सुन्दरकाण्डम्
Chapter 44 / सर्गः ४४
Slōka 1 / श्लोक १
सन्दिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली ।
जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः ।। ५.४४.१।।।।
Slōka 2 / श्लोक २
रक्तमाल्याम्बरधरः स्रग्वी रुचिरगुण्डलः ।
महान् विवृत्तनयनश्चण्डः समरदुर्जयः ।। ५.४४.२।।।।
Slōka 3 / श्लोक ३
धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम् ।
विस्फारयानो वेगेन वज्राशनिसमस्वनम् ।। ५.४४.३।।।।
Slōka 4 / श्लोक ४
तस्य विस्फारघोषेण धनुषो महता दिशः ।
प्रदिशश्च नभश्चैव सहसा समपूर्यत ।। ५.४४.४।।।।
Slōka 5 / श्लोक ५
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः ।
हनुमान् वेगसम्पन्नौ जहर्ष च ननाद च ।। ५.४४.५।।।।
Slōka 6 / श्लोक ६
तं तोरणविटङ्कस्थं हनुमन्तं महाकिपम् ।
जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः ।। ५.४४.६।।।।
Slōka 7 / श्लोक ७
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना ।
बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम् ।। ५.४४.७।।।।
Slōka 8 / श्लोक ८
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् ।
शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना ।। ५.४४.८।।।।
Slōka 9 / श्लोक ९
तत्तस्य रक्तं रक्तेन ऽञ्जितं शुशुभे मुखम् ।
यथा ऽ ऽकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः ।। ५.४४.९।।।।
Slōka 10 / श्लोक १०
चुकोप बाणाभिहतो राक्षसस्य महाकपिः ।
। ५.४४.१०।।।।
Slōka 11 / श्लोक ११
ततः पार्श्वे ऽतिविपुला ददर्श महतीं शिलाम् ।
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली ।तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः ।। ५.४४.११।।।।
Slōka 12 / श्लोक १२
विपन्नं कर्म तद् दृष्ट्वा हनुमांश्चण्डविक्रमः ।
सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान् ।। ५.४४.१२।।।।
Slōka 13 / श्लोक १३
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् ।
चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः ।। ५.४४.१३।।।।
Slōka 14 / श्लोक १४
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे ।
उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे ।। ५.४४.१४।।।।
Slōka 15 / श्लोक १५
स शरैः पूरिततनुः क्रोधेन महता वृतः ।
तमेव परिघं गृह्य भ्रामयामास वेगतः ।। ५.४४.१५।।।।
Slōka 16 / श्लोक १६
अतिवेगो ऽतिवेगेन भ्रामयित्वा बलोत्कटः ।
परिघं पातयामास जम्बुमालेर्महोरसि ।। ५.४४.१६।।।।
Slōka 17 / श्लोक १७
तस्य चैव शिरो नास्ति न बाहू न च जानुनी ।
न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः ।। ५.४४.१७।।।।
Slōka 18 / श्लोक १८
स हतस्तरसा तेन जम्बुमाली महाबलः ।
पपात निहतो भूमौ चूर्णिताङ्गविभूषणः ।। ५.४४.१८।।।।
Slōka 19 / श्लोक १९
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् ।
चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः ।। ५.४४.१९।।।।
Slōka 20 / श्लोक २०
स रोषसंवर्तितताम्रलोचनः प्रहस्तपुत्रे निहते महाबले ।
अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः ।। ५.४४.२०।।