Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 102 / सर्गः १०२

Slōka 1 / श्लोक १

तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह ।
वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ।। ७.१०२.१ ॥

Slōka 2 / श्लोक २

इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।। ७.१०२.२ ॥

Slōka 3 / श्लोक ३

इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् ।
रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ।। ७.१०२.३ ॥

Slōka 4 / श्लोक ४

न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् ।
स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।। ७.१०२.४ ॥

Slōka 5 / श्लोक ५

तथोक्तवति रामे तु भरतः प्रत्युवाच ह ।
अयं कारुपथो देशो रमणीयो निरामयः ।। ७.१०२.५ ॥

Slōka 6 / श्लोक ६

निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ।
चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।। ७.१०२.६ ॥

Slōka 7 / श्लोक ७

तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ।
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।। ७.१०२.७ ॥

Slōka 8 / श्लोक ८

अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता ।
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ।। ७.१०२.८ ॥

Slōka 9 / श्लोक ९

चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता ।
चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ।। ७.१०२.९ ॥

Slōka 10 / श्लोक १०

ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ।
ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ।। ७.१०२.१० ॥

Slōka 11 / श्लोक ११

अभिषिच्य कुमारौ स प्रस्थापयति राघवः ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ।। ७.१०२.११ ॥

Slōka 12 / श्लोक १२

अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ।। ७.१०२.१२ ॥

Slōka 13 / श्लोक १३

लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ।
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ।। ७.१०२.१३ ॥

Slōka 14 / श्लोक १४

भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् ।
अयोध्यां पुनरागम्य रामपादावुपास्त सः ।। ७.१०२.१४ ॥

Slōka 15 / श्लोक १५

उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ।
कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ।। ७.१०२.१५ ॥

Slōka 16 / श्लोक १६

एवं वर्षसहस्राणि दश तेषां ययुस्तदा ।
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ।। ७.१०२.१६ ॥

Slōka 17 / श्लोक १७

विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ।
त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ।। ७.१०२.१७ ।।