Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 31 / सर्गः ३१

Slōka 1 / श्लोक १

ततो रामो महातेजा विस्मयात्पुनरेव हि ।
उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ।। ७.३१.१ ॥

Slōka 2 / श्लोक २

भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।
पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ।। ७.३१.२ ॥

Slōka 3 / श्लोक ३

राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।
धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ।। ७.३१.३ ॥

Slōka 4 / श्लोक ४

उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।
बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ।। ७.३१.४ ॥

Slōka 5 / श्लोक ५

राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।
उवाच रामं प्रहसन्पितामह इवेश्वरम् ।। ७.३१.५ ॥

Slōka 6 / श्लोक ६

इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।
चचार रावणो राम पृथिवीं पृथिवीपते ।। ७.३१.६ ॥

Slōka 7 / श्लोक ७

ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।
सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ।। ७.३१.७ ॥

Slōka 8 / श्लोक ८

तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।
अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ।। ७.३१.८ ॥

Slōka 9 / श्लोक ९

तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली ।
अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ।। ७.३१.९ ॥

Slōka 10 / श्लोक १०

तमेव दिवसं सो ऽथ रावणस्तत्र आगतः ।
रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ।। ७.३१.१० ॥

Slōka 11 / श्लोक ११

क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।
रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ।। ७.३१.११ ॥

Slōka 12 / श्लोक १२

इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः ।
अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ।। ७.३१.१२ ॥

Slōka 13 / श्लोक १३

श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।
अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। ७.३१.१३ ॥

Slōka 14 / श्लोक १४

स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् ।
अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ।। ७.३१.१४ ॥

Slōka 15 / श्लोक १५

सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ।
प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ।। ७.३१.१५ ॥

Slōka 16 / श्लोक १६

देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः ।
स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ।। ७.३१.१६ ॥

Slōka 17 / श्लोक १७

नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् ।
फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। ७.३१.१७ ॥

Slōka 18 / श्लोक १८

उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।
पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।। ७.३१.१८ ॥

Slōka 19 / श्लोक १९

चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ।
। ७.३१.१९ ॥

Slōka 20 / श्लोक २०

महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।
उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ।। ७.३१.२० ॥

Slōka 21 / श्लोक २१

चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ।
सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ।। ७.३१.२१ ॥

Slōka 22 / श्लोक २२

फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।
विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ।। ७.३१.२२ ॥

Slōka 23 / श्लोक २३

पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।
जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ।पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।। ७.३१.२३ ॥

Slōka 24 / श्लोक २४

इष्टामिव वरां नारीमवगाह्य दशाननः ।
स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।। ७.३१.२४ ॥

Slōka 25 / श्लोक २५

उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः ।
प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ।। ७.३१.२५ ॥

Slōka 26 / श्लोक २६

नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः ।
उवाच सचिवांस्तत्र सलीलं शुकसारणौ ।। ७.३१.२६ ॥

Slōka 27 / श्लोक २७

एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् ।
तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ।। ७.३१.२७ ॥

Slōka 28 / श्लोक २८

मामासीनं विदित्वैव चन्द्रायति दिवाकरः ।
। ७.३१.२८ ॥

Slōka 29 / श्लोक २९

नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।
मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ।। ७.३१.२९ ॥

Slōka 30 / श्लोक ३०

इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ।
नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ।। ७.३१.३० ॥

Slōka 31 / श्लोक ३१

तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ।। ७.३१.३१ ॥

Slōka 32 / श्लोक ३२

ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।
महापद्ममुखा मत्ता गङ्गामिव गहागजाः ।अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ।। ७.३१.३२ ॥

Slōka 33 / श्लोक ३३

अहमप्यद्य पुलिने शरदिन्दुसमप्रभे ।
पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ।। ७.३१.३३ ॥

Slōka 34 / श्लोक ३४

रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः ।
समहोदरधूम्राक्षा नर्मदां विजगाहिरे ।। ७.३१.३४ ॥

Slōka 35 / श्लोक ३५

राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी ।
वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ।। ७.३१.३५ ॥

Slōka 36 / श्लोक ३६

ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः ।
उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ।। ७.३१.३६ ॥

Slōka 37 / श्लोक ३७

नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे ।
राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। ७.३१.३७ ॥

Slōka 38 / श्लोक ३८

पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।
अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ।। ७.३१.३८ ॥

Slōka 39 / श्लोक ३९

तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।
नर्मदासलिलात्तस्मादुत्ततार स रावणः ।। ७.३१.३९ ॥

Slōka 40 / श्लोक ४०

ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् ।
रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।। ७.३१.४० ॥

Slōka 41 / श्लोक ४१

तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ।
यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ।। ७.३१.४१ ॥

Slōka 42 / श्लोक ४२

वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।
अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ।। ७.३१.४२ ॥

Slōka 43 / श्लोक ४३

ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।
समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ।। ७.३१.४३ ।।