सुन्दरकाण्डम्
Chapter 29 / सर्गः २९
Slōka 1 / श्लोक १
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः ।। ५.२९.१।।।।
Slōka 2 / श्लोक २
तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् ।। ५.२९.२।।।।
Slōka 3 / श्लोक ३
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः ।
अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु ।। ५.२९.३।।।।
Slōka 4 / श्लोक ४
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः ।
प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे ।। ५.२९.४।।।।
Slōka 5 / श्लोक ५
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः ।
वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः ।। ५.२९.५।।।।
Slōka 6 / श्लोक ६
एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः ।
वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष ।। ५.२९.६।।।।
Slōka 7 / श्लोक ७
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म ।
वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः ।। ५.२९.७।।।।
Slōka 8 / श्लोक ८
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा ।
अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन ।। ५.२९.८।।