उत्तरकाण्डम्डम्
Chapter 30 / सर्गः ३०
Slōka 1 / श्लोक १
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै ।
प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ।। ७.३०.१ ॥
Slōka 2 / श्लोक २
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।
अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ।। ७.३०.२ ॥
Slōka 3 / श्लोक ३
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे ।
अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ।। ७.३०.३ ॥
Slōka 4 / श्लोक ४
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।
कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ।। ७.३०.४ ॥
Slōka 5 / श्लोक ५
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् ।
जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ।। ७.३०.५ ॥
Slōka 6 / श्लोक ६
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।
यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ।। ७.३०.६ ॥
Slōka 7 / श्लोक ७
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।
किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ।। ७.३०.७ ॥
Slōka 8 / श्लोक ८
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः ।
अमरत्वमहं देव वृणे यद्येष मुच्यते ।। ७.३०.८ ॥
Slōka 9 / श्लोक ९
चतुष्पदां खेचराणामन्येषां वा महौजसाम् ।
वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ।। ७.३०.९ ॥
Slōka 10 / श्लोक १०
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति ।
अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ।। ७.३०.१० ॥
Slōka 11 / श्लोक ११
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।
नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ।। ७.३०.११ ॥
Slōka 12 / श्लोक १२
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ।
। ७.३०.१२ ॥
Slōka 13 / श्लोक १३
्वं हि कस्यचित्प्राणिनो भुवि ।
अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ।। ७.३०.१३ ॥
Slōka 14 / श्लोक १४
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् ।
सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ।। ७.३०.१४ ॥
Slōka 15 / श्लोक १५
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।
तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ।। ७.३०.१५ ॥
Slōka 16 / श्लोक १६
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।
युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ।। ७.३०.१६ ॥
Slōka 17 / श्लोक १७
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।
विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ।। ७.३०.१७ ॥
Slōka 18 / श्लोक १८
एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।
मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ।। ७.३०.१८ ॥
Slōka 19 / श्लोक १९
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः ।
इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ।। ७.३०.१९ ॥
Slōka 20 / श्लोक २०
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।
शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ।। ७.३०.२० ॥
Slōka 21 / श्लोक २१
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो ।
एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ।। ७.३०.२१ ॥
Slōka 22 / श्लोक २२
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा ।
ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ।। ७.३०.२२ ॥
Slōka 23 / श्लोक २३
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।
यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ।। ७.३०.२३ ॥
Slōka 24 / श्लोक २४
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।
हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ।। ७.३०.२४ ॥
Slōka 25 / श्लोक २५
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।
अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ।। ७.३०.२५ ॥
Slōka 26 / श्लोक २६
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।
भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ।। ७.३०.२६ ॥
Slōka 27 / श्लोक २७
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।
स्थानाधिकतया पत्नी ममैषेति पुरन्दर ।। ७.३०.२७ ॥
Slōka 28 / श्लोक २८
सा मया न्यासभूता तु गौतमस्य महात्मनः ।
न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ।। ७.३०.२८ ॥
Slōka 29 / श्लोक २९
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ।
ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ।। ७.३०.२९ ॥
Slōka 30 / श्लोक ३०
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः ।
दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ।। ७.३०.३० ॥
Slōka 31 / श्लोक ३१
सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।
दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ।। ७.३०.३१ ॥
Slōka 32 / श्लोक ३२
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा ।
गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ।। ७.३०.३२ ॥
Slōka 33 / श्लोक ३३
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।
तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ।। ७.३०.३३ ॥
Slōka 34 / श्लोक ३४
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।
मानुषेष्वपि लोकेषु भविष्यति न संशयः ।। ७.३०.३४ ॥
Slōka 35 / श्लोक ३५
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।
न च ते स्थावरं स्थानं भविष्यति न संशयः ।। ७.३०.३५ ॥
Slōka 36 / श्लोक ३६
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।
एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ।। ७.३०.३६ ॥
Slōka 37 / श्लोक ३७
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः ।
दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ।। ७.३०.३७ ॥
Slōka 38 / श्लोक ३८
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता ।
तस्माद्रूपवती लोके न त्वमेका भविष्यति ।। ७.३०.३८ ॥
Slōka 39 / श्लोक ३९
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।
यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ।। ७.३०.३९ ॥
Slōka 40 / श्लोक ४०
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।
सा तं प्रसादयामास महर्षिं गौतमं तदा ।। ७.३०.४० ॥
Slōka 41 / श्लोक ४१
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा ।
न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ।। ७.३०.४१ ॥
Slōka 42 / श्लोक ४२
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ।
उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ।। ७.३०.४२ ॥
Slōka 43 / श्लोक ४३
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।
ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ।तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ।। ७.३०.४३ ॥
Slōka 44 / श्लोक ४४
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् ।
तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ।। ७.३०.४४ ॥
Slōka 45 / श्लोक ४५
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ।
एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ।। ७.३०.४५ ॥
Slōka 46 / श्लोक ४६
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः ।
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ।। ७.३०.४६ ॥
Slōka 47 / श्लोक ४७
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।
तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ।। ७.३०.४७ ॥
Slōka 48 / श्लोक ४८
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।
पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ।। ७.३०.४८ ॥
Slōka 49 / श्लोक ४९
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।
नीतः सन्निहितश्चैव आर्यकेण महोदधौ ।। ७.३०.४९ ॥
Slōka 50 / श्लोक ५०
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।
पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ।। ७.३०.५० ॥
Slōka 51 / श्लोक ५१
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।
निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ।। ७.३०.५१ ॥
Slōka 52 / श्लोक ५२
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।
अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ।। ७.३०.५२ ॥
Slōka 53 / श्लोक ५३
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।
आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ।। ७.३०.५३ ॥
Slōka 54 / श्लोक ५४
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ।
। ७.३०.५४ ॥
Slōka 55 / श्लोक ५५
एवं राम समुद्भूतो रावणो लोककण्टकः ।
सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ।। ७.३०.५५ ।।