Star (-) Watch (-)

Ramayana

किष्किन्धाकाण्डम्डम्

Chapter 42 / सर्गः ४२

Slōka 1 / श्लोक १

Slōka 1

ततः प्रस्थाप्य सुग्रीवः तान् हरीन् दक्षिणाम् दिशम् ।
अब्रवित् मेघ संकाशम् सुशेषणम् नाम वानरम् ॥४-४२-१॥

Slōka 2 / श्लोक २

Slōka 2

तारायाः पितरम् राजा श्वशुरम् भीम विक्रमम् ।
अब्रवीत् प्रांजलिः वाक्यम् अभिगम्य प्रणम्य च ॥४-४२-२॥

Slōka 3 / श्लोक ३

Slōka 3

महर्षि पुत्रम् मारीचम् अर्चिष्मन्तम् महाकपिम् ।
वृ^इतम् कपिवरैः शूरैः महेन्द्र सदृ^इश द्युतिम् ॥४-४२-३॥

Slōka 4 / श्लोक ४

Slōka 4

बुद्धि विक्रम सम्पन्नान् वैनतेय सम द्युतिम् ।
मरीचि पुत्रान् मारीचान् अर्चिर्माल्यान् महबलान् ॥४-४२-४॥

Slōka 5 / श्लोक ५

Slōka 5

ऋषि पुत्रान् च तान् सर्वान् प्रतीचीम् आदिशत् दिशम् ।
द्वाभ्याम् शत सहस्राभ्याम् कपीनाम् कपि सत्तमाः ॥४-४२-५॥

Slōka 6 / श्लोक ६

Slōka 6

सुशेषण प्रमुखा यूयम् वैदेहीम् परिमार्गथ ।
सौराष्ट्रान् सह बाह्लीकान् चंद्रचित्रान् तथैव च ॥४-४२-६॥

Slōka 7 / श्लोक ७

Slōka 7

स्फीतान् जन पदान् रम्यान् विपुलानि पुराणि च ।
पुंनाग गहनम् कुक्षिम् वकुल उद्दालक आकुलम् ॥४-४२-७॥

Slōka 8 / श्लोक ८

Slōka 8

तथा केतक खंडान् च मार्गध्वम् हरि पुंगवाः ।
प्रत्यक् स्रोतो वहाः चैव नद्यः शीतजलाः शिवाः ॥४-४२-८॥

Slōka 9 / श्लोक ९

Slōka 9

तापसानाम् अरण्यानि कांतारा गिरयः च ये ।
तत्र स्थलीः मरुप्राया अति उच्च शिखराः शिलाः ॥४-४२-९॥

Slōka 10 / श्लोक १०

Slōka 10

गिरि जाल आवृताम् दुर्गाम् मार्गित्वा पश्चिमाम् दिशम् ।
ततः पश्चिमम् आगम्य समुद्रम् द्रष्टुम् अर्हथ ॥४-४२-१०॥

Slōka 11 / श्लोक ११

Slōka 11

तिमि नक्र आकुल जलम् गत्वा द्रक्ष्यथ वानराः ।
ततः केतक खंडेषु तमाल गहनेषु च ॥४-४२-११॥

Slōka 12 / श्लोक १२

Slōka 12

कपयो विहरिष्यन्ति नारिकेल वनेषु च ।
तत्र सीताम् च मार्गध्वम् निलयम् रावणस्य च ॥४-४२-१२॥

Slōka 13 / श्लोक १३

Slōka 13

वेलातल निवेष्टेषु पर्वतेषु वनेषु च ।
मुरची पत्तनम् चैव रम्यम् चैव जटा पुरम् ॥४-४२-१३॥

Slōka 14 / श्लोक १४

Slōka 14

अवंतीम् अंगलेपाम् च तथा च अलक्षितम् वनम् ।
राष्ट्राणि च विशालानि पत्तनानि ततः ततः ॥४-४२-१४॥

Slōka 15 / श्लोक १५

Slōka 15

सिंधु सागरयोः चैव संगमे तत्र पर्वतः ।
महान् हेम गिरिः नाम शत शृंगो महाद्रुमः ॥४-४२-१५॥

Slōka 16 / श्लोक १६

Slōka 16

तत्र प्रस्थेषु रम्येषु सिंहाः पक्ष गमाः स्थिताः ।
तिमि मत्स्य गजाम्ब् चैव नीडानि आरोपयन्ति ते ॥४-४२-१६॥

Slōka 17 / श्लोक १७

Slōka 17

तानि नीडानि सिंहानाम् गिरि शृंग गताः च ये ।
दृप्ताः तृप्ताः च मातंगाः तोयद स्वन निःस्वनाः ॥४-४२-१७॥

Slōka 18 / श्लोक १८

Slōka 18

विचरन्ति विशाले अस्मिन् तोय पूर्णे समन्ततः ।
तस्य शृंगम् दिव स्पर्शम् कांचनम् चित्र पादपम् ॥४-४२-१८॥

Slōka 19 / श्लोक १९

Slōka 19

सर्वम् आशु विचेतव्यम् कपिभिः काम रूपिभिः ।
कोटिम् तत्र समुद्रे तु कांचनीम् शत योजनम् ॥४-४२-१९॥

Slōka 20 / श्लोक २०

Slōka 20

दुर्दर्शाम् पारियात्रस्य गता द्रक्ष्यथ वानराः ।
कोट्यः तत्र चतुर्विम्शत् गंधर्वाणाम् तरस्विनाम् ॥४-४२-२०॥

Slōka 21 / श्लोक २१

Slōka 21

वसन्ति अग्नि निकाशानाम् घोराणाम् काम रूपिणाम् ।
पावक अर्चिः प्रतीकाशाः समवेताः समन्ततः ॥४-४२-२१॥

Slōka 22 / श्लोक २२

Slōka 22

न अति आसादयित्वाः ते वानरैः भीम विक्रमैः ।
न अदेयम् च फलम् तस्मात् देशात् किम्चित् प्लवंगमैः ॥४-४२-२२॥

Slōka 23 / श्लोक २३

Slōka 23

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ।
फल मूलानि ते तत्र रक्षन्ते भीम विक्रमाः ॥४-४२-२३॥

Slōka 24 / श्लोक २४

Slōka 24

तत्र यत्नः च कर्तव्यो मार्गितव्या च जानकी ।
न हि तेभ्यो भयम् किंचित् कपित्वम् अनुवर्तताम् ॥४-४२-२४॥

Slōka 25 / श्लोक २५

Slōka 25

तत्र वैदूर्य वर्णाभो वज्र संस्थान संस्थितः ।
नाना द्रुम लता आकीर्णो वज्रः नाम महागिरिः ॥४-४२-२५॥

Slōka 26 / श्लोक २६

Slōka 26

श्रीमान् समुदितः तत्र योजनानाम् शतम् समम् ।
गुहाः तत्र विचेतव्याः प्रयत्नेन प्लवंगमाः ॥४-४२-२६॥

Slōka 27 / श्लोक २७

Slōka 27

चतुर् भागे समुद्रस्य चक्रवान् नाम पर्वतः ।
तत्र चक्रम् सहस्रारम् निर्मितम् विश्वकर्मणा ॥४-४२-२७॥

Slōka 28 / श्लोक २८

Slōka 28

तत्र पंचजनम् हत्वा हयग्रीवम् च दानवम् ।
आजहार ततः चक्रम् शंखम् च पुरुषोत्तमः ॥४-४२-२८॥

Slōka 29 / श्लोक २९

Slōka 29

तस्य सानुषु रम्येषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-२९॥

Slōka 30 / श्लोक ३०

Slōka 30

योजनानि चतुः षष्टिः वराहो नाम पर्वतः ।
सुवर्ण शृंगः सुमहान् अगाधे वरुण आलये ॥४-४२-३०॥

Slōka 31 / श्लोक ३१

Slōka 31

तत्र प्राक् ज्योतिषम् नाम जातरूपमयम् पुरम् ।
यस्मिन् वसति दुष्ट आत्मा नरको नाम दानवः ॥४-४२-३१॥

Slōka 32 / श्लोक ३२

Slōka 32

तत्र सानुषु रम्येषु विशालासु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-३२॥

Slōka 33 / श्लोक ३३

Slōka 33

तम् अतिक्रम्य शैलेन्द्रम् कांचनान् अन्तर दर्शनम् ।
पर्वतः सर्व सौवर्णो धारा प्रस्रवण आयुतः ॥४-४२-३३॥

Slōka 34 / श्लोक ३४

Slōka 34

तम् गजाः च वराहाः च सिंहा व्याघ्राः च सर्वतः ।
अभिगर्जन्ति सततम् तेन शब्देन दर्पिताः ॥४-४२-३४॥

Slōka 35 / श्लोक ३५

Slōka 35

यस्मिन् हरि हयः श्रीमान् महेन्द्रः पाकशासनः ।
अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः ॥४-४२-३५॥

Slōka 36 / श्लोक ३६

Slōka 36

तम् अतिक्रम्य शैलेन्द्रम् महेन्द्र परिपालितम् ।
षष्टिम् गिरि सहस्राणि कांचनानि गमिष्यथ ॥४-४२-३६॥

Slōka 37 / श्लोक ३७

Slōka 37

तरुण आदित्य वर्णानि भ्राजमानानि सर्वतः ।
जातरूपमयैः वृक्षैः शोभितानि सुपुष्पितैः ॥४-४२-३७॥

Slōka 38 / श्लोक ३८

Slōka 38

तेषाम् मध्ये स्थितो राजा मेरुः उत्तम पर्वतः ।
आदित्येन प्रसन्नेन शैलो दत्त वरः पुरा ॥४-४२-३८॥

Slōka 39 / श्लोक ३९

Slōka 39

तेन एवम् उक्तः शैलेन्द्रः सर्व एव त्वत् आश्रयाः ।
मत् प्रसादात् भविष्यन्ति दिवा रात्रौ च कांचनाः ॥४-४२-३९॥

Slōka 40 / श्लोक ४०

Slōka 40

त्वयि ये च अपि वत्स्यन्ति देव गन्धर्व दानवाः ।
ते भविष्यन्ति भक्ताः च प्रभया कांचन प्रभाः ॥४-४२-४०॥

Slōka 41 / श्लोक ४१

Slōka 41

विश्वेदेवाः च वसवो मरुतः च दिव ओकसः ।
आगत्य पश्चिमाम् संध्याम् मेरुम् उत्तम पर्वतम् ॥४-४२-४१॥

Slōka 42 / श्लोक ४२

Slōka 42

आदित्यम् उपतिष्ठन्ति तैः च सूर्यो अभिपूजितः ।
अदृश्यः सर्व भूतानाम् अस्तम् गच्छति पर्वतम् ॥४-४२-४२॥

Slōka 43 / श्लोक ४३

Slōka 43

योजनानाम् सहस्राणि दश तानि दिवाकरः ।
मुहूर्त अर्धेन तम् शीघ्रम् अभियाति शिल उच्चयम् ॥४-४२-४३॥

Slōka 44 / श्लोक ४४

Slōka 44

शृंगे तस्य महत् दिव्यम् भवनम् सूर्य संनिभम् ।
प्रासाद गण संबाधम् विहितम् विश्वकर्मणा ॥४-४२-४४॥

Slōka 45 / श्लोक ४५

Slōka 45

शोभितम् तरुभिः चित्रैः नाना पक्षि समाकुलैः ।
निकेतम् पाश हस्तस्य वरुणस्य महात्मनः ॥४-४२-४५॥

Slōka 46 / श्लोक ४६

Slōka 46

अन्तरा मेरुम् अस्तम् च तालो दश शिरा महान् ।
जातरूपमयः श्रीमान् भ्राजते चित्र वेदिकः ॥४-४२-४६॥

Slōka 47 / श्लोक ४७

Slōka 47

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च ।
रावणः सह वैदेह्या मार्गितव्यः ततः ततः ॥४-४२-४७॥

Slōka 48 / श्लोक ४८

Slōka 48

यत्र तिष्ठति धर्मज्ञः तपसा स्वेन भावितः ।
मेरु सावर्णिर् इति एष ख्यातो वै ब्रह्मणा समः ॥४-४२-४८॥

Slōka 49 / श्लोक ४९

Slōka 49

प्रष्टव्यो मेरुसावर्णिः महर्षिः सूर्य संनिभः ।
प्रणम्य शिरसा भूमौ प्रवृत्तिम् मैथिलीम् प्रति ॥४-४२-४९॥

Slōka 50 / श्लोक ५०

Slōka 50

एतावत् जीव लोकस्य भास्करो रजनी क्षये ।
कृत्वा वितिमिरम् सर्वम् अस्तम् गच्छति पर्वतम् ॥४-४२-५०॥

Slōka 51 / श्लोक ५१

Slōka 51

एतावत् वानरैः शक्यम् गन्तुम् वानर पुंगवाः ।
अभास्करम् अमर्यादम् न जानीमः ततः परम् ॥४-४२-५१॥

Slōka 52 / श्लोक ५२

Slōka 52

अवगम्य तु वैदेहीम् निलयम् रावणस्य च ।
अस्तम् पर्वतम् आसाद्य पूर्णे मासे निवर्तत ॥४-४२-५२॥

Slōka 53 / श्लोक ५३

Slōka 53

ऊर्ध्वम् मासान् न वस्तव्यम् वसन् वध्यो भवेन् मम ।
सह एव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥४-४२-५३॥

Slōka 54 / श्लोक ५४

Slōka 54

श्रोतव्यम् सर्वम् एतस्य भवद्भिः दिष्ट कारिभिः ।
गुरुः एष महाबाहुः श्वशुरो मे महाबलः ॥४-४२-५४॥

Slōka 55 / श्लोक ५५

Slōka 55

भवन्तः च अपि विक्रान्ताः प्रमाणम् सर्वे एव हि ।
प्रमाणम् एनम् संस्थाप्य पश्यध्वम् पश्चिमाम् दिशम् ॥४-४२-५५॥

Slōka 56 / श्लोक ५६

Slōka 56

दृष्टायाम् तु नरेन्द्रस्या पत्न्याम् अमित तेजसः ।
कृत कृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥४-४२-५६॥

Slōka 57 / श्लोक ५७

Slōka 57

अतो अन्यत् अपि यत् कार्यम् कार्यस्य अस्य प्रियम् भवेत् ।
संप्रधार्य भवद्भिः च देश काल अर्थ संहितम् ॥४-४२-५७॥

Slōka 58 / श्लोक ५८

Slōka 58

ततः सुषेण प्रमुखाः प्लवंगमाःसुग्रीव वाक्यम् निपुणम् निशम्य ।
आमंत्र्य सर्वे प्लवगाधिपम् तेजग्मुर् दिशम् ताम् वरुण अभिगुप्ताम् ॥४-४२-५८॥