युद्धकाण्डम्
Chapter 25 / सर्गः २५
Slōka 1 / श्लोक १
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥।।
Slōka 2 / श्लोक २
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।
पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥।।
Slōka 3 / श्लोक ३
ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।
भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥।।
Slōka 4 / श्लोक ४
बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।
अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥।।
Slōka 5 / श्लोक ५
राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।
वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥।।
Slōka 6 / श्लोक ६
दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।
जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥।।
Slōka 7 / श्लोक ७
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥।।
Slōka 8 / श्लोक ८
दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।
उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥।।
Slōka 9 / श्लोक ९
आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।
मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥।।
Slōka 10 / श्लोक १०
विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।
विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥।।
Slōka 11 / श्लोक ११
पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।
नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥।।
Slōka 12 / श्लोक १२
पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।
कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥।।
Slōka 13 / श्लोक १३
इति दाशरथीरमो लक्ष्मणम् समभाषत ।
बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥।।
Slōka 14 / श्लोक १४
शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।
अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥।।
Slōka 15 / श्लोक १५
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।
आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥।।
Slōka 16 / श्लोक १६
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥।।
Slōka 17 / श्लोक १७
मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।
जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥।।
Slōka 18 / श्लोक १८
ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।
जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥।।
Slōka 19 / श्लोक १९
पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।
सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥।।
Slōka 20 / श्लोक २०
अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।
प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥।।
Slōka 21 / श्लोक २१
आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।
शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥।।
Slōka 22 / श्लोक २२
इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।
ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥।।
Slōka 23 / श्लोक २३
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥।।
Slōka 24 / श्लोक २४
मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।
मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥।।
Slōka 25 / श्लोक २५
शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।
रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥।।
Slōka 26 / श्लोक २६
किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।
कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥।।
Slōka 27 / श्लोक २७
ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।
वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥।।
Slōka 28 / श्लोक २८
सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।
यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥।।
Slōka 29 / श्लोक २९
क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।
गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥।।
Slōka 30 / श्लोक ३०
न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।
प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥।।
Slōka 31 / श्लोक ३१
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥।।
Slōka 32 / श्लोक ३२
स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।
एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥।।
Slōka 33 / श्लोक ३३
ऋक्षवानरसम्घानामनीकानि सहस्रशः ।
गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥।।
Slōka 34 / श्लोक ३४
राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।
नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥।।
Slōka 35 / श्लोक ३५
पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।
सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥।।
Slōka 36 / श्लोक ३६
शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।
रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥।।
Slōka 37 / श्लोक ३७
यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।
नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥।।
Slōka 38 / श्लोक ३८
कदा समभिधानन्ति मामका राघवम् शराः ।
वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥।।
Slōka 39 / श्लोक ३९
कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।
शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥।।
Slōka 40 / श्लोक ४०
तच्चास्य बलमादास्ये बलेन महता वृतः ।
ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥।।
Slōka 41 / श्लोक ४१
सागरस्येव मे वेगो मारुतस्येव मे बलम् ।
न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥।।
Slōka 42 / श्लोक ४२
न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।
रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥।।
Slōka 43 / श्लोक ४३
न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।
मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥।।
Slōka 44 / श्लोक ४४
ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।
नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥।।
Slōka 45 / श्लोक ४५
अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।
न वासवेनापि स हस्रचक्षुषा ।युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।यमेव वा धर्षयितुम् शराग्निना ।महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥