बालकाण्डम्
Chapter 64 / सर्गः ६४
Slōka 1 / श्लोक १
सुर कार्यम् इदम् रंभे कर्तव्यम् सुमहत् त्वया ।
लोभनम् कौशिकस्य इह काम मोह समन्वितम् ॥१-६४-१॥
Slōka 2 / श्लोक २
तथा उक्ता स अप्सरा राम सहस्राक्षेण धीमता ।
व्रीडिता प्रांजलिः वाक्यम् प्रत्युवाच सुर ईश्वरम् ॥१-६४-२॥
Slōka 3 / श्लोक ३
अयम् सुर पते घोरो विश्वामित्रो महामुनिः ।
क्रोधम् उत्स्रच्यते घोरम् मयि देव न संशयः ॥१-६४-३॥
Slōka 4 / श्लोक ४
ततो हि मे भयम् देव प्रसादम् कर्तुम् अर्हसि ।
एवम् उक्तः तया राम स भयम् भीतया तदा ॥१-६४-४॥
Slōka 5 / श्लोक ५
ताम् उवाच सहस्राक्षो वेपमानाम् कृतांजलिम् ।
मा भैषी रंभे भद्रम् ते कुरुष्व मम शासनम् ॥१-६४-५॥
Slōka 6 / श्लोक ६
कोकिलो हृदय ग्राही माधवे रुचिर द्रुमे ।
अहम् कंदर्प सहितः स्थास्यामि तव पार्श्वतः ॥१-६४-६॥
Slōka 7 / श्लोक ७
त्वम् हि रूपम् बहु गुणम् कृत्वा परम भास्वरम् ।
तम् ऋषिम् कौशिकम् रंभे भेदयस्व तपस्विनम् ॥१-६४-७॥
Slōka 8 / श्लोक ८
सा श्रुत्वा वचनम् तस्य कृत्वा रूपम् अनुत्तमम् ।
लोभयामास ललिता विश्वामित्रम् शुचि स्मिता ॥१-६४-८॥
Slōka 9 / श्लोक ९
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।
संप्रहृष्टेन मनसा स एनाम् अन्वैक्षत ॥१-६४-९॥
Slōka 10 / श्लोक १०
अथ तस्य च शब्देन गीतेन अप्रतिमेन च ।
दर्शनेन च रंभाया मुनिः संदेहम् आगतः ॥१-६४-१०॥
Slōka 11 / श्लोक ११
सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः ।
रंभाम् क्रोध समाविष्टः शशाप कुशिक आत्मजः ॥१-६४-११॥
Slōka 12 / श्लोक १२
यत् माम् लोभयसे रंभे काम क्रोध जय एषिणम् ।
दश वर्ष सहस्राणि शैली स्थास्यसि दुर्भगे ॥१-६४-१२॥
Slōka 13 / श्लोक १३
ब्राह्मणः सुमहातेजाः तपो बल समन्वितः ।
उद्धरिष्यति रंभे त्वाम् मत् क्रोध कलुषी कृताम् ॥१-६४-१३॥
Slōka 14 / श्लोक १४
एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः ।
अशक्नुवन् धारयितुम् कोपम् संतापम् आगतः ॥१-६४-१४॥
Slōka 15 / श्लोक १५
तस्य शापेन महता रम्भा शैली तदा अभवत् ।
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१-६४-१५॥
Slōka 16 / श्लोक १६
कोपेन स महातेजाः तपो अपहरणे कृते ।
इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः ॥१-६४-१६॥
Slōka 17 / श्लोक १७
बभूव अस्य मनः चिंता तपो अपहरणे कृते ।
न एव क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन ॥१-६४-१७॥
Slōka 18 / श्लोक १८
अथवा न उच्छासिष्यामि संवत्स्र शतानि अपि ।
अहम् हि शोषयिष्यामि आत्मानम् विजितेन्द्रियः ॥१-६४-१८॥
Slōka 19 / श्लोक १९
तावत् यावत् हि मे प्राप्तम् ब्राह्मण्यम् तपसा आर्जितम् ।
अनुच्छ्वसन् अभुंजाः तिष्ठेयम् शाश्वती समाः ॥१-६४-१९॥
Slōka 20 / श्लोक २०
न हि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः ।
एवम् वेअर्ष शस्रस्य दीक्षाम् स मुनिपुंगवः ।चकार प्रतिमाम् लोके प्रतिज्ञाम् रघुनंदन ॥१-६४-२०॥