Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 6 / सर्गः ६

Slōka 1 / श्लोक १

लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् ।
राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥।।

Slōka 2 / श्लोक २

अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः ।
धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥।।

Slōka 3 / श्लोक ३

तेन वानर मात्रेण दृष्टा सीता च जानकी ।
प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥।।

Slōka 4 / श्लोक ४

आविला च पुरी लंका सर्वा हनुमता कृता ।
किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥।।

Slōka 5 / श्लोक ५

उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् ।
मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥।।

Slōka 6 / श्लोक ६

तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः ।
त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥।।

Slōka 7 / श्लोक ७

तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् ।
मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥।।

Slōka 8 / श्लोक ८

मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः ।
सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥।।

Slōka 9 / श्लोक ९

दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् ।
एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥।।

Slōka 10 / श्लोक १०

एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् ।
गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥।।

Slōka 11 / श्लोक ११

करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः ।
यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥।।

Slōka 12 / श्लोक १२

एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः ।
ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥।।

Slōka 13 / श्लोक १३

मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् ।
बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥।।

Slōka 14 / श्लोक १४

पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः ।
अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥।।

Slōka 15 / श्लोक १५

न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते ।
तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥।।

Slōka 16 / श्लोक १६

कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम ।
वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥।।

Slōka 17 / श्लोक १७

रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः ।
तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥।।

Slōka 18 / श्लोक १८

तरसा युक्त रूपेण सानुजः सबल अनुगः ।
समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥६-६-१८॥।।

Slōka 19 / श्लोक १९

तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह ।
हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥