Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 108 / सर्गः १०८

Slōka 1 / श्लोक १

ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ।। ७.१०८.१ ॥

Slōka 2 / श्लोक २

ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।
शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ।। ७.१०८.२ ॥

Slōka 3 / श्लोक ३

लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ।। ७.१०८.३ ॥

Slōka 4 / श्लोक ४

कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।
कुशावतीति नाम्ना सा कृता रामेण धीमता ।श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।। ७.१०८.४ ॥

Slōka 5 / श्लोक ५

अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ।
स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।। ७.१०८.५ ॥

Slōka 6 / श्लोक ६

एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।
विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।। ७.१०८.६ ॥

Slōka 7 / श्लोक ७

तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ।
प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। ७.१०८.७ ॥

Slōka 8 / श्लोक ८

तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः ।
आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। ७.१०८.८ ॥

Slōka 9 / श्लोक ९

ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः ।
सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। ७.१०८.९ ॥

Slōka 10 / श्लोक १०

द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।
धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। ७.१०८.१० ॥

Slōka 11 / श्लोक ११

सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् ।
ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। ७.१०८.११ ॥

Slōka 12 / श्लोक १२

स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।
सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। ७.१०८.१२ ॥

Slōka 13 / श्लोक १३

सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।
उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। ७.१०८.१३ ॥

Slōka 14 / श्लोक १४

कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.१४ ॥

Slōka 15 / श्लोक १५

न चान्यदपि वक्तव्यमतो वीर न शासनम् ।
विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। ७.१०८.१५ ॥

Slōka 16 / श्लोक १६

तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।
बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। ७.१०८.१६ ॥

Slōka 17 / श्लोक १७

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।
ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। ७.१०८.१७ ॥

Slōka 18 / श्लोक १८

सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।
तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। ७.१०८.१८ ॥

Slōka 19 / श्लोक १९

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।
रामक्षयं विदित्वा ते सर्व एव समागताः ।। ७.१०८.१९ ॥

Slōka 20 / श्लोक २०

ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।
तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। ७.१०८.२० ॥

Slōka 21 / श्लोक २१

यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। ७.१०८.२१ ॥

Slōka 22 / श्लोक २२

तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।
। ७.१०८.२२ ॥

Slōka 23 / श्लोक २३

एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः ।
प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। ७.१०८.२३ ॥

Slōka 24 / श्लोक २४

अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.२४ ॥

Slōka 25 / श्लोक २५

तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ।
वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। ७.१०८.२५ ॥

Slōka 26 / श्लोक २६

सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः ।
गच्छेयं देवलोकं वा परमं वा पदं महत् ।। ७.१०८.२६ ॥

Slōka 27 / श्लोक २७

बिभीषणमथोवाच राक्षसेन्द्रं महायशाः ।
यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण ।राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ।। ७.१०८.२७ ॥

Slōka 28 / श्लोक २८

यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। ७.१०८.२८ ॥

Slōka 29 / श्लोक २९

शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् ।
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। ७.१०८.२९ ॥

Slōka 30 / श्लोक ३०

किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।
। ७.१०८.३० ॥

Slōka 31 / श्लोक ३१

आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ।
आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। ७.१०८.३१ ॥

Slōka 32 / श्लोक ३२

तथेति प्रतिजग्राह रामवाक्यं विभीषणः ।
राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।। ७.१०८.३२ ॥

Slōka 33 / श्लोक ३३

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। ७.१०८.३३ ॥

Slōka 34 / श्लोक ३४

मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।
तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। ७.१०८.३४ ॥

Slōka 35 / श्लोक ३५

एवमुक्तस्तु हनुमान्राघवेण महात्मना ।
वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। ७.१०८.३५ ॥

Slōka 36 / श्लोक ३६

यावत्तव कथा लोके विचरिष्यति पावनी ।
तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। ७.१०८.३६ ॥

Slōka 37 / श्लोक ३७

जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ।
मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ।। ७.१०८.३७ ॥

Slōka 38 / श्लोक ३८

तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ।। ७.१०८.३८ ।।