Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 40 / सर्गः ४०

Slōka 1 / श्लोक १

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। ५.४०.१।।।।

Slōka 2 / श्लोक २

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।
अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। ५.४०.२।।।।

Slōka 3 / श्लोक ३

यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।
संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ।। ५.४०.३।।।।

Slōka 4 / श्लोक ४

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ।। ५.४०.४।।।।

Slōka 5 / श्लोक ५

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।
त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।। ५.४०.५।।।।

Slōka 6 / श्लोक ६

स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।
वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ।। ५.४०.६।।।।

Slōka 7 / श्लोक ७

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।। ५.४०.७।।।।

Slōka 8 / श्लोक ८

एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। ५.४०.८।।।।

Slōka 9 / श्लोक ९

असह्यानि न दुःखानि वाचश्च हृदयच्छिदः ।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। ५.४०.९।।।।

Slōka 10 / श्लोक १०

धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।
मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।। ५.४०.१०।।।।

Slōka 11 / श्लोक ११

घोरो राक्षसराजो ऽयं दृष्टिश्च न सुखा मयि ।
त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ।। ५.४०.११।।।।

Slōka 12 / श्लोक १२

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
तथा ऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ।। ५.४०.१२।।।।

Slōka 13 / श्लोक १३

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। ५.४०.१३।।।।

Slōka 14 / श्लोक १४

कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ।
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ।। ५.४०.१४।।।।

Slōka 15 / श्लोक १५

तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ ।
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। ५.४०.१५।।।।

Slōka 16 / श्लोक १६

हत्वा तु समरे क्रूरं रावणं सहबान्धवम् ।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ।। ५.४०.१६।।।।

Slōka 17 / श्लोक १७

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।
प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ।। ५.४०.१७।।।।

Slōka 18 / श्लोक १८

सा ऽब्रवीद्दत्तमेवेति मया ऽभिज्ञानमुत्तमम् ।
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।। ५.४०.१८।।।।

Slōka 19 / श्लोक १९

स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ।
प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। ५.४०.१९।।।।

Slōka 20 / श्लोक २०

तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ।
वर्धमानं महावेगमुवाच जनकात्मजा ।। ५.४०.२०।।।।

Slōka 21 / श्लोक २१

अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ।
। ५.४०.२१।।।।

Slōka 22 / श्लोक २२

हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ।। ५.४०.२२।।।।

Slōka 23 / श्लोक २३

यथा च स महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ।। ५.४०.२३।।।।

Slōka 24 / श्लोक २४

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। ५.४०.२४।।।।

Slōka 25 / श्लोक २५

स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ।। ५.४०.२५।।