उत्तरकाण्डम्डम्
Chapter 81 / सर्गः ८१
Slōka 1 / श्लोक १
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ।। ७.८१.१ ॥
Slōka 2 / श्लोक २
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ।। ७.८१.२ ॥
Slōka 3 / श्लोक ३
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ।। ७.८१.३ ॥
Slōka 4 / श्लोक ४
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।
विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ।। ७.८१.४ ॥
Slōka 5 / श्लोक ५
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ।। ७.८१.५ ॥
Slōka 6 / श्लोक ६
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ।। ७.८१.६ ॥
Slōka 7 / श्लोक ७
सप्तरात्रेण राजासौ सभृत्यबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ।। ७.८१.७ ॥
Slōka 8 / श्लोक ८
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ।। ७.८१.८ ॥
Slōka 9 / श्लोक ९
सर्वसत्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ।। ७.८१.९ ॥
Slōka 10 / श्लोक १०
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ।। ७.८१.१० ॥
Slōka 11 / श्लोक ११
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ।। ७.८१.११ ॥
Slōka 12 / श्लोक १२
श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ।। ७.८१.१२ ॥
Slōka 13 / श्लोक १३
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ।। ७.८१.१३ ॥
Slōka 14 / श्लोक १४
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ।। ७.८१.१४ ॥
Slōka 15 / श्लोक १५
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ।। ७.८१.१५ ॥
Slōka 16 / श्लोक १६
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा ।
तथेति पितरं प्राह भार्गवं भृशदुःखिता ।इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ।। ७.८१.१६ ॥
Slōka 17 / श्लोक १७
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ।। ७.८१.१७ ॥
Slōka 18 / श्लोक १८
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ।। ७.८१.१८ ॥
Slōka 19 / श्लोक १९
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।
तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ।। ७.८१.१९ ॥
Slōka 20 / श्लोक २०
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।
सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ।। ७.८१.२० ॥
Slōka 21 / श्लोक २१
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ।। ७.८१.२१ ॥
Slōka 22 / श्लोक २२
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ।। ७.८१.२२ ।।