अरण्यकाण्डम्
Chapter 39 / सर्गः ३९
Slōka 1 / श्लोक १
एवम् अस्मि तदा मुक्तः कथंचित् तेन संयुगे ।
इदानीम् अपि यत् वृत्तम् तत् शृउणुष्व यत् उत्तरम् ॥३-३९-१॥
Slōka 2 / श्लोक २
राक्षाभ्याम् अहम् द्वाभ्याम् अनिर्विण्णः तथा कृतः ।
सहितो मृग रूपाभ्याम् प्रविष्टो दंडका वने ॥३-३९-२॥
Slōka 3 / श्लोक ३
दीप्त जिह्वो महादंष्ट्रः तीक्ष्ण शृंगो महाबलः ।
व्यचरन् दंडाकारण्यम् मांस भक्षो महामृगः ॥३-३९-३॥
Slōka 4 / श्लोक ४
अग्निहोत्रेषु तीर्थेषु चैत्य वृक्षेषु रावण ।
अत्यन्त घोरो व्यचरन् तापसान् संप्रधर्षयन् ॥३-३९-४॥
Slōka 5 / श्लोक ५
निहत्य दंडकारण्ये तापसान् धर्मचरिणः ।
रुधिराणि पिबन्तः तेषाम् तन् मांसानि च भक्षयन् ॥३-३९-५॥
Slōka 6 / श्लोक ६
ऋषि माअंस अशनः क्रूरः त्रासयन् वनगोचरान् ।
तदा रुधिर मत्तो अहम् व्यचरन् दंडका वनम् ॥३-३९-६॥
Slōka 7 / श्लोक ७
तदा अहम् दंडकारण्ये विचरन् धर्म दूषकः ।
आसादयम् तदा रामम् तापसम् धर्मम् आश्रितम् ॥३-३९-७॥
Slōka 8 / श्लोक ८
वैदेहि च महाभागाम् लक्ष्मणम् च महरथम् ।
तापसम् नियत आहारम् सर्व बूत हिते रतम् ॥३-३९-८॥
Slōka 9 / श्लोक ९
सः अहम् वन गतम् रामम् परिभूय महाबलम् ।
तापसो अयम् इति ज्ञात्वा पूर्व वैरम् अनुस्मरन् ॥३-३९-९॥
Slōka 10 / श्लोक १०
अभ्यधावम् सुसंक्रुद्धः तीक्ष्ण शृंगो मृग आकृतिः ।
जिघांसुः अकृतप्रज्ञः तम् प्रहारम् अनुस्मरन् ॥३-३९-१०॥
Slōka 11 / श्लोक ११
तेन त्यक्ताः त्रयो बाणाः शिताः शत्रु निबर्हणाः ।
विकृष्य सुमहत् चापम् सुपर्ण अनिल तुल्य गाः ॥३-३९-११॥
Slōka 12 / श्लोक १२
ते बाणा वज्र संकाशाः सुघोरा रक्त भोजनाः ।
आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥३-३९-१२॥
Slōka 13 / श्लोक १३
पराक्रमज्ञो रामस्य शठो दृष्ट भयः पुरा ।
समुत्क्रांतः ततः मुक्तः तौ उभौ राक्षसौ हतौ ॥३-३९-१३॥
Slōka 14 / श्लोक १४
शरेण मुक्तो रामस्य कथंचित् प्राप्यजीवितम् ।
इह प्रव्राजितो युक्तः तापसो अहम् समाहितः ॥३-३९-१४॥
Slōka 15 / श्लोक १५
वृक्षे वृक्षे हि पश्यामि चीर कृष्ण अजिन अंबरम् ।
गृहीत धनुषम् रामम् पाश हस्तम् इव अंतकम् ॥३-३९-१५॥
Slōka 16 / श्लोक १६
अपि राम सहस्राणि भीतः पश्यामि रावण ।
राम भूतम् इदम् सर्वम् अरण्यम् प्रतिभाति मे ॥३-३९-१६॥
Slōka 17 / श्लोक १७
रामम् एव हि पश्यामि रहिते राक्षसेश्वर ।
दृष्ट्वा स्वप्न गतम् रामम् उद् भ्रमामि विचेतनः ॥३-३९-१७॥
Slōka 18 / श्लोक १८
र कार अदीनि नामानि राम त्रस्तस्य रवण ।
रत्नानि च रथाः च एव वित्रासम् जनयन्ति मे ॥३-३९-१८॥
Slōka 19 / श्लोक १९
अहम् तस्य प्रभावज्ञो न युद्धम् तेन ते क्षमम् ।
बलिम् वा नमुचिं वा अपि हन्यद्धि रघुनंअंदन ॥३-३९-१९॥
Slōka 20 / श्लोक २०
रणे रामेण युद्ध्स्व क्षमाम् वा कुरु रावण ।
न ते राम कथा कार्या यदि माम् द्रष्टुम् इच्छसि ॥३-३९-२०॥
Slōka 21 / श्लोक २१
बहवः साधवो लोके युक्ता धर्मम् अनुष्टिताः ।
परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥३-३९-२१॥
Slōka 22 / श्लोक २२
सः अहम् पर अपराधेन विनाशेयम् निशाचर ।
कुरु यत् ते क्षमम् तत् त्वम् अहम् त्वाम् न अनुयामि वै ॥३-३९-२२॥
Slōka 23 / श्लोक २३
रामः च हि महातेजा महासत्त्वो महाबलः ।
अपि राक्षस लोकस्य भवेत् अन्तकरो अपि हि ॥३-३९-२३॥
Slōka 24 / श्लोक २४
यदि शूर्पणखा हेतोः जनस्थान गत खरः ।
अति वृत्तो हतः पूर्वम् रामेण अक्लिष्ट कर्मणा ।अत्र ब्रूहि यथावत् त्वम् को रामस्य व्यतिक्रमः ॥३-३९-२४॥
Slōka 25 / श्लोक २५
इदम् वचो बन्धु हित अर्थिना मयायथा उच्यमानम् यदि न अभिपत्स्यसे ।
स बान्धवः त्यक्ष्यसि जीवितम् रणेहतो अद्य रामेण शरैः जिह्मगैः ॥३-३९-२५॥