Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 33 / सर्गः ३३

Slōka 1 / श्लोक १

रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।
ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ।। ७.३३.१ ॥

Slōka 2 / श्लोक २

ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः ।
माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ।। ७.३३.२ ॥

Slōka 3 / श्लोक ३

स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।
पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ।। ७.३३.३ ॥

Slōka 4 / श्लोक ४

सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् ।
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ।। ७.३३.४ ॥

Slōka 5 / श्लोक ५

पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।
ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ।। ७.३३.५ ॥

Slōka 6 / श्लोक ६

पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।
शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ।। ७.३३.६ ॥

Slōka 7 / श्लोक ७

पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।
पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ।। ७.३३.७ ॥

Slōka 8 / श्लोक ८

ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।
अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ।। ७.३३.८ ॥

Slōka 9 / श्लोक ९

स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।
पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ।। ७.३३.९ ॥

Slōka 10 / श्लोक १०

अद्यैवममरावत्या तुल्या माहिष्मती कृता ।
अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ।। ७.३३.१० ॥

Slōka 11 / श्लोक ११

अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ।। ७.३३.११ ॥

Slōka 12 / श्लोक १२

इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।
ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ।। ७.३३.१२ ॥

Slōka 13 / श्लोक १३

तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ।
पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ।। ७.३३.१३ ॥

Slōka 14 / श्लोक १४

नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।
अतुलं ते बलं येन दशग्रीवस्त्वया जितः ।। ७.३३.१४ ॥

Slōka 15 / श्लोक १५

भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।
सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ।। ७.३३.१५ ॥

Slōka 16 / श्लोक १६

पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।
मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ।। ७.३३.१६ ॥

Slōka 17 / श्लोक १७

पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः ।
मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ।। ७.३३.१७ ॥

Slōka 18 / श्लोक १८

स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।
अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ।। ७.३३.१८ ॥

Slōka 19 / श्लोक १९

पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् ।
परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ।। ७.३३.१९ ॥

Slōka 20 / श्लोक २०

पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ।। ७.३३.२० ॥

Slōka 21 / श्लोक २१

एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् ।
पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ।। ७.३३.२१ ॥

Slōka 22 / श्लोक २२

एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।
नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ।। ७.३३.२२ ॥

Slōka 23 / श्लोक २३

ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।
पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ।। ७.३३.२३ ।।