार्थस्ततः साम्ना ऽ ऽपूज्य शत्रुजिदग्रजम् ।
उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ।। ५.५२.४।।।।
Slōka 5 / श्लोक ५
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।
वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ।। ५.५२.५।।।।
Slōka 6 / श्लोक ६
राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।
तव चासदृशं वीर कपेरस्य प्रमापणम् ।। ५.५२.६।।।।
Slōka 7 / श्लोक ७
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।
परावरज्ञो भूतानां त्वमेव परमार्थवित् ।। ५.५२.७।।।।
Slōka 8 / श्लोक ८
गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः ।
ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् ।। ५.५२.८।।।।
Slōka 9 / श्लोक ९
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद ।
युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् ।। ५.५२.९।।।।
Slōka 10 / श्लोक १०
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ।। ५.५२.१०।।।।
Slōka 11 / श्लोक ११
न पापानां वधे पापं विद्यते शत्रुसूदन ।
तस्मादेनं वधिष्यामि वानरं पापचारिणम् ।। ५.५२.११।।।।
Slōka 12 / श्लोक १२
अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य ।
उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ।। ५.५२.१२।।।।
Slōka 13 / श्लोक १३
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व ।
दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः ।। ५.५२.१३।।।।
Slōka 14 / श्लोक १४
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।
न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः ।। ५.५२.१४।।।।
Slōka 15 / श्लोक १५
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः ।
एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतो ऽपि ।। ५.५२.१५।।।।
Slōka 16 / श्लोक १६
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।
भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः ।। ५.५२.१६।।।।
Slōka 17 / श्लोक १७
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।
विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् ।। ५.५२.१७।।।।
Slōka 18 / श्लोक १८
न चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् ।
तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः ।। ५.५२.१८।।।।
Slōka 19 / श्लोक १९
साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः ।
ब्रुवन् परार्थं परवान् न दूतो वधमर्हति ।। ५.५२.१९।।।।
Slōka 20 / श्लोक २०
अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् ।
इह यः पुनरागच्छेत् परं पारं महोदधेः ।। ५.५२.२०।।।।
Slōka 21 / श्लोक २१
तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय ।
भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति ।। ५.५२.२१।।।।
Slōka 22 / श्लोक २२
अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ ।
युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ।। ५.५२.२२।।।।
Slōka 23 / श्लोक २३
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।
त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं न युक्ता ।। ५.५२.२३।।।।
Slōka 24 / श्लोक २४
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।
मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ।। ५.५२.२४।।।।
Slōka 25 / श्लोक २५
तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु ।
तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ।। ५.५२.२५।।।।
Slōka 26 / श्लोक २६
निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ।
जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः ।। ५.५२.२६।।