सुन्दरकाण्डम्
Chapter 8 / सर्गः ८
Slōka 1 / श्लोक १
स तस्य मध्ये भवनस्य सम्स्थितम् ।
महद्विमानम् मणिवज्रचित्रितम् ।प्रतप्तजाम्बूनदजालकृत्रिमम् ।ददर्श वीरः पवनात्मजः कपिः ॥५-८-१॥
Slōka 2 / श्लोक २
तदप्रमेयाप्रतिकारकृत्रिमम् ।
कृतम् स्वयम् साध्विति विश्वकर्मणाः ।दिवम् गतम् वायुपथप्रतिष्ठितम् ।व्यराजतादित्यपथस्य लक्ष्मिवत् ॥५-८-२॥
Slōka 3 / श्लोक ३
न तत्र किम्चिन्न कृतम् प्रयत्नतो ।
न तत्र किम्चिन्न महर्हरत्नवत् ।न ते विशेषा नियताः सुरेष्वपि ।न तत्र किम्चिन्न महाविशेषवत् ॥५-८-३॥
Slōka 4 / श्लोक ४
तपह्समाधानपराक्रमार्जितम् ।
मनःसमाधानविचारचारिणम् ।अनेकसम्स्थानविषेषनिर्मितम् ।ततस्ततस्तुल्यविशेषदर्शनम् ॥५-८-४॥
Slōka 5 / श्लोक ५
विशेषमालम्ब्य विशेषसम्स्थितम् ।
विचित्रकूटम् बहुकूटमण्डितम् ।मनोऽभिरामम् शरद्न्दुनिर्मलम् ।विचित्रकूटम् शिखरम् गिरेर्यथा ॥५-८-५॥
Slōka 6 / श्लोक ६
वहन्ति यम् कुण्डशोभितानना ।
महाशना व्योमचरा निशाचराः ।विवृत्तविध्वस्तविशाललोचना ।महाजवा भूतगणाः सहस्रशः ॥५-८-६॥
Slōka 7 / श्लोक ७
वसन्तपुष्पोत्करचारुदर्शनम् ।
वसन्तमासदपि कान्तदर्शनम् ।स पुष्पकम् तत्र विमानमुत्तमम् ।ददर्श तद्वानरवीरसत्तमः ॥५-८-७॥