Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 116 / सर्गः ११६

Slōka 1 / श्लोक १

प्रतिप्रयाते भरते वसन् रामस्तपोवने ।
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २.११६.१॥

Slōka 2 / श्लोक २

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २.११६.२॥

Slōka 3 / श्लोक ३

नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।
अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ॥ २.११६.३॥

Slōka 4 / श्लोक ४

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।
कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ॥ २.११६.४॥

Slōka 5 / श्लोक ५

न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।
दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ॥ २.११६.५॥

Slōka 6 / श्लोक ६

प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ॥ २.११६.६॥

Slōka 7 / श्लोक ७

कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।
प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २.११६.७॥

Slōka 8 / श्लोक ८

अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।
वेपमान इवोवाच रामं भूतदयापरम् ॥ २.११६.८॥

Slōka 9 / श्लोक ९

कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।
चलनं तात वैदेह्यास्तपस्विषु विशेषत: ॥ २.११६.९॥

Slōka 10 / श्लोक १०

त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।
रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ॥ २.११६.१०॥

Slōka 11 / श्लोक ११

रावणावरज: कश्चित् खरो नामेह राक्षस: ।
उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २.११६.११॥

Slōka 12 / श्लोक १२

धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २.११६.१२॥

Slōka 13 / श्लोक १३

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २.११६.१३॥

Slōka 14 / श्लोक १४

दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ॥ २.११६.१४॥

Slōka 15 / श्लोक १५

अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।
प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ॥ २.११६.१५॥

Slōka 16 / श्लोक १६

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।
रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ॥ २.११६.१६॥

Slōka 17 / श्लोक १७

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।
कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २.११६.१७॥

Slōka 18 / श्लोक १८

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।
गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २.११६.१८॥

Slōka 19 / श्लोक १९

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।
दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २.११६.१९॥

Slōka 20 / श्लोक २०

बहुमूलफलं चित्रमविदूरादितो वनम् ।
पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ॥ २.११६.२०॥

Slōka 21 / श्लोक २१

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।
सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ॥ २.११६.२१॥

Slōka 22 / श्लोक २२

सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।
समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ॥ २.११६.२२॥

Slōka 23 / श्लोक २३

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ॥ २.११६.२३॥

Slōka 24 / श्लोक २४

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।
स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ॥ २.११६.२४॥

Slōka 25 / श्लोक २५

राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २.११६.२५॥

Slōka 26 / श्लोक २६

आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।
राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ॥ २.११६.२६ ॥