Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 26 / सर्गः २६

Slōka 1 / श्लोक १

स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।
अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ।। ७.२६.१ ॥

Slōka 2 / श्लोक २

उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।
प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ।। ७.२६.२ ॥

Slōka 3 / श्लोक ३

रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि ।
स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ।। ७.२६.३ ॥

Slōka 4 / श्लोक ४

कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।
पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ।। ७.२६.४ ॥

Slōka 5 / श्लोक ५

चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।
चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः ।तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ।। ७.२६.५ ॥

Slōka 6 / श्लोक ६

आरग्वधैस्तमालैश्च प्रियालवकुलैरपि ।
एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ।। ७.२६.६ ॥

Slōka 7 / श्लोक ७

समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ।
। ७.२६.७ ॥

Slōka 8 / श्लोक ८

भिरुद्भासितवनान्तरे ।
विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ।। ७.२६.८ ॥

Slōka 9 / श्लोक ९

घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः ।
अप्सरोगणसङ्घानां गायतां धनदालये ।। ७.२६.९ ॥

Slōka 10 / श्लोक १०

पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।
शैलं तं वासयन्तीव मधुमाधवगन्धिनः ।। ७.२६.१० ॥

Slōka 11 / श्लोक ११

मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।
प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ।। ७.२६.११ ॥

Slōka 12 / श्लोक १२

गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।
प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ।। ७.२६.१२ ॥

Slōka 13 / श्लोक १३

रावणस्तु महावीर्यः कामस्य वशमागतः ।
विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ।। ७.२६.१३ ॥

Slōka 14 / श्लोक १४

एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।
सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ।। ७.२६.१४ ॥

Slōka 15 / श्लोक १५

दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।
दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ।। ७.२६.१५ ॥

Slōka 16 / श्लोक १६

चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।
समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ।। ७.२६.१६ ॥

Slōka 17 / श्लोक १७

कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ।
। ७.२६.१७ ॥

Slōka 18 / श्लोक १८

बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।
नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ।। ७.२६.१८ ॥

Slōka 19 / श्लोक १९

यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ।
ऊरू करिकराकारौ करौ पल्लवकोमलौ ।सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ।। ७.२६.१९ ॥

Slōka 20 / श्लोक २०

तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।
करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ।। ७.२६.२० ॥

Slōka 21 / श्लोक २१

क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।
कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ।। ७.२६.२१ ॥

Slōka 22 / श्लोक २२

त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।
सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ।। ७.२६.२२ ॥

Slōka 23 / श्लोक २३

स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।
कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ।। ७.२६.२३ ॥

Slōka 24 / श्लोक २४

सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।
अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ।। ७.२६.२४ ॥

Slōka 25 / श्लोक २५

मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ ।
मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ।। ७.२६.२५ ॥

Slōka 26 / श्लोक २६

विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ।
। ७.२६.२६ ॥

Slōka 27 / श्लोक २७

त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ।
। ७.२६.२७ ॥

Slōka 28 / श्लोक २८

तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ।
भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ।। ७.२६.२८ ॥

Slōka 29 / श्लोक २९

एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ।। ७.२६.२९ ॥

Slōka 30 / श्लोक ३०

अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।
तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ।। ७.२६.३० ॥

Slōka 31 / श्लोक ३१

अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।
रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ।। ७.२६.३१ ॥

Slōka 32 / श्लोक ३२

सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।
बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।। ७.२६.३२ ॥

Slōka 33 / श्लोक ३३

धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ।। ७.२६.३३ ॥

Slōka 34 / श्लोक ३४

धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।
क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ।। ७.२६.३४ ॥

Slōka 35 / श्लोक ३५

तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै ।
तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ।। ७.२६.३५ ॥

Slōka 36 / श्लोक ३६

तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ।
। ७.२६.३६ ॥

Slōka 37 / श्लोक ३७

तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ।
। ७.२६.३७ ॥

Slōka 38 / श्लोक ३८

स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः ।
तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ।। ७.२६.३८ ॥

Slōka 39 / श्लोक ३९

सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव ।
माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ।। ७.२६.३९ ॥

Slōka 40 / श्लोक ४०

एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।
स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।देवलोकस्थितिरियं सुराणां शाश्वती मता ।। ७.२६.४० ॥

Slōka 41 / श्लोक ४१

पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ।
। ७.२६.४१ ॥

Slōka 42 / श्लोक ४२

स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।
एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ।। ७.२६.४२ ॥

Slōka 43 / श्लोक ४३

सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।
गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ।। ७.२६.४३ ॥

Slōka 44 / श्लोक ४४

लुलिताकुलकेशान्ता करवेपितपल्लवा ।
पवनेनावधूतेव लता कुसुमशालिनी ।। ७.२६.४४ ॥

Slōka 45 / श्लोक ४५

सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।
नलकूबरमासाद्य पादयोर्निपपात ह ।। ७.२६.४५ ॥

Slōka 46 / श्लोक ४६

तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।
अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ।। ७.२६.४६ ॥

Slōka 47 / श्लोक ४७

सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः ।
तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ।। ७.२६.४७ ॥

Slōka 48 / श्लोक ४८

एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।
तेन सैन्यसहायेन निशेयं परिणामिता ।। ७.२६.४८ ॥

Slōka 49 / श्लोक ४९

आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम ।
गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ।। ७.२६.४९ ॥

Slōka 50 / श्लोक ५०

मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।
काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ।। ७.२६.५० ॥

Slōka 51 / श्लोक ५१

याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो ।
तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ।। ७.२६.५१ ॥

Slōka 52 / श्लोक ५२

एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत ।
न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ।। ७.२६.५२ ॥

Slōka 53 / श्लोक ५३

एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः ।
धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ।। ७.२६.५३ ॥

Slōka 54 / श्लोक ५४

तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।
मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ।। ७.२६.५४ ॥

Slōka 55 / श्लोक ५५

गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।
उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ।। ७.२६.५५ ॥

Slōka 56 / श्लोक ५६

अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।
तस्मात्स युवतीमन्यां नाकामामुपयास्यति ।। ७.२६.५६ ॥

Slōka 57 / श्लोक ५७

यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।
मूर्धा तु सप्तधा तस्य शकलीभविता तदा ।। ७.२६.५७ ॥

Slōka 58 / श्लोक ५८

तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ।। ७.२६.५८ ॥

Slōka 59 / श्लोक ५९

ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।
ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ।। ७.२६.५९ ॥

Slōka 60 / श्लोक ६०

श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।
नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ।। ७.२६.६० ॥

Slōka 61 / श्लोक ६१

तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।
नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ।। ७.२६.६१ ।।