उत्तरकाण्डम्डम्
Chapter 32 / सर्गः ३२
Slōka 1 / श्लोक १
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ।। ७.३२.१ ॥
Slōka 2 / श्लोक २
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।
क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ।। ७.३२.२ ॥
Slōka 3 / श्लोक ३
तासां मध्यगतो राजा रराज च तदार्जुनः ।
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ।। ७.३२.३ ॥
Slōka 4 / श्लोक ४
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।
रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ।। ७.३२.४ ॥
Slōka 5 / श्लोक ५
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।
कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ।। ७.३२.५ ॥
Slōka 6 / श्लोक ६
समीननक्रमकरः सपुष्पकुशसंस्तरः ।
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ।। ७.३२.६ ॥
Slōka 7 / श्लोक ७
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः ।
पुष्पोपहारं सकलं रावणस्य जहार ह ।। ७.३२.७ ॥
Slōka 8 / श्लोक ८
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा ।
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ।। ७.३२.८ ॥
Slōka 9 / श्लोक ९
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।
वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ।। ७.३२.९ ॥
Slōka 10 / श्लोक १०
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।
निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ।। ७.३२.१० ॥
Slōka 11 / श्लोक ११
सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।
वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ।। ७.३२.११ ॥
Slōka 12 / श्लोक १२
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ ।
व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ।। ७.३२.१२ ॥
Slōka 13 / श्लोक १३
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ।। ७.३२.१३ ॥
Slōka 14 / श्लोक १४
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।
मदरक्तान्तनयनं मदव्याकुलतेजसम् ।। ७.३२.१४ ॥
Slōka 15 / श्लोक १५
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।
गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ।। ७.३२.१५ ॥
Slōka 16 / श्लोक १६
बालानां वरनारीणां सहस्रेण समावृतम् ।
समदानां करेणूनां सहस्रेणेव कुञ्जरम् ।। ७.३२.१६ ॥
Slōka 17 / श्लोक १७
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।
सन्निवृत्तावुपागम्य रावणं तमथोचतुः ।। ७.३२.१७ ॥
Slōka 18 / श्लोक १८
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर ।
नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ।। ७.३२.१८ ॥
Slōka 19 / श्लोक १९
तेन बाहुसहस्रेण सन्निरुद्धजला नदी ।
सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ।। ७.३२.१९ ॥
Slōka 20 / श्लोक २०
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ।
रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ।। ७.३२.२० ॥
Slōka 21 / श्लोक २१
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे ।
चण्डः प्रवाति पवनः सनादः सुरजास्तथा ।। ७.३२.२१ ॥
Slōka 22 / श्लोक २२
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ।
महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।। ७.३२.२२ ॥
Slōka 23 / श्लोक २३
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ।
अदीर्घेणैव कालेन स तदा राक्षसो बली ।तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ।। ७.३२.२३ ॥
Slōka 24 / श्लोक २४
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ।। ७.३२.२४ ॥
Slōka 25 / श्लोक २५
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।
। ७.३२.२५ ॥
Slōka 26 / श्लोक २६
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा ।
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।। ७.३२.२६ ॥
Slōka 27 / श्लोक २७
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ।
रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते ।उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ।। ७.३२.२७ ॥
Slōka 28 / श्लोक २८
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ।
। ७.३२.२८ ।।
Slōka 29 / श्लोक २९
चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते ।
यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् ।स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् ।वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ।। ७.३२.२९ ॥
Slōka 30 / श्लोक ३०
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया ।
युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम् ।। ७.३२.३० ॥
Slōka 31 / श्लोक ३१
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता ।
निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ।। ७.३२.३१ ॥
Slōka 32 / श्लोक ३२
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।
सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ।। ७.३२.३२ ॥
Slōka 33 / श्लोक ३३
ततो हलहलाशब्दो नर्मदातीर आबभौ ।
अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ।। ७.३२.३३ ॥
Slōka 34 / श्लोक ३४
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ।
सरावणानर्दयन्तः समन्तात्समभिद्रुताः ।। ७.३२.३४ ॥
Slōka 35 / श्लोक ३५
हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।
सनक्रमीनमकरसमुद्रस्येव निःस्वनः ।। ७.३२.३५ ॥
Slōka 36 / श्लोक ३६
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः ।
कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ।। ७.३२.३६ ॥
Slōka 37 / श्लोक ३७
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।
क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ।। ७.३२.३७ ॥
Slōka 38 / श्लोक ३८
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः ।
उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ।। ७.३२.३८ ॥
Slōka 39 / श्लोक ३९
क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः ।
प्रजज्वाल महाघोरो युगान्त इव पावकः ।। ७.३२.३९ ॥
Slōka 40 / श्लोक ४०
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।
अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ।। ७.३२.४० ॥
Slōka 41 / श्लोक ४१
बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।
गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ।। ७.३२.४१ ॥
Slōka 42 / श्लोक ४२
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः ।
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ।। ७.३२.४२ ॥
Slōka 43 / श्लोक ४३
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः ।
प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ।। ७.३२.४३ ॥
Slōka 44 / श्लोक ४४
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।
प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ।। ७.३२.४४ ॥
Slōka 45 / श्लोक ४५
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः ।
निपुणं वञ्चयामास सगदो ऽगदविक्रमः ।। ७.३२.४५ ॥
Slōka 46 / श्लोक ४६
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।
भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ।। ७.३२.४६ ॥
Slōka 47 / श्लोक ४७
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा ।
निपपात स्थितः शैलो वज्रिवज्रहतो यथा ।। ७.३२.४७ ॥
Slōka 48 / श्लोक ४८
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।
समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ।। ७.३२.४८ ॥
Slōka 49 / श्लोक ४९
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते ।
रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ।। ७.३२.४९ ॥
Slōka 50 / श्लोक ५०
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।
नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ।। ७.३२.५० ॥
Slōka 51 / श्लोक ५१
सागराविव संरब्धौ चलन्मूलाविवाचलौ ।
तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ।। ७.३२.५१ ॥
Slōka 52 / श्लोक ५२
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।
मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ।। ७.३२.५२ ॥
Slōka 53 / श्लोक ५३
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ।
परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ।। ७.३२.५३ ॥
Slōka 54 / श्लोक ५४
वज्रप्रहारानचला यथा घोरान्विषेहिरे ।
गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ।। ७.३२.५४ ॥
Slōka 55 / श्लोक ५५
यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः ।
तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ।। ७.३२.५५ ॥
Slōka 56 / श्लोक ५६
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि ।
काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ।। ७.३२.५६ ॥
Slōka 57 / श्लोक ५७
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।
अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ।। ७.३२.५७ ॥
Slōka 58 / श्लोक ५८
नार्जुनः खेदमायाति न राक्षसगणेश्वरः ।
इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ।। ७.३२.५८ ॥
Slōka 59 / श्लोक ५९
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ ।
परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ।। ७.३२.५९ ॥
Slōka 60 / श्लोक ६०
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।
स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ।। ७.३२.६० ॥
Slōka 61 / श्लोक ६१
वरदानकृतत्राणे सा गदा रावणोरसि ।
दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ।। ७.३२.६१ ॥
Slōka 62 / श्लोक ६२
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।
अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ।। ७.३२.६२ ॥
Slōka 63 / श्लोक ६३
स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः ।
सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ।। ७.३२.६३ ॥
Slōka 64 / श्लोक ६४
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् ।
बबन्ध बलवान्राजा बलिं नारायणो यथा ।। ७.३२.६४ ॥
Slōka 65 / श्लोक ६५
बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।
साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ।। ७.३२.६५ ॥
Slōka 66 / श्लोक ६६
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ।
ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ।। ७.३२.६६ ॥
Slōka 67 / श्लोक ६७
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।
सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ।। ७.३२.६७ ॥
Slōka 68 / श्लोक ६८
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ ।
उद्भूत आतपापाये पयोदानामिवाम्बुधौ ।। ७.३२.६८ ॥
Slōka 69 / श्लोक ६९
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।
मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ।। ७.३२.६९ ॥
Slōka 70 / श्लोक ७०
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः ।
आयुधान्यमरारीणां जग्राहारिनिषूदनः ।। ७.३२.७० ॥
Slōka 71 / श्लोक ७१
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।
भित्त्वा विद्रावयामास वायुरम्बुधरानिव ।। ७.३२.७१ ॥
Slōka 72 / श्लोक ७२
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा ।
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ।। ७.३२.७२ ॥
Slōka 73 / श्लोक ७३
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः ।
तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ।। ७.३२.७३ ।।