Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 109 / सर्गः १०९

Slōka 1 / श्लोक १

जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: ।
उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २.१०९.१॥

Slōka 2 / श्लोक २

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।
अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २.१०९.२॥

Slōka 3 / श्लोक ३

निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: ।
मानं न लभते सत्सु भिन्नचारित्रदर्शन: ॥ २.१०९.३॥

Slōka 4 / श्लोक ४

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।
चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २.१०९.४॥

Slōka 5 / श्लोक ५

अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: ।
लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ॥ २.१०९.५॥

Slōka 6 / श्लोक ६

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २.१०९.६॥

Slōka 7 / श्लोक ७

कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: ।
बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २.१०९.७॥

Slōka 8 / श्लोक ८

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।
अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २.१०९.८॥

Slōka 9 / श्लोक ९

कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते ।
यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ॥ २.१०९.९॥

Slōka 10 / श्लोक १०

सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।
तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ॥ २.१०९.१०॥

Slōka 11 / श्लोक ११

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २.१०९.११॥

Slōka 12 / श्लोक १२

उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: ।
धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २.१०९.१२॥

Slōka 13 / श्लोक १३

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २.१०९.१३॥

Slōka 14 / श्लोक १४

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।
वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ २.१०९.१४॥

Slōka 15 / श्लोक १५

एक: पालयते लोकमेक: पालयते कुलम् ।
मज्जत्येको हि निरय एक: स्वर्गे महीयते ॥ २.१०९.१५॥

Slōka 16 / श्लोक १६

सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।
सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ॥ २.१०९.१६॥

Slōka 17 / श्लोक १७

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: ।
सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ॥ २.१०९.१७॥

Slōka 18 / श्लोक १८

असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: ।
नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ॥ २.१०९.१८॥

Slōka 19 / श्लोक १९

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।
भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २.१०९.१९॥

Slōka 20 / श्लोक २०

क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।
क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ॥ २.१०९.२०॥

Slōka 21 / श्लोक २१

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २.१०९.२१॥

Slōka 22 / श्लोक २२

भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि ।
स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २.१०९.२२॥

Slōka 23 / श्लोक २३

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।
आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २.१०९.२३॥

Slōka 24 / श्लोक २४

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।
भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ॥ २.१०९.२४॥

Slōka 25 / श्लोक २५

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।
प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २.१०९.२५॥

Slōka 26 / श्लोक २६

वनवासं वसन्नेवं शुचिर्नियतभोजन: ।
मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ॥ २.१०९.२६॥

Slōka 27 / श्लोक २७

सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।
अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ॥ २.१०९.२७॥

Slōka 28 / श्लोक २८

कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ॥ २.१०९.२८॥

Slōka 29 / श्लोक २९

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: ।
तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ॥ २.१०९.२९॥

Slōka 30 / श्लोक ३०

अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।
अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २.१०९.३०॥

Slōka 31 / श्लोक ३१

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।
द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ॥ २.१०९.३१॥

Slōka 32 / श्लोक ३२

तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: ।
धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ॥ २.१०९.३२॥

Slōka 33 / श्लोक ३३

निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।
बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २.१०९.३३॥

Slōka 34 / श्लोक ३४

यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।
तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ॥ २.१०९.३४॥

Slōka 35 / श्लोक ३५

त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: ।
जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ॥ २.१०९.३५॥

Slōka 36 / श्लोक ३६

धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: ।
अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ॥ २.१०९.३६॥

Slōka 37 / श्लोक ३७

इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।
उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ॥ २.१०९.३७॥

Slōka 38 / श्लोक ३८

न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।
समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥२.१०९.३८॥

Slōka 39 / श्लोक ३९

स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता ।
निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ २.१०९.३९ ॥