Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 73 / सर्गः ७३

Slōka 1 / श्लोक १

दर्शयित्वा रामाय सीतायाः प्रैमार्गने ।
वाक्यम् अन्वर्थम् अर्थज्ञः कबंधः पुनः अब्रवीत् ॥३-७३-१॥

Slōka 2 / श्लोक २

एष राम शिवः पंथा यत्र एते पुष्पिता द्रुमाः ।
प्रतीचीम् दिशम् आश्रित्य प्रकाशन्ते मनो रमाः ॥३-७३-२॥

Slōka 3 / श्लोक ३

जंबू प्रियाल पनसाः प्लक्ष न्यग्रोध तिंदुकाः ।
अश्वत्थाः कर्णिकाराः च चूताः च अन्ये च पादपाः ॥३-७३-३॥

Slōka 4 / श्लोक ४

धन्वना नाग वृक्षा तिलका नक्तमालकाः ।
नील अशोक कदंबाः च करवीराः च पुष्पिताः ॥३-७३-४॥

Slōka 5 / श्लोक ५

अग्निमुखा अशोकाः च सुरक्ताः परिभद्रकाः ।
तान् आरुह्य अथवा भूमौ पातयित्वा च तान् बलात् ॥३-७३-५॥

Slōka 6 / श्लोक ६

फलानि अमृत कल्पानि भक्षयित्वा गमिष्यथः ।
तत् अतिक्रम्य काकुत्स्थ वनम् पुषित पादपम् ॥३-७३-६॥

Slōka 7 / श्लोक ७

नंदन प्रतिमम् तु अन्यत् कुरवः उत्तरा इव ।
सर्व काल फला यत्र पादपा मधुर स्रवाः ॥३-७३-७॥

Slōka 8 / श्लोक ८

सर्वे च ऋतवः तत्र वने चैत्ररथे यथा ।
फल भार नताः तत्र महा विटप धारिणः ॥३-७३-८॥

Slōka 9 / श्लोक ९

शोबन्ते सर्वतः तत्र मेघ पर्वत संनिभाः ।
तान् आरुह्य अथवा भूमौ पातैत्वा यथा सुखम् ॥३-७३-९॥

Slōka 10 / श्लोक १०

फलानि अमृत कल्पानि लक्षमणः ते प्रदास्यति ।
चङ्क्रमंतौ वरान् शैलान् शैलात् शैलम् वनात् वनम् ॥३-७३-१०॥

Slōka 11 / श्लोक ११

ततः पुष्करिणीम् वीरौ पंपाम् नाम गमिष्यथः ।
अशर्कराम् अविभ्रंशाम् सम तीर्थम् अशैवलाम् ॥३-७३-११॥

Slōka 12 / श्लोक १२

राम संजात वालूकाम् कमल उत्पल शोभिताम् ।
तत्र हंसाः प्लवाः क्रौङ्चाः कुरराः चैव राघव ॥३-७३-१२॥

Slōka 13 / श्लोक १३

वल्गु स्वरा निकूजन्ति पंपा सलिल गोचराः ।
न उद्विजन्ते नरान् दृष्ट्वा वधस्य अकोविदाः शुभाः ॥३-७३-१३॥

Slōka 14 / श्लोक १४

घृत पिण्ड उपमान् स्थूलान् तान् द्विजान् भक्षयिष्यथः ।
रोहितान् वक्र तुण्डान् च नल मीनान् च राघव ॥३-७३-१४॥

Slōka 15 / श्लोक १५

पंपायाम् इषुभिः मत्स्यान् तत्र राम वरान् हतान् ।
निस्त्वक्पक्षानयसतप्तानकृशान्नैककण्टकान् - यद्वा -निः त्वक् पक्षान् अयस तप्तान् अकृशान् न अनेक कण्टकान् ॥३-७३-१५॥

Slōka 16 / श्लोक १६

तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ।
भृशम् तान् खादतो मत्स्यान् पंपायाः पुष्प संचये ॥३-७३-१६॥

Slōka 17 / श्लोक १७

पद्म गन्धि शिवम् वारि सुख शीतम् अनामयम् ।
उद्धृत्य स तदा अक्लिष्टम् रूप्य स्फटिक सन्निभम् ॥३-७३-१७॥

Slōka 18 / श्लोक १८

अथ पुष्कर पर्णेन लक्ष्मणः पाययिष्यति ।
स्थूलान् गिरि गुहा शय्यान् वानरान् वन चारिणः ॥३-७३-१८॥

Slōka 19 / श्लोक १९

साय आह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः ।
अपाम् लोभात उपावृत्तान् वृषभान् इव नर्दतः ॥३-७३-१९॥

Slōka 20 / श्लोक २०

रूप अन्वितान् च पंपायाम् द्रक्ष्यसि त्वम् नरोत्तम ।
साय अह्ने विचरन् राम विटपीन् माल्य धारिणः ॥३-७३-२०॥

Slōka 21 / श्लोक २१

शिव उदकम् च पंपायाम् दृष्ट्वा शोकम् विहास्यसि ।
सु मनोभिः चितान् तत्र तिलकान् नक्त मालकान् ॥३-७३-२१॥

Slōka 22 / श्लोक २२

उत्पलानि च फुल्लानि पंकजानि च राघव ।
न तानि कश्चित् माल्यानि तत्र आरोपयिता नरः ॥३-७३-२२॥

Slōka 23 / श्लोक २३

न च वै म्लानताम् यान्ति न च शीर्यन्ति राघव ।
मतंग शिष्याः तत्र आसन् ऋषयः सुसमाहितः ॥३-७३-२३॥

Slōka 24 / श्लोक २४

तेषाम् भार अभितप्तानाम् वन्यम् आहरताम् गुरोः ।
ये प्रपेतुः महीम् तूर्णम् शरीरात् स्वेद बिन्दवः ॥३-७३-२४॥

Slōka 25 / श्लोक २५

तानि माल्यानि जातानि मुनीनाम् तपसा तदा ।
स्वेद बिन्दु समुत्थानि न विनश्यन्ति राघव ॥३-७३-२५॥

Slōka 26 / श्लोक २६

तेषाम् गतानाम् अद्य अपि दृश्यते परिचारिणी ।
श्रमणी शबरी नाम काकुत्स्थ चिर जीविनी ॥३-७३-२६॥

Slōka 27 / श्लोक २७

त्वाम् तु धर्मे स्थिता नित्यम् सर्व भूत नमस्कृतम् ।
दृष्ट्वा देव उपमम् राम स्वर्ग लोकम् गमिष्यति ॥३-७३-२७॥

Slōka 28 / श्लोक २८

ततः तत् राम पंपायाः तीरम् आश्रित्य पश्चिमम् ।
आश्रम स्थानम् अतुलम् गुह्यम् काकुत्स्थ पश्यसि ॥३-७३-२८॥

Slōka 29 / श्लोक २९

न तत्र आक्रमितुम् नागाः शक्नुवन्ति तद् आश्रमे ।
ऋषेः तस्य मतंगस्य विधानात् तत् च काननम् ॥३-७३-२९॥

Slōka 30 / श्लोक ३०

मातंग वनम् इति एव विश्रुतम् रघुनंदन ।
तस्मिन् नंदन संकाशे देव अरण्य उपमे वने ॥३-७३-३०॥

Slōka 31 / श्लोक ३१

नाना विहग संकीर्णे रंस्यसे राम निर्वृतः ।
ऋष्यमूकः तु पंपायाः पुरस्तात् पुष्पित द्रुमः ॥३-७३-३१॥

Slōka 32 / श्लोक ३२

सु दुःख आरोहणः च एव शिशु नाग अभिरक्षितः ।
उदारो ब्रह्मणा चैव पूर्व काले विनिर्मितः ॥३-७३-३२॥

Slōka 33 / श्लोक ३३

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ।
यत् स्वप्ने लभते वित्तम् तत् प्रबुद्धो अधिगच्छति ॥३-७३-३३॥

Slōka 34 / श्लोक ३४

यः तु एनम् विषम आचारः पाप कर्मा अधिरोहति ।
तत्र एव प्रहरन्ति एनम् सुप्तम् आदाय राक्षसाः ॥३-७३-३४॥

Slōka 35 / श्लोक ३५

तत्र अपि शिशु नागानाम् आक्रंदः श्रूयते महान् ।
क्रीडताम् राम पंपायाम् मतंग आश्रम वासिनाम् ॥३-७३-३५॥

Slōka 36 / श्लोक ३६

सिक्ता रुधिर धाराभिः संहत्य परम द्विपाः ।
प्रचरन्ति पृथक् कीर्णा मेघ वर्णाः तरस्विनः ॥३-७३-३६॥

Slōka 37 / श्लोक ३७

ते तत्र पीत्वा पानीयम् विमलम् चारु शोभनम् ।
अत्यन्त सुख संस्पर्शम् सर्व गन्ध समन्वितम् ॥३-७३-३७॥

Slōka 38 / श्लोक ३८

निवृत्ताः सम्विगाहन्ते वनानि वन गोचराः ।
ऋक्षाम् च द्विपिनः चैव नील कोमलक प्रभान् ॥३-७३-३८॥

Slōka 39 / श्लोक ३९

रुरून् अपेता अपजयान् दृष्ट्वा शोकम् प्रहास्यसि ।
राम तस्य तु शैलस्य महती शोभते गुहा ॥३-७३-३९॥

Slōka 40 / श्लोक ४०

शिला पिधाना काकुत्स्थ दुःखम् च अस्याः प्रवेशनम् ।
तस्या गुहायाः प्राक् द्वारे महान् शीत उदको ह्रदः ॥३-७३-४०॥

Slōka 41 / श्लोक ४१

बहु मूल फलो रम्यो नाना नग समाकुलः ।
तस्याम् वसति सुग्रीवः चतुर्भिः सह वानरैः ॥३-७३-४१॥

Slōka 42 / श्लोक ४२

कदाचित् शिखरे तस्य पर्वतस्य अपि तिष्ठते ।
कबंधः तु अनुशास्य एवम् तौ उभौ राम लक्ष्मणौ ॥३-७३-४२॥

Slōka 43 / श्लोक ४३

स्रग्वी भास्कर वर्ण आभः खे व्यरोचत वीर्यवान् ।
तम् तु ख स्थम् महाभागम् कबंधम् राम लक्ष्मणौ ॥३-७३-४३॥

Slōka 44 / श्लोक ४४

प्रस्थितौ त्वम् व्रजस्व इति वाक्यम् ऊचतुः अन्तिके ।
गम्यताम् कार्य सिद्धि अर्थम् इति तौ अब्रवीत् च सः ॥३-७३-४४॥

Slōka 45 / श्लोक ४५

सुप्रीतौ तौ अनुज्ञाप्य कबंधः प्रस्थितः तदा ॥३-७३-४५॥

Slōka 46 / श्लोक ४६

स तत् कबंधः प्रतिपद्य रूपम्वृतः श्रिया भास्कर सर्व देहः ।
निदर्शयन् रामम् अवेक्ष्य ख स्थःसख्यम् कुरुष्व इति तदा अभ्युवाच ॥३-७३-४६॥