Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 24 / सर्गः २४

Slōka 1 / श्लोक १

निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् ।
जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। ७.२४.१ ॥

Slōka 2 / श्लोक २

दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति ।
हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। ७.२४.२ ॥

Slōka 3 / श्लोक ३

एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।
यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। ७.२४.३ ॥

Slōka 4 / श्लोक ४

ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् ।
तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। ७.२४.४ ॥

Slōka 5 / श्लोक ५

ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।
आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। ७.२४.५ ॥

Slōka 6 / श्लोक ६

नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।
दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। ७.२४.६ ॥

Slōka 7 / श्लोक ७

दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।
पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। ७.२४.७ ॥

Slōka 8 / श्लोक ८

रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः ।
स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। ७.२४.८ ॥

Slōka 9 / श्लोक ९

शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ।
तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। ७.२४.९ ॥

Slōka 10 / श्लोक १०

अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् ।
दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। ७.२४.१० ॥

Slōka 11 / श्लोक ११

दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।
काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। ७.२४.११ ॥

Slōka 12 / श्लोक १२

काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ।
इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च ।दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। ७.२४.१२ ॥

Slōka 13 / श्लोक १३

कथं नु खलु मे पुत्रो भविष्यति मया विना ।
कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.१३ ।॥

Slōka 14 / श्लोक १४

हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।
मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। ७.२४.१४ ॥

Slōka 15 / श्लोक १५

किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।
। ७.२४.१५ ॥

Slōka 16 / श्लोक १६

एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ।
न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। ७.२४.१६ ॥

Slōka 17 / श्लोक १७

अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।
यद्दुर्बला बलवता भर्तारो रावणेन नः ।। ७.२४.१७ ॥

Slōka 18 / श्लोक १८

सूर्येणोदयता काले नक्षत्राणीव नाशिताः ।
अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। ७.२४.१८ ॥

Slōka 19 / श्लोक १९

अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते ।
सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। ७.२४.१९ ॥

Slōka 20 / श्लोक २०

इदं त्वसदृशं कर्म परदाराभिमर्शनम् ।
यस्मादेष परक्यासु रमते राक्षसाधमः ।। ७.२४.२० ॥

Slōka 21 / श्लोक २१

तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ।
सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। ७.२४.२१ ॥

Slōka 22 / श्लोक २२

नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ।
शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। ७.२४.२२ ॥

Slōka 23 / श्लोक २३

पतिव्रताभिः साध्वीभिर्बभूव विमना इव ।
एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ७.२४.२३ ॥

Slōka 24 / श्लोक २४

एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।
सहसा पतिता भूमौ भगिनी रावणस्य सा ।। ७.२४.२४ ॥

Slōka 25 / श्लोक २५

तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।
अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। ७.२४.२५ ॥

Slōka 26 / श्लोक २६

सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।
कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। ७.२४.२६ ॥

Slōka 27 / श्लोक २७

एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।
कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। ७.२४.२७ ॥

Slōka 28 / श्लोक २८

प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।
। ७.२४.२८ ॥

Slōka 29 / श्लोक २९

सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ।
त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।। ७.२४.२९ ॥

Slōka 30 / श्लोक ३०

राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ।
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।। ७.२४.३० ॥

Slōka 31 / श्लोक ३१

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।। ७.२४.३१ ॥

Slōka 32 / श्लोक ३२

अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।। ७.२४.३२ ॥

Slōka 33 / श्लोक ३३

युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् ।
नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।। ७.२४.३३ ॥

Slōka 34 / श्लोक ३४

जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।
तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।। ७.२४.३४ ॥

Slōka 35 / श्लोक ३५

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।
भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।। ७.२४.३५ ॥

Slōka 36 / श्लोक ३६

चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।
प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ७.२४.३६ ॥

Slōka 37 / श्लोक ३७

तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः ।
भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।। ७.२४.३७ ॥

Slōka 38 / श्लोक ३८

शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।
दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।। ७.२४.३८ ॥

Slōka 39 / श्लोक ३९

तत्र ते वचनं शूरः करिष्यति सदा खरः ।
रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। ७.२४.३९ ॥

Slōka 40 / श्लोक ४०

एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।
चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। ७.२४.४० ॥

Slōka 41 / श्लोक ४१

स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः ।
आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। ७.२४.४१ ॥

Slōka 42 / श्लोक ४२

स तत्र कारयामास राज्यं निहतकण्टकम् ।
सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। ७.२४.४२ ।।