Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 57 / सर्गः ५७

Slōka 1 / श्लोक १

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।
तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।। 5.57.1 ।।।।

Slōka 2 / श्लोक २

पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।
ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।। 5.57.2 ।।।।

Slōka 3 / श्लोक ३

वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।
भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।। 5.57.3 ।।।।

Slōka 4 / श्लोक ४

हनुमान् मारुतगतिर्महानौरिव सागरम् ।
अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।। 5.57.4 ।।।।

Slōka 5 / श्लोक ५

ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।
हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।। 5.57.5 ।।।।

Slōka 6 / श्लोक ६

मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान् ।
हनुमान् मेघजालानि विकर्षन्निव गच्छति ।। 5.57.6 ।।।।

Slōka 7 / श्लोक ७

पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।
हरितारुणवर्णानि महाभ्राणि चकाशिरे ।। 5.57.7 ।।।।

Slōka 8 / श्लोक ८

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ।। 5.57.8 ।।।।

Slōka 9 / श्लोक ९

विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।
दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायते ऽम्बरे ।। 5.57.9 ।।।।

Slōka 10 / श्लोक १०

तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।
दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ।। 5.57.10 ।।।।

Slōka 11 / श्लोक ११

नदन्नादेन महता मेघस्वनमहास्वनः ।
प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ।। 5.57.11 ।।।।

Slōka 12 / श्लोक १२

आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।
अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ।। 5.57.12 ।।।।

Slōka 13 / श्लोक १३

आजगाम महातेजाः पुनर्मध्येन सागरम् ।
। 5.57.13 ।।।।

Slōka 14 / श्लोक १४

पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।
ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः ।। 5.57.14 ।।।।

Slōka 15 / श्लोक १५

स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।
महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ।। 5.57.15 ।।।।

Slōka 16 / श्लोक १६

स पूरयामास कपिर्दिशो दश समन्ततः ।
नदन्नादेन महता मेघस्वनमहास्वनः ।। 5.57.16 ।।।।

Slōka 17 / श्लोक १७

स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ।
ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत् ।। 5.57.17 ।।।।

Slōka 18 / श्लोक १८

तस्य नानद्यमानस्य सुपर्णचरिते पथि ।
फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।। 5.57.18 ।।।।

Slōka 19 / श्लोक १९

ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ।
पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ।। 5.57.19 ।।।।

Slōka 20 / श्लोक २०

महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।
शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।। 5.57.20 ।।।।

Slōka 21 / श्लोक २१

ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ।
वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।। 5.57.21 ।।।।

Slōka 22 / श्लोक २२

निशम्य नदतो नादं वानरास्ते समन्ततः ।
बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ।। 5.57.22 ।।।।

Slōka 23 / श्लोक २३

जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।
उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।। 5.57.23 ।।।।

Slōka 24 / श्लोक २४

सर्वथा कृतकार्यो ऽसौ हनूमान्नात्र संशयः ।
न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।। 5.57.24 ।।।।

Slōka 25 / श्लोक २५

तस्य बाहूरुवेगं च निनादं च महात्मनः ।
निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।। 5.57.25 ।।।।

Slōka 26 / श्लोक २६

ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।
प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।। 5.57.26 ।।।।

Slōka 27 / श्लोक २७

ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ।
वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।। 5.57.27 ।।।।

Slōka 28 / श्लोक २८

गिरिगह्वरसंलीनो यथा गर्जति मारुतः ।
एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ।। 5.57.28 ।।।।

Slōka 29 / श्लोक २९

तमभ्रघनसङ्काशमापतन्तं महाकपिम् ।
दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ।। 5.57.29 ।।।।

Slōka 30 / श्लोक ३०

ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।
निपपात महेन्द्रस्य शिखरे पादपाकुले ।। 5.57.30 ।।।।

Slōka 31 / श्लोक ३१

हर्षेणापूर्यमाणो ऽसौ रम्ये पर्वतनिर्झरे ।
छिन्नपक्ष इवाकाशात् पपात धरणीधरः ।। 5.57.31 ।।।।

Slōka 32 / श्लोक ३२

ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।
हनूमन्तं महात्मानं परिवार्योपतस्थिरे ।परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।। 5.57.32 ।।।।

Slōka 33 / श्लोक ३३

प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।
उपायनानि चादाय मूलानि च फलानि च ।प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।। 5.57.33 ।।।।

Slōka 34 / श्लोक ३४

हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा ।
कुमारमङ्गदं चैव सो ऽवन्दत महाकपिः ।। 5.57.34 ।।।।

Slōka 35 / श्लोक ३५

स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।
दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ।। 5.57.35 ।।।।

Slōka 36 / श्लोक ३६

निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।
रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।। 5.57.36 ।।।।

Slōka 37 / श्लोक ३७

हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ।
। 5.57.37 ।।।।

Slōka 38 / श्लोक ३८

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।
रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ।। 5.57.38 ।।।।

Slōka 39 / श्लोक ३९

एकवेणीधरा बाला रामदर्शनलालसा ।
उपवासपरिश्रान्ता जटिला मलिना कृशा ।। 5.57.39 ।।।।

Slōka 40 / श्लोक ४०

ततो दृष्टेति वचनं महार्थममृतोपमम् ।
निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ।। 5.57.40 ।।।।

Slōka 41 / श्लोक ४१

क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।
चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ।। 5.57.41 ।।।।

Slōka 42 / श्लोक ४२

केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।
अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ।। 5.57.42 ।।।।

Slōka 43 / श्लोक ४३

अपरे च हनूमन्तं वानरा वारणोपमम् ।
आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।। 5.57.43 ।।।।

Slōka 44 / श्लोक ४४

उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।
सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ।। 5.57.44 ।।।।

Slōka 45 / श्लोक ४५

सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ।। 5.57.45 ।।।।

Slōka 46 / श्लोक ४६

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।। 5.57.46 ।।।।

Slōka 47 / श्लोक ४७

दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।
ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।। 5.57.47 ।।।।

Slōka 48 / श्लोक ४८

परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।
श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।। 5.57.48 ।।।।

Slōka 49 / श्लोक ४९

दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।
तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ।। 5.57.49 ।।।।

Slōka 50 / श्लोक ५०

तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।
उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ।। 5.57.50 ।।।।

Slōka 51 / श्लोक ५१

हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गदबद्धबाहुना ।
मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रिया ऽभवत् ।। 5.57.51 ।।