Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 106 / सर्गः १०६

Slōka 1 / श्लोक १

एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ॥ २.१०६.१॥

Slōka 2 / श्लोक २

को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।
न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ॥ २.१०६.२॥

Slōka 3 / श्लोक ३

सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ २.१०६.३॥

Slōka 4 / श्लोक ४

यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।
यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ॥ २.१०६.४॥

Slōka 5 / श्लोक ५

परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ २.१०६.५॥

Slōka 6 / श्लोक ६

अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: ।
सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ २.१०६.६॥

Slōka 7 / श्लोक ७

न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दु:खमासादयितुमर्हति ॥ २.१०६.७॥

Slōka 8 / श्लोक ८

प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ २.१०६.८॥

Slōka 9 / श्लोक ९

धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ २.१०६.९॥

Slōka 10 / श्लोक १०

कथं दशरथाज्जात: शुद्धाभिजनकर्मण: ।
जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ २.१०६.१०॥

Slōka 11 / श्लोक ११

गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥ २.१०६.११॥

Slōka 12 / श्लोक १२

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।
स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ २.१०६.१२॥

Slōka 13 / श्लोक १३

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: ।
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ॥ २.१०६.१३॥

Slōka 14 / श्लोक १४

साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् ।
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ २.१०६.१४॥

Slōka 15 / श्लोक १५

पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ २.१०६.१५॥

Slōka 16 / श्लोक १६

तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ २.१०६.१६॥

Slōka 17 / श्लोक १७

कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: ।
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ २.१०६.१७॥

Slōka 18 / श्लोक १८

क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ २.१०६.१८॥

Slōka 19 / श्लोक १९

एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ २.१०६.१९॥

Slōka 20 / श्लोक २०

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ॥ २.१०६.२०॥

Slōka 21 / श्लोक २१

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २.१०६.२१॥

Slōka 22 / श्लोक २२

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २.१०६.२२॥

Slōka 23 / श्लोक २३

श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २.१०६.२३॥

Slōka 24 / श्लोक २४

हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् ।
भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ २.१०६.२४॥

Slōka 25 / श्लोक २५

इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ॥ २.१०६.२५॥

Slōka 26 / श्लोक २६

इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह ।
ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ॥ २.१०६.२६॥

Slōka 27 / श्लोक २७

अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।
विजित्य तरसा लोकान् मरुद्भिरिव वासव: ॥ २.१०६.२७॥

Slōka 28 / श्लोक २८

ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् ।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २.१०६.२८॥

Slōka 29 / श्लोक २९

अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने ।
अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ॥ २.१०६.२९॥

Slōka 30 / श्लोक ३०

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २.१०६.३०॥

Slōka 31 / श्लोक ३१

शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ॥ २.१०६.३१॥

Slōka 32 / श्लोक ३२

अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: ।
गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ २.१०६.३२॥

Slōka 33 / श्लोक ३३

तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: ।
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ॥ २.१०६.३३॥

Slōka 34 / श्लोक ३४

तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: ।
न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ॥ २.१०६.३४॥

Slōka 35 / श्लोक ३५

तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: ।
तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ॥ २.१०६.३५ ॥