Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 24 / सर्गः २४

Slōka 1 / श्लोक १

प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।
अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। ५.२४.१।।।।

Slōka 2 / श्लोक २

उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।
उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। ५.२४.२।।।।

Slōka 3 / श्लोक ३

राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा ।
रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। ५.२४.३।।।।

Slōka 4 / श्लोक ४

राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम् ।
चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। ५.२४.४।।।।

Slōka 5 / श्लोक ५

न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः ।
वसन्त्या राक्षसी मध्ये विना रामं महारथम् ।। ५.२४.५।।।।

Slōka 6 / श्लोक ६

धिङ्मामनार्यामसतीं याहं तेन विना कृता ।
मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। ५.२४.६।।।।

Slōka 7 / श्लोक ७

का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।
भर्तारं सागरान्ताया वसुधायाः प्रियं वदम् ।। ५.२४.७।।।।

Slōka 8 / श्लोक ८

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। ५.२४.८।।।।

Slōka 9 / श्लोक ९

चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।
रावणं किं पुनरहं कामयेयं विगर्हितम् ।। ५.२४.९।।।।

Slōka 10 / श्लोक १०

प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।
यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति ।। ५.२४.१०।।।।

Slōka 11 / श्लोक ११

छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता ।
रावणं नोपतिष्ठेयं किं प्रलापेन वश् चिरम् ।। ५.२४.११।।।।

Slōka 12 / श्लोक १२

ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।
सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात् ।। ५.२४.१२।।।।

Slōka 13 / श्लोक १३

राक्षसानां जनस्थाने सहस्राणि चतुर्दश ।
येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। ५.२४.१३।।।।

Slōka 14 / श्लोक १४

निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।
समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। ५.२४.१४।।।।

Slōka 15 / श्लोक १५

विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।
रणे रामेण निहतः स मां किं नाभिपद्यते ।। ५.२४.१५।।।।

Slōka 16 / श्लोक १६

कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।
न तु राघवबाणानां गतिरोधी ह विद्यते ।। ५.२४.१६।।।।

Slōka 17 / श्लोक १७

किं नु तत्कारणं येन रामो दृढपराक्रमः ।
रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते ।। ५.२४.१७।।।।

Slōka 18 / श्लोक १८

इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।
जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति ।। ५.२४.१८।।।।

Slōka 19 / श्लोक १९

हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् ।
गृध्रराजोऽपि स रणे रावणेन निपातितः ।। ५.२४.१९।।।।

Slōka 20 / श्लोक २०

कृतं कर्म महत्तेन मां तदाभ्यवपद्यता ।
तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। ५.२४.२०।।।।

Slōka 21 / श्लोक २१

यदि मामिह जानीयाद्वर्तमानां स राघवः ।
अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं ।। ५.२४.२१।।।।

Slōka 22 / श्लोक २२

विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।
रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।।५.२४.२२।।।।

Slōka 23 / श्लोक २३

ततो निहतनथानां राक्षसीनां गृहे गृहे ।
यथाहमेवं रुदती तथा भूयो न संशयः ।अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ।। ५.२४.२३।।।।

Slōka 24 / श्लोक २४

न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति ।
चिता धूमाकुलपथा गृध्रमण्डलसङ्कुला ।अचिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। ५.२४.२४।।।।

Slōka 25 / श्लोक २५

अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम् ।
दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः ।। ५.२४.२५।।।।

Slōka 26 / श्लोक २६

यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु ।
अचिरेणैव कालेन भविष्यति हतप्रभा ।। ५.२४.२६।।।।

Slōka 27 / श्लोक २७

नूनं लङ्का हते पापे रावणे राक्षसाधिपे ।
शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। ५.२४.२७।।।।

Slōka 28 / श्लोक २८

पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा ।
भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना ।। ५.२४.२८।।।।

Slōka 29 / श्लोक २९

नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।
श्रोष्यामि नचिरादेव दुःखार्तानाम् इह ध्वनिम् ।। ५.२४.२९।।।।

Slōka 30 / श्लोक ३०

सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।
भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। ५.२४.३०।।।।

Slōka 31 / श्लोक ३१

यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।
जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। ५.२४.३१।।।।

Slōka 32 / श्लोक ३२

अनेन तु नृशंसेन रावणेनाधमेन मे ।
समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः ।। ५.२४.३२।।।।

Slōka 33 / श्लोक ३३

अकार्यं ये न जानन्ति नैरृताः पापकारिणः ।
अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। ५.२४.३३।।।।

Slōka 34 / श्लोक ३४

नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। ५.२४.३४।।।।

Slōka 35 / श्लोक ३५

साहं कथं करिष्यामि तं विना प्रियदर्शनम् ।
रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। ५.२४.३५।।।।

Slōka 36 / श्लोक ३६

यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह ।
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ।। ५.२४.३६।।।।

Slōka 37 / श्लोक ३७

नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।
जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। ५.२४.३७।।।।

Slōka 38 / श्लोक ३८

नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।
देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। ५.२४.३८।।।।

Slōka 39 / श्लोक ३९

धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। ५.२४.३९।।।।

Slōka 40 / श्लोक ४०

अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः ।
मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। ५.२४.४०।।।।

Slōka 41 / श्लोक ४१

दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः ।
नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति ।। ५.२४.४१।।।।

Slōka 42 / श्लोक ४२

किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे ।
याहं सीता वरार्हेण हीना रामेण भामिनी ।। ५.२४.४२।।।।

Slōka 43 / श्लोक ४३

श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना ।
रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। ५.२४.४३।।।।

Slōka 44 / श्लोक ४४

अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ ।
भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ ।। ५.२४.४४।।।।

Slōka 45 / श्लोक ४५

अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना ।
छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। ५.२४.४५।।।।

Slōka 46 / श्लोक ४६

साहमेवङ्गते काले मर्तुमिच्छामि सर्वथा ।
न च मे विहितो मृत्युरस्मिन्दुःखेऽपि वर्तति ।। ५.२४.४६।।।।

Slōka 47 / श्लोक ४७

धन्याः खलु महात्मानो मुनयः सत्यसंमताः ।
जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। ५.२४.४७।।।।

Slōka 48 / श्लोक ४८

प्रियान्न सम्भवेद्दुःखमप्रियादधिकं भयम् ।
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। ५.२४.४८।।।।

Slōka 49 / श्लोक ४९

साहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।
प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। ५.२४.४९।।