उत्तरकाण्डम्डम्
Chapter 87 / सर्गः ८७
Slōka 1 / श्लोक १
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ।। ७.८७.१ ॥
Slōka 2 / श्लोक २
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।
वृत्रघातमशेषेण वाजिमेधफलं च यत् ।। ७.८७.२ ॥
Slōka 3 / श्लोक ३
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।
पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ।। ७.८७.३ ॥
Slōka 4 / श्लोक ४
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।
राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ।। ७.८७.४ ॥
Slōka 5 / श्लोक ५
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।
नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।। ७.८७.५ ॥
Slōka 6 / श्लोक ६
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।
अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ।। ७.८७.६ ॥
Slōka 7 / श्लोक ७
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।
बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ।। ७.८७.७ ॥
Slōka 8 / श्लोक ८
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।
चैत्रे मनोरमे मासि सभृत्यबलवाहनः ।। ७.८७.८ ॥
Slōka 9 / श्लोक ९
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः ।
हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ।। ७.८७.९ ॥
Slōka 10 / श्लोक १०
नानामृगाणामयुतं वध्यमानं महात्मना ।
यत्र जातो माहासेनस्तं देशमुपचक्रमे ।। ७.८७.१० ॥
Slōka 11 / श्लोक ११
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः ।
रमयामास दुर्धर्षः सर्वैरनुचरैः सह ।। ७.८७.११ ॥
Slōka 12 / श्लोक १२
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।
देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ।। ७.८७.१२ ॥
Slōka 13 / श्लोक १३
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।
वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ।। ७.८७.१३ ॥
Slōka 14 / श्लोक १४
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह ।
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ।। ७.८७.१४ ॥
Slōka 15 / श्लोक १५
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् ।
आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ।। ७.८७.१५ ॥
Slōka 16 / श्लोक १६
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् ।
उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ।। ७.८७.१६ ॥
Slōka 17 / श्लोक १७
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।
जगाम शरणं राजा सभृत्यबलवाहनः ।। ७.८७.१७ ॥
Slōka 18 / श्लोक १८
ततः प्रहस्य वरदः सह देव्या महेश्वरः ।
प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ।। ७.८७.१८ ॥
Slōka 19 / श्लोक १९
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।
पुरुषत्वमृते सौम्य वरं वरय सुव्रत ।। ७.८७.१९ ॥
Slōka 20 / श्लोक २०
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।
न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ।। ७.८७.२० ॥
Slōka 21 / श्लोक २१
ततः शोकेन महता शैलराजसुतां नृपः ।
प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ।। ७.८७.२१ ॥
Slōka 22 / श्लोक २२
ईशे वराणां वरदे लोकानामसि भामिनी ।
अमोघदर्शने देवी भज सौम्येन चक्षुषा ।। ७.८७.२२ ॥
Slōka 23 / श्लोक २३
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।
प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ।। ७.८७.२३ ॥
Slōka 24 / श्लोक २४
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।
तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ।। ७.८७.२४ ॥
Slōka 25 / श्लोक २५
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।
सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ।। ७.८७.२५ ॥
Slōka 26 / श्लोक २६
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।
मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ।। ७.८७.२६ ॥
Slōka 27 / श्लोक २७
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।
प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ।। ७.८७.२७ ॥
Slōka 28 / श्लोक २८
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।
स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ।। ७.८७.२८ ॥
Slōka 29 / श्लोक २९
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।
त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ।। ७.८७.२९ ।।