युद्धकाण्डम्
Chapter 5 / सर्गः ५
Slōka 1 / श्लोक १
सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता ।
सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥।।
Slōka 2 / श्लोक २
मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ ।
विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥।।
Slōka 3 / श्लोक ३
निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः ।
पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥।।
Slōka 4 / श्लोक ४
शोकः च किल कालेन गच्चता हि अपगच्चति ।
मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥।।
Slōka 5 / श्लोक ५
न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च ।
तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥।।
Slōka 6 / श्लोक ६
वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश ।
त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥।।
Slōka 7 / श्लोक ७
तन् मे दहति गात्राणि विषम् पीतम् इव आशये ।
हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥।।
Slōka 8 / श्लोक ८
तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा ।
रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥।।
Slōka 9 / श्लोक ९
अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना ।
कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥।।
Slōka 10 / श्लोक १०
बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् ।
यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥।।
Slōka 11 / श्लोक ११
केदारस्य इव केदारः स उदकस्य निरूदकः ।
उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥।।
Slōka 12 / श्लोक १२
कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् ।
विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥।।
Slōka 13 / श्लोक १३
कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् ।
ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥।।
Slōka 14 / श्लोक १४
तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ ।
कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥।।
Slōka 15 / श्लोक १५
सा नूनम् असित अपान्गी रक्षो मध्य गता सती ।
मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥।।
Slōka 16 / श्लोक १६
कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति ।
राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥।।
Slōka 17 / श्लोक १७
अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति ।
विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥।।
Slōka 18 / श्लोक १८
स्वभाव तनुका नूनम् शोकेन अनशनेन च ।
भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥।।
Slōka 19 / श्लोक १९
कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् ।
सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥।।
Slōka 20 / श्लोक २०
कदा नु खलु माम् साध्वी सीता अमर सुता उपमा ।
स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥।।
Slōka 21 / श्लोक २१
कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् ।
सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥।।
Slōka 22 / श्लोक २२
एवम् विलपतस् तस्य तत्र रामस्य धीमतः ।
दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥।।
Slōka 23 / श्लोक २३
आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत ।
स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥