उत्तरकाण्डम्डम्
Chapter 104 / सर्गः १०४
Slōka 1 / श्लोक १
शृणु राजन्महासत्व यदर्थमहमागतः ।
पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।। ७.१०४.१ ॥
Slōka 2 / श्लोक २
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय ।
मायासम्भावितो वीर कालः सर्वसमाहरः ।। ७.१०४.२ ॥
Slōka 3 / श्लोक ३
पितामहश्च भगवानाह लोकपतिः प्रभुः ।
समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।। ७.१०४.३ ॥
Slōka 4 / श्लोक ४
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि ।
महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।। ७.१०४.४ ॥
Slōka 5 / श्लोक ५
भोगवन्तं ततो नागमनन्तमुदकेशयम् ।
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।। ७.१०४.५ ॥
Slōka 6 / श्लोक ६
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता ।
इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।। ७.१०४.६ ॥
Slōka 7 / श्लोक ७
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि ।
प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।। ७.१०४.७ ॥
Slōka 8 / श्लोक ८
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् ।
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।। ७.१०४.८ ॥
Slōka 9 / श्लोक ९
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् ।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.१०४.९ ॥
Slōka 10 / श्लोक १०
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः ।
समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।। ७.१०४.१० ॥
Slōka 11 / श्लोक ११
स त्वं वित्रास्यमानासु प्रजासु जगतां वर ।
रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।। ७.१०४.११ ॥
Slōka 12 / श्लोक १२
दश वर्षसहस्राणि दश वर्षशतानि च ।
कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।। ७.१०४.१२ ॥
Slōka 13 / श्लोक १३
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह ।
कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।। ७.१०४.१३ ॥
Slōka 14 / श्लोक १४
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् ।
वस वा वीर भद्रं त एवमाह पितामहः ।। ७.१०४.१४ ॥
Slōka 15 / श्लोक १५
अथ वा विजिगीषा ते सुरलोकाय राघव ।
सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। ७.१०४.१५ ॥
Slōka 16 / श्लोक १६
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् ।
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।। ७.१०४.१६ ॥
Slōka 17 / श्लोक १७
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् ।
प्रीतिर्हि महती जाता तवागमनसम्भवा ।। ७.१०४.१७ ॥
Slōka 18 / श्लोक १८
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः ।
भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।। ७.१०४.१८ ॥
Slōka 19 / श्लोक १९
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा ।
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् ।स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।। ७.१०४.१९ ।।