अरण्यकाण्डम्
Chapter 4 / सर्गः ४
Slōka 1 / श्लोक १
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ ।
उच्चैः स्वरेण चुक्रोश प्रगृह्य सु महाभुजौ ॥३-४-१॥
Slōka 2 / श्लोक २
एष दाशरथी रामः सत्यवान् शीलवान् शुचिः ।
रक्षसा रौद्र रूपेण ह्रियते सह लक्ष्मणः ॥३-४-२॥
Slōka 3 / श्लोक ३
माम् ऋका भक्ष इष्यन्ति शार्दूल द्वीपिनः तथा ।
माम् हरः उत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तमः ॥३-४-३॥
Slōka 4 / श्लोक ४
तस्याः तत् वचनम् श्रुत्वा वैदेह्याः राम लक्ष्मणौ ।
वेगम् प्रचक्रतुर् वीरौ वधे तस्य दुरात्मनः ॥३-४-४॥
Slōka 5 / श्लोक ५
तस्य रौद्रस्य सोउमित्रिः सव्यम् बाहुम् बभञ्ज ह ।
रामः तु दक्षिणम् बाहुम् तरसा तस्य रक्षसः ॥३-४-५॥
Slōka 6 / श्लोक ६
सः भग्न बहुः संविग्नः पपात आशु विमूर्छितः ।
धरण्याम् मेघ संकाशो वज्र भिन्न इव अचलः ॥३-४-६॥
Slōka 7 / श्लोक ७
मुष्टिभिर् बाहुभिर् पद्भिः सूदयन्तौ तु राक्षसम् ।
उद्यम्योद्यम्य च अपि एनम् स्थण्डिले निष्पिपेषतुः ॥३-४-७॥
Slōka 8 / श्लोक ८
स विद्धो बहुभिर् बाणैः खड्गाभ्याम् च परिक्षतः ।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥३-४-८॥
Slōka 9 / श्लोक ९
तम् प्रेक्ष्य रामः सुभृशम् अवध्यम् अचल उपमम् ।
भयेषु अभय दः श्रीमान् इदम् वचनम् अब्रवीत् ॥३-४-९॥
Slōka 10 / श्लोक १०
तपसा पुरुषव्याघ्र राक्षसोऽयम् न शक्यते ।
शस्त्रेण युधि निर्जेतुम् राक्षसम् निखनावहे ॥३-४-१०॥
Slōka 11 / श्लोक ११
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।
वने अस्मिन् सुमहद् श्वभ्रम् खन्यताम् रौद्रवर्चसः ॥३-४-११॥
Slōka 12 / श्लोक १२
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।
तस्थौ विराधम् आक्र्म्य कण्ठे पादेन वीर्यवान् ॥३-४-१२॥
Slōka 13 / श्लोक १३
तत् श्रुत्वा राघवेण उक्तम् राक्षसः प्रश्रितम् वचः ।
इदम् प्रोवाच काकुत्स्थम् विराधः पुरुषर्षभम् ॥३-४-१३॥
Slōka 14 / श्लोक १४
हतोऽहम् पुरुषव्याघ्रः शक्र तुल्य बलेन वै ।
मया तु पूर्वम् त्वम् मोहान् न ज्ञातः पुरुषर्षभः ॥३-४-१४॥
Slōka 15 / श्लोक १५
कौसल्या सुप्रजातः तात रामः त्वम् विदितो मया ।
वैदेही च महाभागा लक्ष्मणः च महायशाः ॥३-४-१५॥
Slōka 16 / श्लोक १६
अभि शापाद् अहम् घोरम् प्रविष्टो राक्ष्सीम् तनुम् ।
तुंबुरुः नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥३-४-१६॥
Slōka 17 / श्लोक १७
प्रसाद्यमानः च मया सोऽब्रवीत् माम् महायशाः ।
यदा दाशरथी रमः त्वाम् वधिष्यति संयुगे ॥३-४-१७॥
Slōka 18 / श्लोक १८
तदा प्रकृतिम् आपन्नो भवान् स्वर्गम् गमिष्यति ।
अनुपस्थीयमानो माम् स क्रुद्धो व्याजहार ह ॥३-४-१८॥
Slōka 19 / श्लोक १९
इति वैश्रवणो राजा रंभ आसक्तम् उवाच ह ।
तव प्रसादान् मुक्तो अहम् अभिशापात् सु दारुणात् ॥३-४-१९॥
Slōka 20 / श्लोक २०
भुवनम् स्वम् गमिष्यामि स्वस्ति वोऽस्तु परंतप ।
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥३-४-२०॥
Slōka 21 / श्लोक २१
अध्यर्थ योजने तातः महर्षिः सूर्य संनिभः ।
तम् क्षिप्रम् अभिगच्छ त्वम् स ते श्रेयो अभिधास्यति ॥३-४-२१॥
Slōka 22 / श्लोक २२
अवटे च अपि माम् राम निक्षिप्य कुशली व्रज ।
रक्षसाम् गत सत्त्वानाम् एष धर्मः सनातनः ॥३-४-२२॥
Slōka 23 / श्लोक २३
अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः ।
एवम् उक्त्वा तु काकुत्स्थम् विराधः शर पीडितः ॥३-४-२३॥
Slōka 24 / श्लोक २४
बभूव स्वर्ग संप्राप्तो न्यस्त देहो महाबलः ।
तत् श्रुत्वा राघवः वाक्यम् लक्ष्मणम् व्यादिदेश ह ॥३-४-२४॥
Slōka 25 / श्लोक २५
कुंजर्स्य इव रौद्रस्य राक्षसस्य अस्य लक्ष्मण! ।
वने अस्मिन् सुमहत् श्वभ्रम् खन्यताम् रौद्रकर्मणः॥३-४-२५॥
Slōka 26 / श्लोक २६
इति उक्त्वा लक्ष्मणम् रामः प्रदरः खन्यताम् इति ।
तस्थौ विराधम् आक्रम्य कण्ठे पादेन वीर्यवान् ॥३-४-२६॥
Slōka 27 / श्लोक २७
ततः खनित्रम् आदाय लक्ष्मणः श्वभ्रम् उत्तमम् ।
अखनत् पार्श्वतः तस्य विराधस्य महात्मनः ॥३-४-२७॥
Slōka 28 / श्लोक २८
तम् मुक्त कण्ठम् उत्क्षिप्य शङ्कु कर्णम् महास्वनम् ।
विराधम् प्राक्षिपत् श्वभ्रे नदन्तम् भैरव स्वनम् ॥३-४-२८॥
Slōka 29 / श्लोक २९
तम् आहवे दारुणम् आशु विक्रमौस्थिरौ उभौ संयति राम लक्ष्मणौ ।
मुदान्वितौ चिक्षिपतुर् भयावहम्नदन्तम् उत्क्षिप्य बिलेन राक्ष्सम् ॥३-४-२९॥
Slōka 30 / श्लोक ३०
अवध्यताम् प्रेक्ष्य महासुरस्य तौशितेन शस्त्रेण तदा नरर्षभौ ।
समर्थ्य च अत्यर्थ विशारदौ उभौबिले विरधस्य वधम् प्रचक्रतुः ॥३-४-३०॥
Slōka 31 / श्लोक ३१
स्वयम् विराधेन हि मृत्युम् आत्मनःप्रसह्य रामेण वधार्थम् ईप्सितः ।
निवेदितः कानन चारिणा स्वयम्न मे वधः शस्त्र कृतो भवेत् इति ॥३-४-३१॥
Slōka 32 / श्लोक ३२
तदेव रामेण निशम्य भाषितम्कृता मतिः तस्य बिल प्रवेशने ।
बिलम् च तेन अति बलेन रक्षसाप्रवेश्यमानेन वनम् विनादितम् ॥३-४-३२॥
Slōka 33 / श्लोक ३३
प्रहृष्ट रूपौ इव राम लक्ष्मणौविराधम् उर्व्याम् प्रदरे निपात्य तम् ।
ननन्दतुः वीत भयौ महावनेशिलाभिः अन्तर् दधतुः च राक्षसम् ॥३-४-३३॥
Slōka 34 / श्लोक ३४
ततः तु तौ कांचन चित्र कार्मुकौनिहत्य रक्षः परिगृह्य मैथिलीम् ।
विजह्रतुः तौ मुदितौ महावनेदिवि स्थितौ चन्द्र दिवाकरौ इव ॥३-४-३४॥