सुन्दरकाण्डम्
Chapter 18 / सर्गः १८
Slōka 1 / श्लोक १
तथा विप्रेक्षमाणस्य वनम् पुष्पितपादपम् ।
विचिन्वतश्च वैदेहीम् किंचिच्चेषा निशाभवत् ।। ५-१८-१।।
Slōka 2 / श्लोक २
षडङ्गवेदविदुषाम् क्रतुप्रवरयाजिनाम् ।
शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम् ।। ५-१८-२।।
Slōka 3 / श्लोक ३
अथ मङ्गलवादित्रशब्दैः श्रुतिमनोहरैः ।
प्रबुध्यत महाबाहुर्दशग्रीवो महाबलः ।। ५-१८-३।।
Slōka 4 / श्लोक ४
विबुध्य तु यथाकालम् राक्षसेन्द्रः प्रतापवान् ।
स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयात् ।। ५-१८-४।।
Slōka 5 / श्लोक ५
भृशं नियुक्तस्तस्याम् च मदनेन मदोत्कटः ।
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ।। ५-१८-५।।
Slōka 6 / श्लोक ६
स सर्वाभरणैर्युक्तो बिभच्छ्रियमनुत्तमाम् ।
तां नगैर्बहुभिर्जुष्टाम् सर्वपुष्पफलोपगैः ।। ५-१८-६।।
Slōka 7 / श्लोक ७
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।
सदामदैश्च विहगैर्विचित्राम् परमाद्भुताम् ।। ५-१८-७।।
Slōka 8 / श्लोक ८
ईहामृगैश्च विविधैर्जुष्टां डृष्टिमनोहरैः ।
वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः ।। ५-१८-८।।
Slōka 9 / श्लोक ९
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।
अशोकवनकामेव प्राविशत्संततद्रुमाम् ।। ५-१८-९।।
Slōka 10 / श्लोक १०
अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।
महेन्द्रमिव पौलस्त्यम्ं देवगन्धर्वयोषितः ।। ५-१८-१०।।
Slōka 11 / श्लोक ११
दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः ।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः ।। ५-१८-११।।
Slōka 12 / श्लोक १२
काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।
मण्डलागान् ब्रुसींश्चापि गृह्यान्याः पृष्ठतो ययुः ।। ५-१८-१२।।
Slōka 13 / श्लोक १३
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य ब्राजतम् ।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ।। ५-१८-१३।।
Slōka 14 / श्लोक १४
राजहंसप्रतीकाशं चत्रं पूर्णशशिप्रभम् ।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ।। ५-१८-१४।।
Slōka 15 / श्लोक १५
निद्रामदपरीताक्ष्यो रावनस्योत्तमाः स्त्रियः ।
अनुजग्मुः पतिं वीरम् घनम् विद्युल्लता इव ।। ५-१८-१५।।
Slōka 16 / श्लोक १६
व्याविद्धहारकेयूराः समामृदितवर्णकाः ।
समागळितकेशान्ताः सस्वेदवदनास्तथा ।। ५-१८-१६।।
Slōka 17 / श्लोक १७
घोर्णन्त्यो मदशेषेण निद्रया च शुभाननाः ।
स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ।। ५-१८-१७।।
Slōka 18 / श्लोक १८
प्रयान्तं नैरृतपतिं नार्यो मदिरलोचनाः ।
बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ।। ५-१८-१८।।
Slōka 19 / श्लोक १९
स च कामपराधीनः पतिस्तासां महाबलः ।
सीतासक्तमना मन्दो मन्दाञ्चितगतिर्बभौ ।। ५-१८-१९।।
Slōka 20 / श्लोक २०
ततः काञ्चीनिनादं च नूपुराणाम् च निस्वनम् ।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ।। ५-१८-२०।।
Slōka 21 / श्लोक २१
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ।। ५-१८-२१।।
Slōka 22 / श्लोक २२
दीपिकाभिरनेकाभिः समन्तादवभासितम् ।
गन्धतैलावसिक्ताभिर्द्रियमाणाभिरग्रतः ।। ५-१८-२२।।
Slōka 23 / श्लोक २३
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।
समक्षमिव कन्दर्पमपविद्धशरासनम् ।। ५-१८-२३।।
Slōka 24 / श्लोक २४
मथितामृतफेनाभमरजोवस्त्रमुत्तमम् ।
सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ।। ५-१८-२४।।
Slōka 25 / श्लोक २५
तं पत्रविटपे लीनः अत्रपुष्पघनावृतह् ।
समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ।। ५-१८-२५।।
Slōka 26 / श्लोक २६
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः ।
रूपयौवनसंपन्ना रावणस्य वरस्तियः ।। ५-१८-२६।।
Slōka 27 / श्लोक २७
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।
तस्मृगद्विजसम्घष्टं प्रविष्टः प्रमदावनम् ।। ५-१८-२७।।
Slōka 28 / श्लोक २८
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ।। ५-१८-२८।।
Slōka 29 / श्लोक २९
वृतः परमनारीभिस्ताराभिरिव चन्द्रामाः ।
तं ददर्श महातेजास्तेजोवन्तं महाकपिः ।। ५-१८-२९।।
Slōka 30 / श्लोक ३०
रावणोऽयम् महाबाहुरिति संचिन्त्य वानरः ।
अवप्लुतो महातेजा हनुमान्मारुतात्मजः ।। ५-१८-३०।।
Slōka 31 / श्लोक ३१
स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।
पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ।। ५-१८-३१।।
Slōka 32 / श्लोक ३२
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।
दिदृक्षुरसितापाङ्गमुपावर्तत रावणः ।। ५-१८-३२