अरण्यकाण्डम्
Chapter 24 / सर्गः २४
Slōka 1 / श्लोक १
आश्रमम् प्रति याते तु खरे खर पराक्रमे ।
तान् एव औत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥
Slōka 2 / श्लोक २
तान् उत्पातान् महाघोरान् रामो दृष्ट्वा अति अमर्षण ।
प्रजानाम् अहितान् दृष्ट्वा वाक्यम् लक्ष्मणम् अब्रवीत् ॥३-२४-२॥
Slōka 3 / श्लोक ३
इमान् पश्य महाबाहो सर्व भूत अपहारिणः ।
समुत्थितान् महा उत्पातान् संहर्तुम् सर्व राक्षसान् ॥३-२४-३॥
Slōka 4 / श्लोक ४
अमी रुधिर धाराः तु विसृजंतो खर स्वनाः ।
व्योम्नि मेघा निवर्तन्ते परुषा गर्दभ अरुणाः ॥३-२४-४॥
Slōka 5 / श्लोक ५
स धूमाः च शराः सर्वे मम युद्ध अभिनन्दिताः ।
रुक्म पृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥
Slōka 6 / श्लोक ६
यादृशा इह कूजन्ति पक्षिणो वन चारिणः ।
अग्रतो नः भयम् प्राप्तम् संशयो जीवितस्य च ॥३-२४-६॥
Slōka 7 / श्लोक ७
संप्रहारः तु सुमहान् भविष्यति न संशयः ।
अयम् आख्याति मे बाहुः स्फुरमाणो मुहुर् मुहुः ॥३-२४-७॥
Slōka 8 / श्लोक ८
संनिकर्षे तु नः शूर जयम् शत्रोः पराजयम् ।
सुप्रभम् च प्रसन्नम् च तव वक्त्रम् हि लक्ष्यते ॥३-२४-८॥
Slōka 9 / श्लोक ९
उद्यतानाम् हि युद्धार्थम् येषाम् भवति लक्ष्मणः ।
निष्प्रभम् वदनम् तेषाम् भवति आयुः परिक्षयः ॥३-२४-९॥
Slōka 10 / श्लोक १०
रक्षसाम् नर्दताम् घोरः श्रूयते अयम् महाध्वनिः ।
आहतानाम् च भेरीणाम् राक्षसैः क्रूर कर्मभिः ॥३-२४-१०॥
Slōka 11 / श्लोक ११
अनागत विधानम् तु कर्तव्यम् शुभम् इच्छता ।
आपदम् शंकमानेन पुरुषेण विपश्चिता ॥३-२४-११॥
Slōka 12 / श्लोक १२
तस्मात् गृहीत्वा वैदेहीम् शर पाणिः धनुर् धरः ।
गुहाम् आश्रय शैलस्य दुर्गाम् पादप संकुलाम् ॥३-२४-१२॥
Slōka 13 / श्लोक १३
प्रतिकूलितुम् इच्छामि न हि वाक्यम् इदम् त्वया ।
शापितो मम पादाभ्याम् गम्यताम् वत्स मा चिरम् ॥३-२४-१३॥
Slōka 14 / श्लोक १४
त्वम् हि शूरः च बलवान् हन्या एतान् न संशयः ।
स्वयम् निहन्तुम् इच्छमि सर्वान् एव निशाचरान् ॥३-२४-१४॥
Slōka 15 / श्लोक १५
एवम् उक्तः तु रामेण लक्ष्मणः सह सीतया ।
शरान् आदाय चापम् च गुहाम् दुर्गाम् समाश्रयत् ॥३-२४-१५॥
Slōka 16 / श्लोक १६
तस्मिन् प्रविष्टे तु गुहाम् लक्ष्मणे सह सीतया ।
हन्त निर्युक्तम् इति उक्त्वा रामः कवचम् आविशत् ॥३-२४-१६॥
Slōka 17 / श्लोक १७
स तेन अग्नि निकाशेन कवचेन विभूषितः ।
बभूव रामः तिमिरे महान् अग्निर् इव उत्थितः ॥३-२४-१७॥
Slōka 18 / श्लोक १८
स चापम् उद्यम्य महत् शरान् आदाय वीर्यवान् ।
संबभूव अवस्थितः तत्र ज्या स्वनैः पूरयन् दिशः ॥३-२४-१८॥
Slōka 19 / श्लोक १९
ततो देवाः सगन्धर्वाः सिद्धाः च सह चारणैः ।
समेयुः च महात्मनो युद्ध दर्शन कांक्षया ॥३-२४-१९॥
Slōka 20 / श्लोक २०
ऋषयः च महात्मनो लोके ब्रह्मर्षि सत्तमाः ।
समेत्य च ऊचुः सहिताः ते अन्योन्यम् पुण्य कर्मणः ॥३-२४-२०॥
Slōka 21 / श्लोक २१
स्वस्ति गो ब्राह्मणानाम् च लोकानाम् च इति संस्थिताः ।
जयताम् राघवो युद्धे पौलस्त्यान् रजनी चरान् ॥३-२४-२१॥
Slōka 22 / श्लोक २२
चक्र हस्तो यथा युद्धे सर्वान् असुर पुंगवान् ।
एवम् उक्त्वा पुनः प्र ऊचुः आलोक्य च परस्परम् ॥३-२४-२२॥
Slōka 23 / श्लोक २३
चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् ।
एकः च रामो धर्मात्मा कथम् युद्धम् भविष्यति ॥३-२४-२३॥
Slōka 24 / श्लोक २४
इति राजर्षयः सिद्धाः स गणाः च द्विजर्षभाः ।
जात कौतूहलात् तस्थुर् विमानस्थाः च देवता ॥३-२४-२४॥
Slōka 25 / श्लोक २५
आविष्टम् तेजसा रामम् संग्राम शिरसि स्थितम् ।
दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥३-२४-२५॥
Slōka 26 / श्लोक २६
रूपम् अप्रतिमम् तस्य रामस्य अक्लिष्ट कर्मणः ।
बभूव रूपम् क्रुद्धस्य रुद्रस्य इव महात्मनः ॥३-२४-२६॥
Slōka 27 / श्लोक २७
इति संभाष्यमाणो तु देव गंधर्व चारणैः ।
ततो गंभीर निर्ह्रादम् घोर चर्म आयुध ध्वजम् ॥३-२४-२७॥
Slōka 28 / श्लोक २८
अनीकम् यातुधानानाम् समन्तात् प्रत्यदृश्यत ।
वीर आलापान् विसृजताम् अन्योन्यम् अभिगच्छताम् ॥३-२४-२८॥
Slōka 29 / श्लोक २९
चापानि विस्फरयताम् जृंभताम् च अपि अभीक्ष्णशः ।
विप्रघुष्ट स्वनानाम् च दुंदुभीम् च अपि निघ्नताम् ॥३-२४-२९॥
Slōka 30 / श्लोक ३०
तेषाम् सुतुमुलः शब्दः पूरयामास तद् वनम् ।
तेन शब्देन वित्रस्ताः श्वापदा वन चारिणः ॥३-२४-३०॥
Slōka 31 / श्लोक ३१
दुद्रुवुः यत्र निःशब्दम् पृष्ठतो न अवलोकयन् ।
तत् च अनीकम् महावेगम् रामम् समनुवर्तत ॥३-२४-३१॥
Slōka 32 / श्लोक ३२
घृत नाना प्रहरणम् गंभीरम् सागरोपमम् ।
रामो अपि चारयन् चक्षुः सर्वतो रण पण्डितः ॥३-२४-३२॥
Slōka 33 / श्लोक ३३
ददर्श खर सैन्यम् तत् युद्ध अभिमुखो गतः ।
वितत्य च धनुर् भीमम् तूण्याः च उद्धृत्य सायकान् ॥३-२४-३३॥
Slōka 34 / श्लोक ३४
क्रोधम् आहारयत् तीव्रम् वधार्थम् सर्व रक्षसाम् ।
दुष्प्रेक्ष्यश्चाभवत्क्रुद्धोयुगान्ताग्निरिवज्वलन् - यद्वा -दुष्प्रेक्ष्यः च अभवत् क्रुद्धो युगान्त अग्निः इव ज्वलन् ॥३-२४-३४॥
Slōka 35 / श्लोक ३५
तम् दृष्ट्वा तेजसा आविष्टम् प्राव्यथन् वन देवताः ।
तस्य रुष्ट्स्य रूपम् तु रामस्य ददृशे तदा ।दक्षस्य इव क्रतुम् हन्तुम् उद्यतस्य पिनाकिनी ॥३-२४-३५॥
Slōka 36 / श्लोक ३६
तत् कार्मुकैः आभरणैः रथैः चतत् वर्माभिः च अग्नि समान वर्णैः ।
बभूव सैन्यम् पिशित अशनिनाम्सूर्य उदये नीलम् इव अभ्र जालम् ॥३-२४-३६॥