किष्किन्धाकाण्डम्डम्
Chapter 47 / सर्गः ४७
Slōka 1 / श्लोक १
Slōka 1
दर्शनार्थम् तु वैदेह्याः सर्वतः कपि कुंजराः ।
व्यादिष्टाः कपि राजेन यथा उक्तम् जग्मुर् अंजसा ॥४-४७-१॥
Slōka 2 / श्लोक २
Slōka 2
ते सरांसि सरित् कक्षान् आकाशम् नगराणि च ।
नदी दुर्गान् तथा शैलान् विचिन्वन्ति समन्ततः ॥४-४७-२॥
Slōka 3 / श्लोक ३
Slōka 3
सुग्रीवेण समाख्याताः सर्वे वानर यूथपाः ।
तत्र देशान् प्रविचिन्वन्ति स शैल वन काननान् ॥४-४७-३॥
Slōka 4 / श्लोक ४
Slōka 4
विचिन्त्य दिवसम् सर्वे सीता अधिगमने धृताः ।
समायान्ति स्म मेदिन्याम् निशा कालेषु वानराः ॥४-४७-४॥
Slōka 5 / श्लोक ५
Slōka 5
सर्व ऋतुकान् च देशेषु वानराः स फलान् द्रुमान् ।
आसाद्य रजनीम् शय्याम् चक्रुः सर्वेषु अहस्सु ते ॥४-४७-५॥
Slōka 6 / श्लोक ६
Slōka 6
तत् अहः प्रथमम् कृत्वा मासे प्रस्रवणम् गताः ।
कपि राजेन संगम्य निराशाः कपि कुंजराः ॥४-४७-६॥
Slōka 7 / श्लोक ७
Slōka 7
विचित्य तु दिशम् पूर्वाम् यथा उक्ताम् सचिवैः सह ।
अदृष्ट्वा विनतः सीताम् आजगाम महाबलः ॥४-४७-७॥
Slōka 8 / श्लोक ८
Slōka 8
दिशम् अपि उत्तराम् सर्वाम् विविच्य स महाकपिः ।
आगतः सह सैन्येन वीरः शतबलिः तदा ॥४-४७-८॥
Slōka 9 / श्लोक ९
Slōka 9
सुषेणः पश्चिमाम् आशाम् विविच्य सह वानरैः ।
समेत्य मासे पूर्णे तु सुग्रीवम् उपचक्रमे ॥४-४७-९॥
Slōka 10 / श्लोक १०
Slōka 10
तम् प्रस्रवण पृष्ठस्थम् समासाद्य अभिवाद्य च ।
आसीनम् सह रामेण सुग्रीवम् इदम् अब्रुवन् ॥४-४७-१०॥
Slōka 11 / श्लोक ११
Slōka 11
विचिताः पर्वताः सर्वे वनानि गहनानि च ।
निम्नगाः सागर अन्ताः च सर्वे जनपदाः तथा ॥४-४७-११॥
Slōka 12 / श्लोक १२
Slōka 12
गुहाः च विचिताः सर्वा याः च ते परिकीर्तिताः ।
विचिताः च महागुल्मा लता वितत संतताः ॥४-४७-१२॥
Slōka 13 / श्लोक १३
Slōka 13
गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वानि अतिप्रमाणानि विचितानि हतानि च ।ये चैव गहना देशा विचिताः ते पुनः पुनः ॥४-४७-१३॥
Slōka 14 / श्लोक १४
Slōka 14
उदार सत्त्व अभिजनो हनूमान्स मैथिलीम् ज्ञास्यसि वानरेन्द्र ।
दिशम् तु याम् एव गता तु सीताताम् आस्थितो वायु सुतो हनूमान् ॥४-४७-१४॥