Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 74 / सर्गः ७४

Slōka 1 / श्लोक १

तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। ७.७४.१ ॥

Slōka 2 / श्लोक २

स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।
वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। ७.७४.२ ॥

Slōka 3 / श्लोक ३

ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।
राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। ७.७४.३ ॥

Slōka 4 / श्लोक ४

मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः ।
कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा ।एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।। ७.७४.४ ॥

Slōka 5 / श्लोक ५

महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ।
मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ।। ७.७४.५ ॥

Slōka 6 / श्लोक ६

तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।
राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ।। ७.७४.६ ॥

Slōka 7 / श्लोक ७

तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। ७.७४.७ ॥

Slōka 8 / श्लोक ८

शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः ।
श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ।। ७.७४.८ ॥

Slōka 9 / श्लोक ९

पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।
अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ।। ७.७४.९ ॥

Slōka 10 / श्लोक १०

तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।। ७.७४.१० ॥

Slōka 11 / श्लोक ११

ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।
क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ।। ७.७४.११ ॥

Slōka 12 / श्लोक १२

वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि ।
मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ।। ७.७४.१२ ॥

Slōka 13 / श्लोक १३

ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।
युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।। ७.७४.१३ ॥

Slōka 14 / श्लोक १४

अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।। ७.७४.१४ ॥

Slōka 15 / श्लोक १५

तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।
अधर्मः पादमेकं तु पातयत्पृथिवीतले ।। ७.७४.१५ ॥

Slōka 16 / श्लोक १६

अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ।
। ७.७४.१६ ॥

Slōka 17 / श्लोक १७

आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।
अनृतं नाम तद्भूतं पादेन पृथिवीतले ।। ७.७४.१७ ॥

Slōka 18 / श्लोक १८

अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। ७.७४.१८ ॥

Slōka 19 / श्लोक १९

पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।
शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ।। ७.७४.१९ ॥

Slōka 20 / श्लोक २०

त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।
तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ।। ७.७४.२० ॥

Slōka 21 / श्लोक २१

स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ।। ७.७४.२१ ॥

Slōka 22 / श्लोक २२

एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।
ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। ७.७४.२२ ॥

Slōka 23 / श्लोक २३

ततः पादमधर्मस्स द्वितीयमवतारयत् ।
ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ।। ७.७४.२३ ॥

Slōka 24 / श्लोक २४

तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये ।
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ।। ७.७४.२४ ॥

Slōka 25 / श्लोक २५

तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् ।
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ।। ७.७४.२५ ॥

Slōka 26 / श्लोक २६

त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।
न शुद्धो लभते धर्मं युगतस्तु नरर्षभ ।हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ।। ७.७४.२६ ॥

Slōka 27 / श्लोक २७

भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे ।
अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ।। ७.७४.२७ ॥

Slōka 28 / श्लोक २८

स वै विषयपर्यन्ते तव राजन्महातपाः ।
अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।। ७.७४.२८ ॥

Slōka 29 / श्लोक २९

यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।
करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।क्षिप्रं च नरकं याति स च राजा न संशयः ।। ७.७४.२९ ॥

Slōka 30 / श्लोक ३०

अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।। ७.७४.३० ॥

Slōka 31 / श्लोक ३१

षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ।
। ७.७४.३१ ॥

Slōka 32 / श्लोक ३२

स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।। ७.७४.३२ ॥

Slōka 33 / श्लोक ३३

एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। ७.७४.३३ ।।