Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 65 / सर्गः ६५

Slōka 1 / श्लोक १

प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। ७.६५.१ ॥

Slōka 2 / श्लोक २

द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। ७.६५.२ ॥

Slōka 3 / श्लोक ३

सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। ७.६५.३ ॥

Slōka 4 / श्लोक ४

भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। ७.६५.४ ॥

Slōka 5 / श्लोक ५

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। ७.६५.५ ॥

Slōka 6 / श्लोक ६

स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि ।
आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। ७.६५.६ ॥

Slōka 7 / श्लोक ७

प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। ७.६५.७ ॥

Slōka 8 / श्लोक ८

स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। ७.६५.८ ॥

Slōka 9 / श्लोक ९

तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। ७.६५.९ ॥

Slōka 10 / श्लोक १०

युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। ७.६५.१० ॥

Slōka 11 / श्लोक ११

स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। ७.६५.११ ॥

Slōka 12 / श्लोक १२

शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। ७.६५.१२ ॥

Slōka 13 / श्लोक १३

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। ७.६५.१३ ॥

Slōka 14 / श्लोक १४

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। ७.६५.१४ ॥

Slōka 15 / श्लोक १५

निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। ७.६५.१५ ॥

Slōka 16 / श्लोक १६

यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।
तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। ७.६५.१६ ॥

Slōka 17 / श्लोक १७

एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। ७.६५.१७ ॥

Slōka 18 / श्लोक १८

राजापि यजते यज्ञमस्याश्रमसमीपतः ।
अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। ७.६५.१८ ॥

Slōka 19 / श्लोक १९

तत्र यज्ञो महानासीद्बहुवर्षगणायुतः ।
समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। ७.६५.१९ ॥

Slōka 20 / श्लोक २०

अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। ७.६५.२० ॥

Slōka 21 / श्लोक २१

अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम ।
दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। ७.६५.२१ ॥

Slōka 22 / श्लोक २२

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।
भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। ७.६५.२२ ॥

Slōka 23 / श्लोक २३

हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।
तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। ७.६५.२३ ॥

Slōka 24 / श्लोक २४

शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।
स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। ७.६५.२४ ॥

Slōka 25 / श्लोक २५

स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। ७.६५.२५ ॥

Slōka 26 / श्लोक २६

स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।
मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ।। ७.६५.२६ ॥

Slōka 27 / श्लोक २७

ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।
क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ।। ७.६५.२७ ॥

Slōka 28 / श्लोक २८

यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।
तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। ७.६५.२८ ॥

Slōka 29 / श्लोक २९

ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।
वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ।। ७.६५.२९ ॥

Slōka 30 / श्लोक ३०

राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः ।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ।। ७.६५.३० ॥

Slōka 31 / श्लोक ३१

ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ।। ७.६५.३१ ॥

Slōka 32 / श्लोक ३२

तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।
तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः ।कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।। ७.६५.३२ ॥

Slōka 33 / श्लोक ३३

स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ।। ७.६५.३३ ॥

Slōka 34 / श्लोक ३४

तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ।। ७.६५.३४ ॥

Slōka 35 / श्लोक ३५

मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ।। ७.६५.३५ ॥

Slōka 36 / श्लोक ३६

कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति ।
मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ।। ७.६५.३६ ॥

Slōka 37 / श्लोक ३७

एवं स राजा तं शापमुपभुज्यारिसूदनः ।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ।। ७.६५.३७ ॥

Slōka 38 / श्लोक ३८

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।
आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ।। ७.६५.३८ ॥

Slōka 39 / श्लोक ३९

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।
विवेश पर्णशालायां महर्षिमभिवाद्य च ।। ७.६५.३९ ।।