Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 111 / सर्गः १११

Slōka 1 / श्लोक १

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: ।
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ॥ २.१११.१॥

Slōka 2 / श्लोक २

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।
आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२॥

Slōka 3 / श्लोक ३

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।
प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३॥

Slōka 4 / श्लोक ४

सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।
मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.४॥

Slōka 5 / श्लोक ५

इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।
एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.५॥

Slōka 6 / श्लोक ६

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।
अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.६॥

Slōka 7 / श्लोक ७

भरतस्य वच: कुर्वन् याचमानस्य राघव ।
आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७॥

Slōka 8 / श्लोक ८

एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ॥ २.१११.८॥

Slōka 9 / श्लोक ९

यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९॥

Slōka 10 / श्लोक १०

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१०॥

Slōka 11 / श्लोक ११

स हि राजा जनयिता पिता दशरथो मम ।
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११॥

Slōka 12 / श्लोक १२

एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।
उवाच परमोदार: सूतं परमदुर्मना: ॥ २.१११.१२॥

Slōka 13 / श्लोक १३

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।
आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३॥

Slōka 14 / श्लोक १४

अनाहारो निरालोको धनहीनो यथा द्विज: ।
शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४॥

Slōka 15 / श्लोक १५

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।
कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५॥

Slōka 16 / श्लोक १६

तमुवाच महातेजा रामो राजर्षिसत्तम: ।
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६॥

Slōka 17 / श्लोक १७

ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।
न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ॥ २.१११.१७॥

Slōka 18 / श्लोक १८

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।
पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८॥

Slōka 19 / श्लोक १९

आसीनस्त्वेव भरत: पौरजानपदं जनम् ।
उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९॥

Slōka 20 / श्लोक २०

ते तमूचुर्महात्मानं पौरजानपदा जना: ।
काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ॥ २.१११.२०॥

Slōka 21 / श्लोक २१

एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।
अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१॥

Slōka 22 / श्लोक २२

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२॥

Slōka 23 / श्लोक २३

एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३॥

Slōka 24 / श्लोक २४

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।
श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥ २.१११.२४॥

Slōka 25 / श्लोक २५

न याचे पितरं राज्यं नानुशासामि मातरम् ।
आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५॥

Slōka 26 / श्लोक २६

यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।
अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६॥

Slōka 27 / श्लोक २७

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।
उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७॥

Slōka 28 / श्लोक २८

विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८॥

Slōka 29 / श्लोक २९

अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९॥

Slōka 30 / श्लोक ३०

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।
सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३०॥

Slōka 31 / श्लोक ३१

अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।
भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ॥ २.१११.३१॥

Slōka 32 / श्लोक ३२

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।
अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥